अथ प्रथमोऽध्यायः ।
मंगलाचरण -
प्रणम्य शिरसा देवी पितामहमहेश्वरी ।
नाट्यशास्त्रं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् ॥ १ ॥
ऋषियों का भरतमुनि से प्रश्न -
समाप्तजप्यं व्रतिनं स्वसुतैः परिवारितम् ।
अनध्याये कदाचित्तु भरतं नाट्यकोविदम् ॥ २ ॥
मुनयः पर्युपास्यैनमात्रेयप्रमुखाः पुरा ।
पप्रच्छ्रुस्ते महात्मानो नियतेन्द्रियबुद्धयः ॥ ३॥
योऽयं भगवता सम्यग्ग्रथितो वेदसम्मितः ।
नाट्यवेदं कथं ब्रह्मक्षुत्पन्नः कस्य वा कृते ॥ ४॥
कत्यङ्गः किंप्रमाणश्च प्रयोगश्चास्य कीदृशः ।
सर्वमेतद्यथातत्त्वं भगवन्वक्तुमर्हसि ॥ ५ ॥
नाट्यशास्त्र की उत्पत्ति -
तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः ।
प्रत्युवाच ततो वाक्यं नाट्यवेदकथां प्रति ॥ ६ ॥
भवद्भिः शुचिभिर्भूत्वा तथाऽवहितमानसैः ।
श्रयतां नाट्यवेदस्य सम्भवो ब्रह्मनिर्मितः ॥ ७॥
पूर्वं कृतयुगे विप्रा वृत्ते स्वायंभुवेऽन्तरे ।
त्रेतायुगेऽथ सम्प्राप्ते मनोर्वैवस्वतस्य तु ॥ ८॥
ग्राम्यधर्मप्रवृत्ते तु कामलोभवशं गते ।
ईर्ष्याक्रोधादिसं लोके सुखितदुःखिते ॥ ९ ॥
देवदानवगन्धर्वयक्षरक्षोमहोरगैः ।
जम्बुद्वीपे समाक्रान्ते लोकपालप्रतिष्ठिते ॥ १०॥
महेन्द्रप्रमुखैर्देवैरुक्तः किल पितामहः ।
कीडनीयकमिच्छामो दृष्यं श्रव्यं च यद्भवेत् ॥ ११ ॥
न वेदव्यवहारोऽयं संधाव्यः शूद्रजातिषु ।
तस्मात्सृजापरं वेदं पञ्चमं सार्ववर्णिकम् ॥ १२ ॥
एवमस्त्विति तानुक्त्वा देवराजं विसृज्य च ।
सस्मार चतुरो वेदान्योगमास्थाय तत्त्ववित् ॥ १३ ॥
(नेमे वेदा यतः श्राव्याः स्त्रीशूद्राद्यासु जातिषु ।
वेदमन्यत्ततः स्रक्ष्ये सर्वधाव्यं तु पञ्चमम् ॥ )
धर्म्यमर्थ्यं यशस्यं च सोपदेश्यं सङ्ग्रहम्
विष्यतश्च लोकस्य सर्वकर्मानुदर्शकम् १४ ॥
सर्वशात्रार्थसम्पन्नं सर्वशिल्पप्रवर्तकम् ।
नाट्याख्यं पञ्चमं वेदं सेतिहासं करोम्यहम् ॥ १५ ॥
एवं सङ्कल्प्य भगवान् सर्ववेदाननुस्मरन् ।
नाट्यवेद ततश्च चतुर्वेदासम्भवम् ॥ १६
जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च ।
यजुर्वेदादभिनयान् रसानाथर्वणादपि ॥ १७ ॥
वेदोपवेदैः सम्बद्धो नाट्यवेदो महात्मना ।
एवं भगवता सृष्टो ब्रह्मणा सर्ववेदिना ॥ १८ ॥
