शनिवार, 26 सितंबर 2020

मनु स्मृति

प्रथमोऽध्यायः १

मनुमेकाग्रमासीनमभिगम्य महर्षयः ।

प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् ॥१.१॥

भगवन् सर्ववर्णानां यथावदनुपूर्वशः ।

अन्तरप्रभवानां च धर्मान्नो वक्तुमर्हसि ॥१.२॥

त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयम्भुवः ।

अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित्प्रभो ॥१.३॥

स तैः पृष्टस्तथा सम्यगमितोजा महात्मभिः ।

प्रत्युवाचार्च्य तान् सर्वान् महर्षींश्रूयतामिति ॥१.४॥

आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।

अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥१.५॥

ततः स्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदम् ।

महाभूतादि वृत्तोजाः प्रादुरासीत्तमोनुदः ॥१.६॥

योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।

सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ ॥१.७॥

सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः ।

अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥१.८॥

तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ।

तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥१.९॥

आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।

ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥१.१०॥

यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम् ।

तद्विसृष्टः स पुरुषो लोके ब्रह्मैति कीर्त्यते ॥१.११॥

तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् ।

स्वयमेवात्मनो ध्यानात्तदण्डमकरोद्द्विधा ॥१.१२॥

ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे ।

मध्ये व्योम दिशश्चाष्टावपां स्थानं च शाश्वतम् ॥१.१३॥

उद्बबर्हात्मनश्चैव मनः सदसदात्मकम् ।

मनसश्चाप्यहङ्कारमभिमन्तारमीश्वरम् ॥१.१४॥

महान्तमेव चात्मानं सर्वाणि त्रिगुणानि च ।

विषयाणां ग्रहीतॄणि शनैः पञ्चैन्द्रियाणि च ॥१.१५॥

तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम् ।

संनिवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥१.१६॥

यन् मूर्त्यवयवाः सूक्ष्मास्तानीमान्याश्रयन्ति षट् ।

तस्माच्छरीरमित्याहुस्तस्य मूर्तिं मनीषिणः ॥१.१७॥

तदाविशन्ति भूतानि महान्ति सह कर्मभिः ।

मनश्चावयवैः सूक्ष्मैः सर्वभूतकृदव्ययम् ॥१.१८॥

तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् ।

सूक्ष्माभ्यो मूर्तिमात्राभ्यः सम्भवत्यव्ययाद्व्ययम् ॥१.१९॥

आद्याद्यस्य गुणं त्वेषामवाप्नोति परः परः ।

यो यो यावतिथश्चैषां स स तावद्गुणः स्मृतः ॥१.२०॥

सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक् ।

वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥१.२१॥

कर्मात्मनां च देवानां सोऽसृजत्प्राणिनां प्रभुः ।

साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् ॥१.२२॥

अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् ।

दुदोह यज्ञसिद्ध्यर्थं ऋच्।यजुस्।सामलक्षणम् ॥१.२३॥

कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा ।

सरितः सागरान् शैलान् समानि विषमानि च ॥१.२४॥

तपो वाचं रतिं चैव कामं च क्रोधमेव च ।

सृष्टिं ससर्ज चैवैमां स्रष्टुमिच्छन्निमाः प्रजाः ॥१.२५॥

कर्मणां च विवेकार्थं धर्माधर्मौ व्यवेचयत् ।

द्वन्द्वैरयोजयच्चैमाः सुखदुःखादिभिः प्रजाः ॥१.२६॥

अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः ।

ताभिः सार्धमिदं सर्वं सम्भवत्यनुपूर्वशः ॥१.२७॥

यं तु कर्मणि यस्मिन् स न्ययुङ्क्त प्रथमं प्रभुः ।

स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः ॥१.२८॥

हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते ।

यद्यस्य सोऽदधात्सर्गे तत्तस्य स्वयमाविशत् ॥१.२९॥

यथर्तुलिङ्गान्यर्तवः स्वयमेवर्तुपर्यये ।

स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः ॥१.३०॥

लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः ।

ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥१.३१॥

द्विधा कृत्वाऽत्मनो देहमर्धेन पुरुषोऽभवत् ।

अर्धेन नारी तस्यां स विराजमसृजत्प्रभु ॥१.३२॥

तपस्तप्त्वाऽसृजद्यं तु स स्वयं पुरुषो विराट् ।

तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः ॥१.३३॥

अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम् ।

पतीन् प्रजानामसृजं महर्षीनादितो दश ॥१.३४॥

मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।

प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ॥१.३५॥

एते मनूंस्तु सप्तान् यानसृजन् भूरितेजसः ।

देवान् देवनिकायांश्च महर्षींश्चामितोजसः ॥१.३६॥

यक्षरक्षः पिशाचांश्च गन्धर्वाप्सरसोऽसुरान् ।

नागान् सर्पान् सुपर्णांश्च पितॄणांश्च पृथग्गणान् ॥१.३७॥

विद्युतोऽशनिमेघांश्च रोहितैन्द्रधनूंषि च ।

उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च ॥१.३८॥

किन्नरान् वानरान् मत्स्यान् विविधांश्च विहङ्गमान् ।

पशून् मृगान् मनुष्यांश्च व्यालांश्चोभयतोदतः ॥१.३९॥

कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम् ।

सर्वं च दंशमशकं स्थावरं च पृथग्विधम् ॥१.४०॥

एवमेतैरिदं सर्वं मन्नियोगान् महात्मभिः ।

यथाकर्म तपोयोगात्सृष्टं स्थावरजङ्गमम् ॥१.४१॥

येषां तु यादृशं कर्म भूतानामिह कीर्तितम् ।

तत्तथा वोऽभिधास्यामि क्रमयोगं च जन्मनि ॥१.४२॥

पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः ।

रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः ॥१.४३॥

अण्डजाः पक्षिणः सर्पा नक्रा मत्स्याश्च कच्छपाः ।

यानि चैवं।प्रकाराणि स्थलजान्यौदकानि च ॥१.४४॥

स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् ।

ऊष्मणश्चोपजायन्ते यच्चान्यत्किं चिदीदृशम् ॥१.४५॥

उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः ।

ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः ॥१.४६॥

अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः ।

पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः ॥१.४७॥

गुच्छगुल्मं तु विविधं तथैव तृणजातयः ।

बीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च ॥१.४८॥

तमसा बहुरूपेण वेष्टिताः कर्महेतुना ।

अन्तस्संज्ञा भवन्त्येते सुखदुःखसमन्विताः ॥१.४९॥

एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः ।

घोरेऽस्मिन् भूतसंसारे नित्यं सततयायिनि ॥१.५०॥

एवं सर्वं स सृष्ट्वैदं मां चाचिन्त्यपराक्रमः ।

आत्मन्यन्तर्दधे भूयः कालं कालेन पीडयन् ॥१.५१॥

यदा स देवो जागर्ति तदेवं चेष्टते जगत् ।

यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ॥१.५२॥

तस्मिन् स्वपिति तु स्वस्थे कर्मात्मानः शरीरिणः ।

स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति ॥१.५३॥

युगपत्तु प्रलीयन्ते यदा तस्मिन् महात्मनि ।

तदाऽयं सर्वभूतात्मा सुखं स्वपिति निर्वृतः ॥१.५४॥

तमोऽयं तु समाश्रित्य चिरं तिष्ठति सैन्द्रियः ।

न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः ॥१.५५॥

यदाऽणुमात्रिको भूत्वा बीजं स्थाणु चरिष्णु च ।

समाविशति संसृष्टस्तदा मूर्तिं विमुञ्चति ॥१.५६॥

एवं स जाग्रत्स्वप्नाभ्यामिदं सर्वं चराचरम् ।

सञ्जीवयति चाजस्रं प्रमापयति चाव्ययः ॥१.५७॥

इदं शास्त्रं तु कृत्वाऽसौ मामेव स्वयमादितः ।

विधिवद्ग्राहयामास मरीच्यादींस्त्वहं मुनीन् ॥१.५८॥

एतद्वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेषतः ।

एतधि मत्तोऽधिजगे सर्वमेषोऽखिलं मुनिः ॥१.५९॥

ततस्तथा स तेनोक्तो महर्षिमनुना भृगुः ।

तानब्रवीदृषीन् सर्वान् प्रीतात्मा श्रूयतामिति ॥१.६०॥

स्वायम्भुवस्यास्य मनोः षड्वंश्या मनवोऽपरे ।

सृष्टवन्तः प्रजाः स्वाः स्वा महात्मानो महौजसः ॥१.६१॥

स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा ।

चाक्षुषश्च महातेजा विवस्वत्सुत एव च ॥१.६२॥

स्वायम्भुवाद्याः सप्तैते मनवो भूरितेजसः ।

स्वे स्वेऽन्तरे सर्वमिदमुत्पाद्यापुश्चराचरम् ॥१.६३॥

निमेषा दश चाष्टौ च काष्ठा त्रिंशत्तु ताः कला ।

त्रिंशत्कला मुहूर्तः स्यादहोरात्रं तु तावतः ॥१.६४॥

अहोरात्रे विभजते सूर्यो मानुषदैविके ।

रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ॥१.६५॥

पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः ।

कर्मचेष्टास्वहः कृष्णः शुक्लः स्वप्नाय शर्वरी ॥१.६६॥

दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः ।

अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ॥१.६७॥

ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं समासतः ।

एकैकशो युगानां तु क्रमशस्तन्निबोधत ॥१.६८॥

चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् ।

तस्य तावत्शती संध्या संध्यांशश्च तथाविधः ॥१.६९॥

इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु ।

एकापायेन वर्तन्ते सहस्राणि शतानि च ॥१.७०॥

यदेतत्परिसङ्ख्यातमादावेव चतुर्युगम् ।

एतद्द्वादशसाहस्रं देवानां युगमुच्यते ॥१.७१॥

दैविकानां युगानां तु सहस्रं परिसङ्ख्यया ।

ब्राह्ममेकमहर्ज्ञेयं तावतीं रात्रिमेव च ॥१.७२॥

तद्वै युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः ।

रात्रिं च तावतीमेव तेऽहोरात्रविदो जनाः ॥१.७३॥

तस्य सोऽहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यते ।

प्रतिबुद्धश्च सृजति मनः सदसदात्मकम् ॥१.७४॥

मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया ।

आकाशं जायते तस्मात्तस्य शब्दं गुणं विदुः ॥१.७५॥

आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः ।

बलवाञ्जायते वायुः स वै स्पर्शगुणो मतः ॥१.७६॥

वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् ।

ज्योतिरुत्पद्यते भास्वत्तद्रूपगुणमुच्यते ॥१.७७॥

ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः ।

अद्भ्यो गन्धगुणा भूमिरित्येषा सृष्टिरादितः ॥१.७८॥

यद्प्राग्द्वादशसाहस्रमुदितं दैविकं युगम् ।

तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते ॥१.७९॥

मन्वन्तराण्यसङ्ख्यानि सर्गः संहार एव च ।

क्रीडन्निवैतत्कुरुते परमेष्ठी पुनः पुनः ॥१.८०॥

चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे ।

नाधर्मेणागमः कश्चिन् मनुष्यान् प्रति वर्तते ॥१.८१॥

इतरेष्वागमाद्धर्मः पादशस्त्ववरोपितः ।

चौरिकानृतमायाभिर्धर्मश्चापैति पादशः ॥१.८२॥

अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः ।

कृते त्रेतादिषु ह्येषामायुर्ह्रसति पादशः ॥१.८३॥

वेदोक्तमायुर्मर्त्यानामाशिषश्चैव कर्मणाम् ।

फलन्त्यनुयुगं लोके प्रभावश्च शरीरिणाम् ॥१.८४॥

अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे ।

अन्ये कलियुगे नॄणां युगह्रासानुरूपतः ॥१.८५॥

तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते ।

द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे ॥१.८६॥

सर्वस्यास्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः ।

मुखबाहूरुपज्जानां पृथक्कर्माण्यकल्पयत् ॥१.८७॥

अध्यापनमध्ययनं यजनं याजनं तथा ।

दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ॥१.८८॥

प्रजानां रक्षणं दानमिज्याऽध्ययनमेव च ।

विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः ॥१.८९॥

पशूनां रक्षणं दानमिज्याऽध्ययनमेव च ।

वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च ॥१.९०॥

एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् ।

एतेषामेव वर्णानां शुश्रूषामनसूयया ॥१.९१॥

ऊर्ध्वं नाभेर्मेध्यतरः पुरुषः परिकीर्तितः ।

तस्मान् मेध्यतमं त्वस्य मुखमुक्तं स्वयम्भुवा ॥१.९२॥

उत्तमाङ्गोद्भवाज्ज्यैष्ठ्याद्ब्रह्मणश्चैव धारणात् ।

सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥१.९३॥

तं हि स्वयम्भूः स्वादास्यात्तपस्तप्त्वाऽदितोऽसृजत् ।

हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये ॥१.९४॥

यस्यास्येन सदाऽश्नन्ति हव्यानि त्रिदिवौकसः ।