उत्पाद्य नाटयवेदं तु ब्रह्मोवाच सुरेश्वरम् ।
इतिहासो मया सृष्टः स सुरेषु नियुज्यताम् ॥ १९ ॥
कुशला ये विदग्धाश्च प्रगल्भाश्च जितश्रमाः ।
तेष्वयं नाट्यसंज्ञो हि वेदः संक्राम्यतां त्वया ॥ २० ॥
तच्छ्रुत्वा वचनं शक्रो ब्रह्मणा यदुदाहृतम्
प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् ॥ २१ ॥
ग्रहणे धारणे ज्ञाने प्रयोगे चास्य सत्तम
अशक्ता भगवन् देवा अयोग्या नाट्यकर्मणि ॥ २२ ॥
य इमे वेदगुह्यज्ञा ऋषयः संशितव्रताः ।
एतेऽस्य ग्रहणे शक्ताः प्रयोगे धारणे तथा ॥ २३ ॥
नाट्यवेद की भरत को उपलब्धि -
श्रुत्वा तु शक्रवचनं मामाहाम्बुजसम्भवः ।
त्वं पुत्रशतसंयुक्तः प्रयोक्ताऽस्य भवानघ ॥ २४॥
आज्ञापितो विदित्वाऽहं नाट्यवेदं पितामहात् ।
पुत्रानध्यापयामास प्रयोगं चापि तत्त्वतः ॥ २५ ॥
शाण्डिल्यं चैव वात्स्यं च कोहलं दत्तिलं तथा ।
जटिलम्बरको चैव तण्डुमग्निशिखं तथा ॥ २६ ॥
सैन्धवं सपुलोमानं शाङ्खलिं विपुलं तथा ।
कपिञ्जलिं वादिरं च यमधूम्रायणी तथा ॥ २७॥
जम्बुध्वजं काकजङ्घ स्वर्णकं तापसं तथा ।
कैदारि शालिकर्ण च दीर्घगात्रं च शालिकम् ॥ २८ ॥
कौत्सं ताण्डायनिं चैव पिङ्गलं चित्रकं तथा ।
बन्धु मल्लकं चैव मुष्ठिकं सैन्धवायनम् ॥ २९ ॥
तैतिल भार्गवं चैव शुचिं बहुलमेव च ।
अबुधं बुधसेनं च पाण्डुकर्णं सुकेरलम् ॥ ३० ॥
ऋजुकं मण्डकं चैव शम्बरं वञ्जुलं तथा ।
मागधं सरलं चैव कर्तारं चोग्रमेव च ॥ ३१ ॥
तुषारं पार्षदं चैव गौतमं बादरायणम् ।
विशालं शबलं चैव सुनामं मेषमेव च ॥ ३२ ॥
कालियं भ्रमरं चैव तथा पीठमुखं मुनिम्
नखकुट्टाश्मकुट्टौ च पढ्दं सोत्तमं तथा ॥ ३३ ॥
पादुकोपानहौ चैव श्रुतिं चाषस्वरं तथा ।
अग्निकुण्डाज्यकुण्डी च वितण्ड्य ताण्डवमेव च ॥ २४ ॥
कर्तराक्षं हिरण्याक्षं कुशलं दुस्सहं तथा ।
लाजं भयानकं चैव बीभत्सं सविचक्षणम् ॥ ३५ ॥
पुण्ड्राक्षं पुण्ड्रनासं चाप्यसितं सितमेव च ।
विधुजिहं महाजिहं शालङ्कायनमेव च ॥ ३६ ॥
श्यामायनं माठरं च लोहिताङ्गं तथैव च ।
संवर्तकं पञ्चशिखं त्रिशिखं शिखमेव च ॥ ३७॥
शङ्खवर्णमुख शण्टं शङ्कुकर्णमथापि च
शकनेमिं गभस्तिं चाप्यंशुमालिं शठं तथा ॥ ३८ ॥
विद्युतं शातच रौद्रं वीरमथापि च।
पितामहाज्ञयाऽस्माभिर्लोकस्य च गुणेप्सया ॥ ३९ ॥
प्रयोजितं पुत्रशतं यथाभूमिविभागशः ।
यो यस्मिन्कर्मणि यथा योग्यस्तस्मिन् स योजितः ॥ ४० ॥
कैशिकी वृत्ति की आवश्यकता एवं योजना -
भारती सात्वती चैव वृत्तिमारभटी तथा
समाश्रितः प्रयोगस्तु प्रयुक्तो वै मया द्विजाः ॥ ४१ ॥
परिगृह्य प्रणम्याथ ब्रह्मा विज्ञापितो मया ।
अथाह मां सुरगुरुः कैशिकिमपि योजय ॥ ४२ ॥
यच्च तस्याः क्षमं द्रव्यं तद् ब्रूहि द्विजसत्तम ।
एवं तेनास्म्यभिहितः प्रत्युक्तश्च मया प्रभुः ॥ ४३ ॥
दीयतां भगवन्द्रव्यं कैशिक्याः सम्प्रयोजकम् ।
नृत्ताङ्गहारसम्पन्ना रसभावक्रियात्मिका ॥ ४४ ॥
दृष्टा मया भगवतो नीलकण्ठस्य नृत्यतः ।
कैशिकी ष्लक्ष्णनैपथ्या शृङ्गाररससम्भवा ॥ ४५ ॥
अशक्या पुरुषः सा तु प्रयोक्तं स्त्रीजनाहते।
ततोऽसृजन्महातेजा मनसाऽप्सरसो विभुः ॥ ४६ ॥
नाट्यालङ्कारचतुराः प्रादान्मह्यं प्रयोगतः ।
अप्सराओं की संज्ञा -
मञ्जुकेशीं सुकेशीं च मिश्रकेशीं सुलोचनाम् ॥ ४७ ॥
सौदामिनी देवदत्तां देवसेनां मनोरमाम् ।
सुदतीं सुन्दरीं चैव विदग्धां विपुलां तथा ॥ ४८ ॥
सुमालां सन्ततिं चैव सुनन्दां सुमुखीं तथा ।
मागधीमर्जनी चैव सरला केरला धृतिम् ॥ ४९ ॥
नन्दां सपुष्कल चैव कलमां चैव मे ददौ ।
स्वाति तथा नारद की भरत की सहायता हेतु नियुक्ति -
स्वातिर्भाण्डनियुक्तस्तु सह शिष्यैः स्वयम्भुवा ॥ ५० ॥
नारदाद्याश्च गन्धर्वा गानयोगे नियोजिताः ।
एवं नाट्यमिदं सम्यम्बुद्धा सर्वेः सुतैः सह ॥ ५१ ॥
स्वातिनारदसंयुक्तो वेदवेदाङ्गकारणम् ।
उपस्थितोऽहं ब्रह्माणं प्रयोगार्थं कृताञ्जलिः ॥ ५२ ॥
नाट्यस्य ग्रहणं प्राप्तं ब्रूहि किं करवाण्यहम् ।
इन्द्रध्वज महोत्सव के अवसर पर नाट्य प्रयोग -
एतत्तु वचनं श्रुत्वा प्रत्युवाच पितामहः ॥ ५३ ॥
महानयं प्रयोगस्य समयः प्रत्युपस्थितः
अयं ध्वजमहः श्रीमान् महेन्द्रस्य प्रवर्तते ॥ ५४ ॥
अत्रेदानीमयं वेदो नाट्यसंज्ञः प्रयुज्यताम्
ततस्तस्मिन्ध्वजमहे निहतासुरदानवे ॥ ५५ ॥
प्रहृष्टामरसंकीर्णे महेन्द्रविजयोत्सवे ।
पूर्व कृता मया नान्दी ह्याशीर्वचसंयुता ॥ ५६ ॥
अष्टाङ्गपदसंयुक्ता विचित्रा वेदनिर्मिता ।
तदन्तेऽनुकृतिर्बद्धा यथा दैत्याः सुरैर्जिताः ॥ ५७ ॥