कव्यानि चैव पितरः किं भूतमधिकं ततः ॥१.९५॥

भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः ।

बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥१.९६॥

ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ।

कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः ॥१.९७॥

उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती ।

स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥१.९८॥

ब्राह्मणो जायमानो हि पृथिव्यामधिजायते ।

ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥१.९९॥

सर्वं स्वं ब्राह्मणस्येदं यत्किं चित्जगतीगतम् ।

श्रैष्ठ्येनाभिजनेनेदं सर्वं वै ब्राह्मणोऽर्हति ॥१.१००॥

स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च ।

आनृशंस्याद्ब्राह्मणस्य भुञ्जते हीतरे जनाः ॥१.१०१॥

तस्य कर्मविवेकार्थं शेषाणामनुपूर्वशः ।

स्वायम्भुवो मनुर्धीमानिदं शास्त्रमकल्पयत् ॥१.१०२॥

विदुषा ब्राह्मणेनैदमध्येतव्यं प्रयत्नतः ।

शिश्येभ्यश्च प्रवक्तव्यं सम्यग़् नान्येन केन चित् ॥१.१०३॥

इदं शास्त्रमधीयानो ब्राह्मणः शंसितव्रतः ।

मनोवाक्देहजैर्नित्यं कर्मदोषैर्न लिप्यते ॥१.१०४॥

पुनाति पङ्क्तिवंश्यांश्च सप्त सप्त परावरान् ।

पृथिवीमपि चैवेमां कृत्स्नामेकोऽपि सोऽर्हति ॥१.१०५॥

इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्धनम् ।

इदं यशस्यमायुष्यं  इदं निःश्रेयसं परम् ॥१.१०६॥

अस्मिन् धर्मेऽखिलेनोक्तौ गुणदोषौ च कर्मणाम् ।

चतुर्णामपि वर्णानामाचारश्चैव शाश्वतः ॥१.१०७॥

आचारः परमो धर्मः श्रुत्योक्तः स्मार्त एव च ।

तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः ॥१.१०८॥

आचाराद्विच्युतो विप्रो न वेदफलमश्नुते ।

आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत् ॥१.१०९॥

एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् ।

सर्वस्य तपसो मूलमाचारं जगृहुः परम् ॥१.११०॥

जगतश्च समुत्पत्तिं संस्कारविधिमेव च 

व्रतचर्यौपचारं च स्नानस्य च परं विधिम् ॥१.१११॥

दाराधिगमनं चैव विवाहानां च लक्षणम् ।

महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम् ॥१.११२॥

वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च ।

भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिमेव च ॥१.११३॥

स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासमेव च ।

राज्ञश्च धर्ममखिलं कार्याणां च विनिर्णयम् ॥१.११४॥

साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोरपि ।

विभागधर्मं द्यूतं च कण्टकानां च शोधनम् ॥१.११५॥

वैश्यशूद्रोपचारं च सङ्कीर्णानां च सम्भवम् ।

आपद्धर्मं च वर्णानां प्रायश्चित्तविधिं तथा ॥१.११६॥

संसारगमनं चैव त्रिविधं कर्मसम्भवम् ।

निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् ॥१.११७॥

देशधर्मान्जातिधर्मान् कुलधर्मांश्च शाश्वतान् ।

पाषण्डगणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान् मनुः ॥१.११८॥

यथैदमुक्तवांशास्त्रं पुरा पृष्टो मनुर्मया ।

तथैदं यूयमप्यद्य मत्सकाशान्निबोधत ॥१.११९॥

।। इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां प्रथमोऽध्यायः ।।


अथ द्वितीयोऽध्यायः

विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः ।

हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ॥ २.१॥

कामात्मता न प्रशस्ता न चैवैहास्त्यकामता ।

काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः ॥ २.२॥

सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः ।

व्रतानि यमधर्माश्च सर्वे सङ्कल्पजाः स्मृताः ॥ २.३॥

अकामस्य क्रिया का चिद्दृश्यते नैह कर्हि चित् ।

यद्यधि कुरुते किं चित्तत्तत्कामस्य चेष्टितम् ॥ २.४॥

तेषु सम्यग्वर्तमानो गच्छत्यमरलोकताम् ।

यथा सङ्कल्पितांश्चैह सर्वान् कामान् समश्नुते ॥ २.५॥

वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।

आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ २.६॥

यः कश्चित्कस्य चिद्धर्मो मनुना परिकीर्तितः ।

स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥ २.७॥

सर्वं तु समवेक्ष्यैदं निखिलं ज्ञानचक्षुषा ।

श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै ॥ २.८॥

श्रुतिस्मृत्योदितं धर्ममनुतिष्ठन् हि मानवः ।

इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥ २.९॥

श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ।

ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ ॥ २.१०॥

योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद्द्विजः ।

स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः ॥ २.११॥

वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।

एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ २.१२॥

अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते ।

धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥ २.१३॥

श्रुतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ ।

उभावपि हि तौ धर्मौ सम्यगुक्तौ मनीषिभिः ॥ २.१४॥

उदितेऽनुदिते चैव समयाध्युषिते तथा ।

सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः ॥ २.१५॥

निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः ।

तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्य चित् ॥ २.१६॥

सरस्वतीदृशद्वत्योर्देवनद्योर्यदन्तरम् ।

तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥ २.१७॥

तस्मिन् देशे य आचारः पारम्पर्यक्रमागतः ।

वर्णानां सान्तरालानां स सदाचार उच्यते ॥ २.१८॥

कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः ।

एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरः ॥ २.१९॥

एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।

स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ २.२०॥

हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि ।