सम्फेटविद्रवकृता च्छेद्यभेद्याहवाल्मिका ।
ततो ब्रह्मादयो देवाः प्रयोगपरितोषिताः ॥ ५८ ॥
प्रददुर्मत्सुतेभ्यस्तु सर्वोपकरणानि वै ।
भरत मुनि को देवताओं द्वारा दिये गये उपकरण -
प्रीतस्तु प्रथमं शको दत्तवान्स्वं ध्वजं शुभम् ५९॥
ब्रह्मा कुटिलकं चैव भृङ्गारं वरुणः शुभम् ।
सूर्यश्छत्रं शिवस्सिद्धिं वायुर्व्यजनमेव च ॥ ६० ॥
विष्णुः सिंहासनं चैव कुबेरो मुकुटं तथा।
श्रव्यत्वं प्रेक्षणीयस्य ददौ देवी सरस्वती ॥ ६१ ॥
शेषा ये देवगन्धर्वा यक्षराक्षसपन्नगाः
तस्मिन्सदस्यभिप्रेतान्नानाजातिगुणाश्रयान् ॥ ६२ ॥
अंशांशैर्भाषितं भावान् रसान् रूपं बलं तथा
दत्तवन्तः प्रहष्टास्ते मत्सुतेभ्यो दिवौकसः ॥ ६३ ॥
एवं प्रयोगे प्रारब्धे दैत्यदानवनाशने ।
अभवन्तुभिताः सर्वे दैत्या ये तत्र सङ्गताः ॥ ६४॥
विरूपाक्ष पुरोगांश्च विज्ञान्प्रोत्साद्य तेऽब्रुवन् ।
न क्षमिष्यामहे नाटयमेतदागम्यतामिति ॥ ६५ ॥
ततस्तैरसुरैः सार्धं विघ्ना मायामुपाश्रिताः ।
वाच श्रेष्ठ स्मृति चैव स्तम्भयन्ति स्म नृत्यताम् ॥ ६६ ॥
तथा विध्वंसनं दृष्ट्वा सूत्रधारस्य देवराट् ।
कस्मात्प्रयोगवैषम्यमित्युक्त्वा ध्यानमाविशत् ॥ ६७ ॥
अथापश्यत्सदी विघ्नः समन्तादुपरिवारितम् ।
सहेतरै: सूत्रधारं नष्टसंज्ञं जडीकृतम् ॥६८॥
विघ्न नाशक जर्जर की उपलब्धि -
उत्थाय त्वरितं शक्रं गृहीत्वा ध्वजमुत्तमम् ॥
सर्वरत्नोज्ज्वलतनुः किञ्चिदुद्धृत लोचनः ॥ ६९ ॥
रङ्गपीठगतान्विघ्नानसुरांश्चैव देवराट् । जर्जरीकृतदेहांस्तानकरोज्जर्जरेण सः ॥७०॥
निहतेषु च सर्वेषु विनेषु सह दानवैः ।
संप्रहृष्य ततो वाक्यमादुः सर्वे दिवौकसः ॥ ७१ ॥
अहो प्रहरणं दिव्यमिदमासादितं त्वया ।
जर्जरीकृतसर्वाङ्गा येनैते दानवाः कृताः ॥७२॥
यस्मादनेन ते विघ्नाः सासुरा जर्जरीकृताः ।
तस्माज्जर्जर एवेति नामतोऽयं भविष्यति ॥ ७३ ॥
शेषा ये चैव हिंसार्थमुपयास्यन्ति हिंसकाः ।
दृट्रैव जर्जर तेऽपि गमिष्यन्त्येवमेव तु ॥ ७४
एवमेवास्त्विति ततः शक्रः प्रोवाच तान्सुरान् ।
रक्षाभूतश्च सर्वेषां भविष्यत्येष जर्जरः ॥ ७५ ॥
प्रयोगे प्रस्तुते व स्फीते शक्रमहे पुनः ।
त्रासं सञ्जनयन्ति स्म विघ्नाः शेषास्तु नृत्यताम् ॥ ७६ ॥