प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः ॥ २.२१॥

आ समुद्रात्तु वै पूर्वादा समुद्राच्च पश्चिमात् ।

तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः ॥ २.२२॥

कृष्णसारस्तु चरति मृगो यत्र स्वभावतः ।

स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्त्वतः परः ॥ २.२३॥

एतान्द्विजातयो देशान् संश्रयेरन् प्रयत्नतः ।

शूद्रस्तु यस्मिन् कस्मिन् वा निवसेद्वृत्तिकर्शितः ॥ २.२४॥

एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता ।

सम्भवश्चास्य सर्वस्य वर्णधर्मान्निबोधत ॥ २.२५॥

वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् ।

कार्यः शरीरसंस्कारः पावनः प्रेत्य चैह च ॥ २.२६॥

गार्भैर्होमैर्जातकर्मचौडमौञ्जीनिबन्धनैः ।

बैजिकं गार्भिकं चैनं द्विजानामपमृज्यते ॥ २.२७॥

स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः ।

महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥ २.२८॥

प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते ।

मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥ २.२९॥

नामधेयं दशम्यां तु द्वादश्यां वाऽस्य कारयेत् ।

पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥ २.३०॥

मङ्गल्यं ब्राह्मणस्य स्यात्क्षत्रियस्य बलान्वितम् ।

वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥ २.३१॥

शर्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् ।

वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् ॥ २.३२॥

स्त्रीणां सुखौद्यमक्रूरं विस्पष्टार्थं मनोहरम् ।

मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् ॥ २.३३॥

चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् ।

षष्ठेऽन्नप्राशनं मासि यद्वैष्टं मङ्गलं कुले ॥ २.३४॥

चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः ।

प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥  २.३५॥

गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्यौपनायनम् ।

गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः ॥ २.३६॥

ब्रह्मवर्चसकामस्य कार्यो विप्रस्य पञ्चमे ।

राज्ञो बलार्थिनः षष्ठे वैश्यस्यैहार्थिनोऽष्टमे ॥ २.३७॥

आ षोदशाद्ब्राह्मणस्य सावित्री नातिवर्तते ।

आ द्वाविंशात्क्षत्रबन्धोरा चतुर्विंशतेर्विशः ॥ २.३८॥

अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः ।

सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः ॥ २.३९॥

नैतैरपूतैर्विधिवदापद्यपि हि कर्हि चित् ।

ब्राह्मान् यौनांश्च सम्बन्धान्नाचरेद्ब्राह्मणः सह ॥ २.४०॥

कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः ।

वसीरन्नानुपूर्व्येण शाणक्षौमाविकानि च ॥ २.४१॥

मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला ।

क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥ २.४२॥

मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः ।

त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥ २.४३॥

कार्पासमुपवीतं स्याद्विप्रस्यौर्ध्ववृतं त्रिवृत् ।

शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥ २.४४॥

ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ ।

पैलवौदुम्बरौ वैश्यो दण्डानर्हन्ति धर्मतः ॥ २.४५॥

केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः ।

ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः ॥ २.४६॥

ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः ।

अनुद्वेगकरा नॄणां सत्वचोऽनग्निदूषिताः ॥ २.४७॥

प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम् ।

प्रदक्षिणं परीत्याग्निं चरेद्भैक्षं यथाविधि ॥ २.४८॥

भवत्पूर्वं चरेद्भैक्षमुपनीतो द्विजोत्तमः ।

भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥ २.४९॥

मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ।

भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥ २.५०॥

समाहृत्य तु तद्भैक्षं यावदन्नममायया । यावदर्थं

निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः ॥ २.५१॥

आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।

श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः ॥ २.५२॥

उपस्पृश्य द्विजो नित्यमन्नमद्यात्समाहितः ।

भुक्त्वा चौपस्पृशेत्सम्यगद्भिः खानि च संस्पृशेत् ॥ २.५३॥

पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन् ।

दृष्ट्वा हृष्येत्प्रसीदेच्च प्रतिनन्देच्च सर्वशः ॥ २.५४॥

पूजितं ह्यशनं नित्यं बलमूर्जं च यच्छति ।

अपूजितं तु तद्भुक्तमुभयं नाशयेदिदम् ॥ २.५५॥

नौच्छिष्टं कस्य चिद्दद्यान्नाद्यादेतत्तथाऽन्तरा ।

न चैवात्यशनं कुर्यान्न चौच्छिष्टः क्व चिद्व्रजेत् ॥ २.५६॥

अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।

अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ॥ २.५७॥

ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् ।

कायत्रैदशिकाभ्यां वा न पित्र्येण कदा चन ॥ २.५८॥

अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते ।

कायमङ्गुलिमूलेऽग्रे देवं पित्र्यं तयोरधः ॥ २.५९॥

त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम् ।

खानि चैव स्पृशेदद्भिरात्मानं शिर एव च ॥ २.६०॥

अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्मवित् ।

शौचेप्सुः सर्वदाऽचामेदेकान्ते प्रागुदङ्मुखः ॥ २.६१॥

हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः ।

वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः ॥ २.६२॥

उद्धृते दक्षिणे पाणावुपवीत्यौच्यते द्विजः ।

सव्ये प्राचीनावीती निवीती कण्ठसज्जने ॥ २.६३॥

मेखलामजिनं दण्डमुपवीतं कमण्डलुम् ।

अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥ २.६४॥

केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते ।

राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्वयधिके मतः ॥ २.६५॥

अमन्त्रिका तु कार्यैयं स्त्रीणामावृदशेषतः ।

संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥ २.६६॥

वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः ।

पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया ॥ २.६७॥

एष प्रोक्तो द्विजातीनामौपनायनिको विधिः ।

उत्पत्तिव्यञ्जकः पुण्यः कर्मयोगं निबोधत ॥ २.६८॥

उपनीयं गुरुः शिष्यं शिक्षयेत्शौचमादितः ।

आचारमग्निकार्यं च संध्यौपासनमेव च ॥ २.६९॥

अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रमुदङ्मुखः ।

ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितैन्द्रियः ॥ २.७०॥

ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा ।

संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः ॥ २.७१॥

व्यत्यस्तपाणिना कार्यमुपसङ्ग्रहणं गुरोः ।

सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः ॥ २.७२॥

अध्येष्यमाणं तु गुरुर्नित्यकालमतन्द्रितः ।

अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चारमेत् ॥ २.७३॥

ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा ।

स्रवत्यनोङ्कृतं पूर्वं परस्ताच्च विशीर्यति ॥ २.७४॥

प्राक्कूलान् पर्युपासीनः पवित्रैश्चैव पावितः ।

प्राणायामैस्त्रिभिः पूतस्तत ओं।कारमर्हति ॥ २.७५॥

अकारं चाप्युकारं च मकारं च प्रजापतिः ।

वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च ॥ २.७६॥

त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् ।

तदित्यर्चोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥ २.७७॥

एतदक्षरमेतां च जपन् व्याहृतिपूर्विकाम् ।

संध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते ॥ २.७८॥

सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिकं द्विजः ।

महतोऽप्येनसो मासात्त्वचैवाहिर्विमुच्यते ॥ २.७९॥

एतयाऋचा विसंयुक्तः काले च क्रियया स्वया ।

ब्रह्मक्षत्रियविद्योनिर्गर्हणां याति साधुषु ॥ २.८०॥

ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः ।

त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥ २.८१॥

योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः ।

स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् ॥ २.८२॥

एकाक्षरं परं ब्रह्म प्राणायामः परं तपः ।

सावित्र्यास्तु परं नास्ति मौनात्सत्यं विशिष्यते ॥ २.८३॥

क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः ।

अक्षरं दुष्करं ज्ञेयं ब्रह्म चैव प्रजापतिः ॥ २.८४॥

विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः ।

उपांशुः स्यात्शतगुणः साहस्रो मानसः स्मृतः ॥ २.८५॥

ये पाकयज्ञाः चत्वारो विधियज्ञसमन्विताः ।

सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥ २.८६॥

जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः ।

कुर्यादन्यन्न वा कुर्यान् मैत्रो ब्राह्मण उच्यते ॥ २.८७॥

इन्द्रियाणां विचरतां विषयेष्वपहारिषु ।

संयमे यत्नमातिष्ठेद्विद्वान् यन्तैव वाजिनाम् ॥ २.८८॥

एकादशेन्द्रियाण्याहुर्यानि पूर्वे मनीषिणः ।

तानि सम्यक्प्रवक्ष्यामि यथावदनुपूर्वशः ॥ २.८९॥

श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ।

पायूपस्थं हस्तपादं वाक्चैव दशमी स्मृता ॥ २.९०॥

बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्वशः ।

कर्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते ॥ २.९१॥

एकादशं मनो ज्ञेयं स्वगुणेनौभयात्मकम् ।

यस्मिन् जिते जितावेतौ भवतः पञ्चकौ गणौ ॥ २.९२॥

इन्द्रियाणां प्रसङ्गेन दोषं ऋच्छत्यसंशयम् ।

संनियम्य तु तान्येव ततः सिद्धिं निगच्छति ॥ २.९३॥

न जातु कामः कामानामुपभोगेन शाम्यति ।

हविषा कृष्णवर्त्मैव भूय एवाभिवर्धते ॥ २.९४॥

यश्चैतान् प्राप्नुयात्सर्वान् यश्चैतान् केवलांस्त्यजेत् ।

प्रापणात्सर्वकामानां परित्यागो विशिष्यते ॥ २.९५॥

न तथैतानि शक्यन्ते संनियन्तुमसेवया ॥

विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः ॥ २.९६॥

वेदास्त्यागश्च यज्ञाश्च नियमाश्च तपांसि च ।

न विप्रदुष्टभावस्य सिद्धिं गच्छति कर्हिचित् ॥ २.९७॥

श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः ।

न हृष्यति ग्लायति वा स विज्ञेयो जितैन्द्रियः ॥ २.९८॥

इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम् ।

तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ॥ २.९९॥

वशे कृत्वेन्द्रियग्रामं संयम्य च मनस्तथा ।

सर्वान् संसाधयेदर्थानक्षिण्वन् योगतस्तनुम् ॥ २.१००॥

पूर्वां संध्यां जपंस्तिष्ठेत्सावित्रीमाऽर्कदर्शनात् ।

पश्चिमां तु समासीनः सम्यगृक्षविभावनात् ॥ २.१०१॥

पूर्वां संध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति ।

पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् ॥ २.१०२॥

न तिष्ठति तु यः पूर्वां नौपास्ते यश्च पश्चिमाम् ।

स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मणः ॥ २.१०३॥

अपां समीपे नियतो नैत्यकं विधिमास्थितः ।

सावित्रीमप्यधीयीत गत्वाऽरण्यं समाहितः ॥ २.१०४॥

वेदौपकरणे चैव स्वाध्याये चैव नैत्यके ।

नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि ॥ २.१०५॥

नैत्यके नास्त्यनध्यायो ब्रह्मसत्रं हि तत्स्मृतम् ॥

ब्रह्माहुतिहुतं पुण्यमनध्यायवषट्कृतम् ॥ २.१०६॥

यः स्वाध्यायमधीतेऽब्दं विधिना नियतः शुचिः ।

तस्य नित्यं क्षरत्येष पयो दधि घृतं मधु ॥ २.१०७॥

अग्नीन्धनं भैक्षचर्यामधःशय्यां गुरोर्हितम् ।

आ समावर्तनात्कुर्यात्कृतोपनयनो द्विजः ॥ २.१०८॥

आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः ।

आप्तः शक्तोऽर्थदः साधुः स्वोऽध्याप्या दश धर्मतः ॥ २.१०९॥

नापृष्टः कस्य चिद्ब्रूयान्न चान्यायेन पृच्छतः ।

जानन्नपि हि मेधावी जडवल्लोक आचरेत् ॥ २.११०॥

अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति ।

तयोरन्यतरः प्रैति विद्वेषं वाऽधिगच्छति ॥ २.१११॥

धर्मार्थौ यत्र न स्यातां शुश्रूषा वाऽपि तद्विधा ।