दृष्ट्वा तेषां व्यवसितं दैत्यानां विप्रकारजम् ।
उपस्थितोऽहं ब्रह्माणं सुतैः सर्वैः समन्वितः ॥७७॥
निश्चिता भगवन्विघ्ना नाट्यस्यास्य विनाशने ।
अस्य रक्षाविधिं सम्यगाज्ञापय सुरेश्वर ॥ ७८ ॥
नाट्यगृह का निर्माण -
ततश्च विश्वकर्माणं ब्रह्मोवाच प्रयत्नतः ।
कुरु लक्षणसम्पन्नं नाट्यवेश्म महामते ॥ ७९ ॥
ततोऽचिरेण कालेन विश्वकर्मा महच्छुभम् ।
सर्वलक्षणसम्पन्नं कृत्वा नाट्यगृहं तु सः ॥ ८० ॥
प्रोक्तवान्द्रुहिणं गत्वा सभायान्तु कृताञ्जलीः।
नाट्यगृह देव तदेवेक्षितुमर्हसि ॥ ८१ ॥
ततः सह महेन्द्रेण सुरैः सर्वेश्व सेतरैः ।
आगतस्त्वरितो दृष्टुं द्रुहिणो नाट्यमण्डपम् ॥ ८२ ॥
रवा नाट्यगृह झाप्राह सर्वान्सुरांस्ततः ।
अंशभागैर्भवद्भिस्तु रक्ष्योऽयं नाट्यमण्डपः ॥ ८३ ॥
नाट्यगृह के रक्षक देवताओं की नियुक्ति -
रक्षणे मण्डपस्याथ विनियुक्तस्तु चन्द्रमा ।
लोकपालास्तथा दिक्षु विदिश्वपि च मारुताः ॥ ८४ ॥
नेपथ्यभूमौ मित्रस्तु निक्षिप्तो वरुणोऽम्बरे ।
वेदिकारक्षणे वह्निर्भाण्डे सर्वदिवौकसः ॥ ८५ ॥
वर्णाश्चत्वार एवाथ स्तम्भेषु विनियोजिताः ।
आदित्याश्चैव रुद्राश्च स्थिताः स्तम्भान्तरेश्वथ ॥ ८६ ॥
धारणीश्वथ भूतानि शालास्वप्सरस्तथा ।
सर्ववेश्मसु यक्षिण्यो महीपृष्ठे महोदधिः ॥ ८७ ॥
द्वारशालानियुक्तौ तु तान्तः काल एव च
स्थापितौ द्वारपत्रेषु नागमुख्यौ महाबलौ ॥ ८८ ॥
देहल्यां यमदण्डस्तु शूलं तस्योपरि स्थितम् ।
द्वारपाली स्थिती चौभी नियतिर्मृत्युरेव च ॥ ८९ ॥
पार्श्वे च रङ्गपीठस्य महेन्द्रः स्थितवान्स्वयम् ।
स्थापिता मत्तवारण्यां विद्युद्दैत्यनिषूदनी ॥ ९० ॥
स्तम्भेषु मत्तवारण्याः स्थापिता परिपालने ।
भूतयक्षपिशाश्च गुह्यकाश्च महाबलाः ॥ ९१ ॥
जर्जरे तु विनिक्षितं व दैत्यनिवर्हणम् ।
तत्पर्वसु विनिक्षिप्ताः सुरेन्द्रा ह्यमितौजसः ॥ ९२ ॥
शिरः पर्वस्थितो ब्रह्मा द्वितीये शङ्करस्तथा ।
तृतीये च स्थितो विष्णुश्चतुर्थे स्कन्द एव च ॥ ९३ ॥
पचमे च महानागाः शेषवासुकितक्षकाः ।
एवं विघ्नविनाशाय स्थापिता जर्जरे सुराः ९४
रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः ।
इष्टार्थं रङ्गमध्ये तु क्रियते पुष्पमोक्षणम् ॥ ९५ ॥