तत्र विद्या न वप्तव्या शुभं बीजमिवौषरे ॥ २.११२॥

विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना ।

आपद्यपि हि घोरायां न त्वेनामिरिणे वपेत् ॥ २.११३॥

विद्या ब्राह्मणमेत्याह शेवधिस्तेऽस्मि रक्ष माम् ।

असूयकाय मां मादास्तथा स्यां वीर्यवत्तमा ॥ २.११४॥

यमेव तु शुचिं विद्यान्नियतब्रह्मचारिणम् ।

तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने ॥ २.११५॥

ब्रह्म यस्त्वननुज्ञातमधीयानादवाप्नुयात् ।

स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते ॥ २.११६॥

लौकिकं वैदिकं वाऽपि तथाऽध्यात्मिकमेव वा ।

आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥ २.११७॥

सावित्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः ।

नायन्त्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी ॥ २.११८॥

शय्याऽऽसनेऽध्याचरिते श्रेयसा न समाविशेत् ।

शय्याऽऽसनस्थश्चैवेनं प्रत्युत्थायाभिवादयेत् ॥ २.११९॥

ऊर्ध्वं प्राणा ह्युत्क्रमन्ति यूनः स्थविर आयति ।

प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥ २.१२०॥

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।

चत्वारि तस्य वर्धन्ते  आयुर्धर्मो यशो बलम् ॥ २.१२१॥

अभिवादात्परं विप्रो ज्यायांसमभिवादयन् ।

असौ नामाहमस्मीति स्वं नाम परिकीर्तयेत् ॥ २.१२२॥

नामधेयस्य ये के चिदभिवादं न जानते ।

तान् प्राज्ञोऽहमिति ब्रूयात्स्त्रियः सर्वास्तथैव च ॥ २.१२३॥

भोःशब्दं कीर्तयेदन्ते स्वस्य नाम्नोऽभिवादने ।

नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः ॥ २.१२४॥

आयुष्मान् भव सौम्यैति वाच्यो विप्रोऽभिवादने ।

अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ २.१२५॥

यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् ।

नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥ २.१२६॥

ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् ।

वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥ २.१२७॥

अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ।

भोभवत्पूर्वकं त्वेनमभिभाषेत धर्मवित् ॥ २.१२८॥

परपत्नी तु या स्त्री स्यादसम्बन्धा च योनितः ।

तां ब्रूयाद्भवतीत्येवं सुभगे भगिनीति च ॥ २.१२९॥

मातुलांश्च पितृव्यांश्च श्वशुरान् ऋत्विजो गुरून् ।

असावहमिति ब्रूयात्प्रत्युत्थाय यवीयसः ॥ २.१३०॥

मातृश्वसा मातुलानी श्वश्रूरथ पितृश्वसा ।

सम्पूज्या गुरुपत्नीवत्समास्ता गुरुभार्यया ॥ २.१३१॥

भ्रातुर्भार्यौपसङ्ग्राह्या सवर्णाऽहन्यहन्यपि ।

विप्रोष्य तूपसङ्ग्राह्या ज्ञातिसम्बन्धियोषितः ॥ २.१३२॥

पितुर्भगिन्यां मातुश्च ज्यायस्यां च स्वसर्यपि ।

मातृवद्वृत्तिमातिष्ठेन् माता ताभ्यो गरीयसी ॥ २.१३३॥

दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् ।

त्र्यब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु ॥ २.१३४॥

ब्राह्मणं दशवर्षं तु शतवर्षं तु भूमिपम् ।

पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता ॥ २.१३५॥

वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।

एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ २.१३६॥

पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च ।

यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः ॥ २.१३७॥

चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः ।

स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च ॥ २.१३८॥

तेषां तु समवेतानां मान्यौ स्नातकपार्थिवौ ।

राजस्नातकयोश्चैव स्नातको नृपमानभाक् ॥ २.१३९॥

उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः ।

सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ॥ २.१४०॥

एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः ।

योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥ २.१४१॥

निषेकादीनि कर्माणि यः करोति यथाविधि ।

सम्भावयति चान्नेन स विप्रो गुरुरुच्यते ॥ २.१४२॥

अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान् मखान् ।

यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते ॥ २.१४३॥

य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ ।

स माता स पिता ज्ञेयस्तं न द्रुह्येत्कदा चन ॥ २.१४४॥

उपाध्यायान् दशाचार्य आचार्याणां शतं पिता ।

सहस्रं तु पितॄन् माता गौरवेणातिरिच्यते ॥ २.१४५॥

उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता ।

ब्रह्मजन्म हि विप्रस्य प्रेत्य चैह च शाश्वतम् ॥ २.१४६॥

कामान् माता पिता चैनं यदुत्पादयतो मिथः ।

सम्भूतिं तस्य तां विद्याद्यद्योनावभिजायते ॥ २.१४७॥

आचार्यस्त्वस्य यां जातिं विधिवद्वेदपारगः ।

उत्पादयति सावित्र्या सा सत्या साऽजराऽमरा ॥ २.१४८॥

अल्पं वा बहु वा यस्य श्रुतस्यौपकरोति यः ।

तमपीह गुरुं विद्यात्श्रुतौपक्रियया तया ॥ २.१४९॥

ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता ।

बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ॥ २.१५०॥

अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः ।

पुत्रका इति हौवाच ज्ञानेन परिगृह्य तान् ॥ २.१५१॥

ते तमर्थमपृच्छन्त देवानागतमन्यवः ।

देवाश्चैतान् समेत्यौचुर्न्याय्यं वः शिशुरुक्तवान् ॥ २.१५२॥

अज्ञो भवति वै बालः पिता भवति मन्त्रदः ।

अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ॥ २.१५३॥

न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः ।

ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ २.१५४॥

विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः ।

वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः ॥ २.१५५॥

न तेन वृद्धो भवति येनास्य पलितं शिरः ।

यो वै युवाऽप्यधीयानस्तं देवाः स्थविरं विदुः ॥ २.१५६॥

यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।

यश्च विप्रोऽनधीयानस्त्रयस्ते नाम बिभ्रति ॥ २.१५७॥

यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला ।

यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः ॥ २.१५८॥

अहिंसयैव भूतानां कार्यं श्रेयोऽनुशासनम् ।

वाक्चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता ॥ २.१५९॥

यस्य वाङ्मनसी शुद्धे सम्यग्गुप्ते च सर्वदा ।

स वै सर्वमवाप्नोति वेदान्तोपगतं फलम् ॥ २.१६०॥

नारुंतुदः स्यादार्तोऽपि न परद्रोहकर्मधीः ।

ययाऽस्योद्विजते वाचा नालोक्यां तामुदीरयेत् ॥ २.१६१॥

सम्मानाद्ब्राह्मणो नित्यमुद्विजेत विषादिव ।

अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ॥ २.१६२॥

सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते ॥

सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति ॥ २.१६३॥

अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः ।

गुरौ वसन् सञ्चिनुयाद्ब्रह्माधिगमिकं तपः ॥ २.१६४॥

तपोविशेषैर्विविधैर्व्रतैश्च विधिचोदितैः ।

वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥ २.१६५॥

वेदमेव सदाऽभ्यस्येत्तपस्तप्यन् द्विजोत्तमः ।

वेदाभ्यासो हि विप्रस्य तपः परमिहौच्यते ॥ २.१६६॥

आ हैव स नखाग्रेभ्यः परमं तप्यते तपः ।

यः स्रग्व्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम् ॥ २.१६७॥

योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् ।

स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ २.१६८॥

मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने ।

तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् ॥ २.१६९॥

तत्र यद्ब्रह्मजन्मास्य मौञ्जीबन्धनचिह्नितम् ।

तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ २.१७०॥

वेदप्रदानादाचार्यं पितरं परिचक्षते ।

न ह्यस्मिन् युज्यते कर्म किञ्चिदा मौञ्जिबन्धनात् ॥ २.१७१॥

नाभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते ।

शूद्रेण हि समस्तावद्यावद्वेदे न जायते ॥ २.१७२॥

कृतौपनयनस्यास्य व्रतादेशनमिष्यते ।

ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम् ॥ २.१७३॥

यद्यस्य विहितं चर्म यत्सूत्रं या च मेखला ।

यो दण्डो यत्च वसनं तत्तदस्य व्रतेष्वपि ॥ २.१७४॥

सेवेतैमांस्तु नियमान् ब्रह्मचारी गुरौ वसन् ।

सन्नियम्यैन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः ॥ २.१७५॥

नित्यं स्नात्वा शुचिः कुर्याद्देवर्षिपितृतर्पणम् ।

देवताभ्यर्चनं चैव समिदाधानमेव च ॥ २.१७६॥

वर्जयेन् मधु मांसं च गन्धं माल्यं रसान् स्त्रियः ।

शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम् ॥ २.१७७॥

अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्रधारणम् ।

कामं क्रोधं च लोभं च नर्तनं गीतवादनम् ॥ २.१७८॥

द्यूतं च जनवादं च परिवादं तथाऽनृतम् ।

स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च ॥ २.१७९॥

एकः शयीत सर्वत्र न रेतः स्कन्दयेत्क्व चित् ।

कामाधि स्कन्दयन् रेतो हिनस्ति व्रतमात्मनः ॥ २.१८०॥

स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः ।

स्नात्वाऽर्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ॥ २.१८१॥

उदकुम्भं सुमनसो गोशकृत्मृत्तिकाकुशान् ।

आहरेद्यावदर्थानि भैक्षं चाहरहश्चरेत् ॥ २.१८२॥

वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु ।

ब्रह्मचार्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ॥ २.१८३॥

गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ।

अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ॥ २.१८४॥

सर्वं वापि चरेद्ग्रामं पूर्वौक्तानामसम्भवे ।

नियम्य प्रयतो वाचमभिशस्तांस्तु वर्जयेत् ॥ २.१८५॥

दूरादाहृत्य समिधः सन्निदध्याद्विहायसि ।

सायं।प्रातश्च जुहुयात्ताभिरग्निमतन्द्रितः ॥ २.१८६॥

अकृत्वा भैक्षचरणमसमिध्य च पावकम् ।

अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ॥ २.१८७॥

भैक्षेण वर्तयेन्नित्यं नैकान्नादी भवेद्व्रती ।

भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता ॥ २.१८८॥

व्रतवद्देवदैवत्ये पित्र्ये कर्मण्यथर्षिवत् ।

काममभ्यर्थितोऽश्नीयाद्व्रतमस्य न लुप्यते ॥ २.१८९॥

ब्राह्मणस्यैव कर्मैतदुपदिष्टं मनीषिभिः ।

राजन्यवैश्ययोस्त्वेवं नैतत्कर्म विधीयते ॥ २.१९०॥

चोदितो गुरुणा नित्यमप्रचोदित एव वा ।

कुर्यादध्ययने यत्नमाचार्यस्य हितेषु च ॥ २.१९१॥

शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च ।

नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम् ॥ २.१९२॥

नित्यमुद्धृतपाणिः स्यात्साध्वाचारः सुसंवृतः ।

आस्यतामिति चौक्तः सन्नासीताभिमुखं गुरोः ॥ २.१९३॥

हीनान्नवस्त्रवेषः स्यात्सर्वदा गुरुसन्निधौ ।

उत्तिष्ठेत्प्रथमं चास्य चरमं चैव संविशेत् ॥ २.१९४॥

प्रतिश्रावणसम्भाषे शयानो न समाचरेत् ।

नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः ॥ २.१९५॥

आसीनस्य स्थितः कुर्यादभिगच्छंस्तु तिष्ठतः ।

प्रत्युद्गम्य त्वाव्रजतः पश्चाद्धावंस्तु धावतः ॥ २.१९६॥

पराङ्मुखस्याभिमुखो दूरस्थस्येत्य चान्तिकम् ।

प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः ॥ २.१९७॥

नीचं शय्याऽऽसनं चास्य नित्यं स्याद्गुरुसन्निधौ ।

गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥ २.१९८॥

नौदाहरेदस्य नाम परोक्षमपि केवलम् ।

न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥ २.१९९॥

गुरोर्यत्र परिवादो निन्दा वाऽपि प्रवर्तते ।

कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ २.२००॥

परीवादात्खरो भवति श्वा वै भवति निन्दकः ।

परिभोक्ता कृमिर्भवति कीटो भवति मत्सरी ॥ २.२०१॥

दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः ।

यानासनस्थश्चैवैनमवरुह्याभिवादयेत् ॥ २.२०२॥

प्रतिवातेऽनुवाते च नासीत गुरुणा सह । प्रतिवातानुवाते

असंश्रवे चैव गुरोर्न किं चिदपि कीर्तयेत् ॥ २.२०३॥

गोऽश्वौष्ट्रयानप्रासादप्रस्तरेषु कटेषु च ।

आसीत गुरुणा सार्धं शिलाफलकनौषु च ॥ २.२०४॥

गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत् ।

न चानिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत् ॥ २.२०५॥

विद्यागुरुष्वेवमेव नित्या वृत्तिः स्वयोनिषु ।

प्रतिषेधत्सु चाधर्माधितं चोपदिशत्स्वपि ॥ २.२०६॥

श्रेयःसु गुरुवद्वृत्तिं नित्यमेव समाचरेत् ।

गुरुपुत्रेषु चार्येषु गुरोश्चैव स्वबन्धुषु ॥ २.२०७॥

बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि ।

अध्यापयन् गुरुसुतो गुरुवत्मानमर्हति ॥ २.२०८॥

उत्सादनं च गात्राणां स्नापनौच्छिष्टभोजने ।

न कुर्याद्गुरुपुत्रस्य पादयोश्चावनेजनम् ॥ २.२०९॥

गुरुवत्प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः ।

असवर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ॥ २.२१०॥

अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च ।

गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ २.२११॥

गुरुपत्नी तु युवतिर्नाभिवाद्यैह पादयोः ।

पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥ २.२१२॥

स्वभाव एष नारीणां नराणामिह दूषणम् ।

अतोऽर्थान्न प्रमाद्यन्ति प्रमदासु विपश्चितः ॥ २.२१३॥

अविद्वांसमलं लोके विद्वांसमपि वा पुनः ।

प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम् ॥ २.२१४॥

मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् ।

बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ २.२१५॥

कामं तु गुरुपत्नीनां युवतीनां युवा भुवि ।

विधिवद्वन्दनं कुर्यादसावहमिति ब्रुवन् ॥ २.२१६॥

विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् ।

गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ॥ २.२१७॥

यथा खनन् खनित्रेण नरो वार्यधिगच्छति ।

तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥ २.२१८॥

मुण्डो वा जटिलो वा स्यादथ वा स्यात्शिखाजटः ।

नैनं ग्रामेऽभिनिम्लोचेत्सूर्यो नाभ्युदियात्क्व चित् ॥ २.२१९॥

तं चेदभ्युदियात्सूर्यः शयानं कामचारतः ।

निम्लोचेद्वाऽप्यविज्ञानाज्जपन्नुपवसेद्दिनम् ॥ २.२२०॥

सूर्येण ह्यभिनिर्मुक्तः शयानोऽभ्युदितश्च यः । अभिनिम्लुक्तः

प्रायश्चित्तमकुर्वाणो युक्तः स्यान् महतेनसा ॥ २.२२१॥

आचम्य प्रयतो नित्यमुभे संध्ये समाहितः ।

शुचौ देशे जपञ्जप्यमुपासीत यथाविधि ॥ २.२२२॥

यदि स्त्री यद्यवरजः श्रेयः किं चित्समाचरेत् ।

तत्सर्वमाचरेद्युक्तो यत्र चास्य रमेन् मनः ॥ २.२२३॥

धर्मार्थावुच्यते श्रेयः कामार्थौ धर्म एव च ।

अर्थ एवैह वा श्रेयस्त्रिवर्ग इति तु स्थितिः ॥ २.२२४॥

आचार्यश्च पिता चैव माता भ्राता च पूर्वजः ।

नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ॥ २.२२५॥

आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।

माता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः ॥ २.२२६॥

यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम् ।

न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥ २.२२७॥

तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा ।

तेष्वेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते ॥ २.२२८॥

तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ।

न तैरनभ्यनुज्ञातो धर्ममन्यं समाचरेत् ॥ २.२२९॥

त एव हि त्रयो लोकास्त एव त्रय आश्रमाः ।

त एव हि त्रयो वेदास्त एवौक्तास्त्रयोऽग्नयः ॥ २.२३०॥

पिता वै गार्हपत्योऽग्निर्माताऽग्निर्दक्षिणः स्मृतः ।

गुरुराहवनीयस्तु साऽग्नित्रेता गरीयसी ॥ २.२३१॥

त्रिष्वप्रमाद्यन्नेतेषु त्रीन् लोकान् विजयेद्गृही ।

दीप्यमानः स्ववपुषा देववद्दिवि मोदते ॥ २.२३२॥

इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् ।

गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते ॥ २.२३३॥

सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ।

अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ २.२३४॥

यावत्त्रयस्ते जीवेयुस्तावत्नान्यं समाचरेत् ।

तेष्वेव नित्यं शुश्रूषां कुर्यात्प्रियहिते रतः ॥ २.२३५॥

तेषामनुपरोधेन पारत्र्यं यद्यदाचरेत् ।

तत्तन्निवेदयेत्तेभ्यो मनोवचनकर्मभिः ॥ २.२३६॥

त्रिष्वेतेष्वितिकृत्यं हि पुरुषस्य समाप्यते ।

एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते ॥ २.२३७॥

श्रद्दधानः शुभां विद्यामाददीतावरादपि ।

अन्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि ॥ २.२३८॥

विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् ।

अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम् ॥ २.२३९॥

स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम् ।

विविधानि च शिल्पानि समादेयानि सर्वतः ॥ २.२४०॥

अब्राह्मणादध्यायनमापत्काले विधीयते ।

अनुव्रज्या च शुश्रूषा यावदध्यायनं गुरोः ॥ २.२४१॥

नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत् ।

ब्राह्मणे वाऽननूचाने काङ्क्षन् गतिमनुत्तमाम् ॥ २.२४२॥

यदि त्वात्यन्तिकं वासं रोचयेत गुरोः कुले ।

युक्तः परिचरेदेनमा शरीरविमोक्षणात् ॥ २.२४३॥

आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् ।

स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥ २.२४४॥

न पूर्वं गुरवे किं चिदुपकुर्वीत धर्मवित् ।

स्नास्यंस्तु गुरुणाऽज्ञप्तः शक्त्या गुर्व्र्थमाहरेत् ॥ २.२४५॥

क्षेत्रं हिरण्यं गामश्वं छत्रौपानहमासनम् । छत्रोपानहमन्ततः

धान्यं शाकं च वासांसि गुरवे प्रीतिमावहेत् ॥ २.२४६॥

आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते ।

गुरुदारे सपिण्डे वा गुरुवद्वृत्तिमाचरेत् ॥ २.२४७॥

एतेष्वविद्यमानेषु स्थानासनविहारवान् ।

प्रयुञ्जानोऽग्निशुश्रूषां साधयेद्देहमात्मनः ॥ २.२४८॥

एवं चरति यो विप्रो ब्रह्मचर्यमविप्लुतः ।

स गच्छत्युत्तमस्थानं न चैह जायते पुनः ॥ २.२४९॥

इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां द्वितीयोऽध्यायः ।।

शुकनासोपदेश प्रश्नोत्तरी

नोटः- यह सभी प्रश्न किसी न किसी प्रतियोगी परीक्षाओं में पूछे गये हैं । प्रश्न 1 - बाणभट्टस्य गद्ये रीतिरस्ति - पञ्चाली प्रश्न 2- शुकनासोपदेश...