पातालवासिनो ये च यक्षगुह्यकपन्नगाः।
अधस्ताद्रङ्गपीठस्य रक्षणे ते नियोजिताः ॥ ९६ ॥
नायकं रक्षतीन्द्रस्तु नायिकां च सरस्वती ।
विदूषकमधौङ्कारः शेशास्तु प्रकृतिर्डरः ॥ ९७ ॥
यान्येतानि नियुक्तानि दैवतानीह रक्षणे ।
एतान्येवाधिदैवानि भविष्यन्तीत्युवाच सः ॥ ९८ ॥
एतस्मिन्नन्तरे देवैः सर्वैरुक्तः पितामहः ।
साम्ना तावदिमे विघ्नाः स्थाप्यन्तां वचसा त्वया ॥ ९९ ॥
पूर्व सामं प्रयोक्तव्यं द्वितीयं दानमेव च।
तयोरुपरि भेदस्तु ततो दण्डः प्रयुज्यते ॥ १००॥
ब्रह्मा द्वारा विघ्नकर्ताओं का उद्बोधन -
देवानां वचनं श्रुत्वा ब्रह्मा विघ्नानुवाच ह ।
कस्माद्भवन्तो नाट्यस्य विनाशाय समुत्थिताः ॥ १०१ ॥
ब्रह्मणो वचनं श्रुत्वा विरूपाक्षोऽब्रवीद्वचः ।
दैत्यैर्विगणैः सार्धं सामपूर्वमिदं ततः ॥ १०२ ॥
योऽयं भगवता सृष्टो नाट्यवेदः सुरेच्छया ।
प्रत्यादेशोऽयमस्माकं सुरार्थं भवता कृतः ॥ १०३ ॥
तन्नैतदेवं कर्तव्यं त्वचा लोकपितामह ।
यथा देवस्तथा दैत्यास्त्वत्तः सर्वे विनिर्गताः ॥ १०४ ॥
विघ्नानां वचनं श्रुत्वा ब्रह्मा वचनमब्रवीत् ।
अलं वो मन्युना दैत्या विषादं त्यजतानघाः ॥ १०५ ॥
भवतां देवतानां च शुभाशुभविकल्पकः ।
कर्मभावान्वयापेक्षी नाट्यवेदो मया कृतः ॥ १०६ ॥
नाट्य स्वरूप -
नैकान्ततोऽत्र भवतां देवानां चानुभावनम् ।
त्रैलोक्यस्यास्य सर्वस्य नाट्यं भावानुकीर्तनम् ॥ १०७॥
कचिद्धर्मः कचित्कीटा कचिदर्थः कचिच्छमः ।
कचिद्धास्यं कचिद्युद्धं कचित्कामः कचिद्वधः ॥ १०८ ॥
धर्मो धर्मप्रवृत्तानां कामः कामोपसेविनाम् ।
निग्रहो दुर्विनीतानां विनीतानां दमक्रिया ॥ १०९ ॥
क्रीवानां धाजननमुत्साहः शूरमानिनाम् ।
अनुधानां विबोधश्च वैदुष्यं विदुषामपि ॥ ११० ॥
ईश्वराणां विलासच स्थेयं दुःखार्दितस्य च ।
अर्थोपजीविनामर्थौ धृतिरुद्वेगचेतसाम् ॥ १११
नानाभावोपसम्पन्नं नानावस्थान्तरात्मकम् ।
लोकवृत्तानुकरणं नाट्यमेतन्मया कृतम् ॥ ११२ ॥
उत्तमाधममध्यानां नराणां कर्मसंश्रयम् ।
हितोपदेशजननं धृतिक्रीडासुखादिकृत् ॥ ११३ ॥
(एतद्रसेषु भावेषु सर्वकर्मक्रियास्वथ ।
सर्वोपदेशजननं नाट्यं लोके भविष्यति ॥ )
दुःखार्तानां श्रमार्तानां शोकार्तानां तपस्विनाम् ।
विश्रान्तिजनन काले नाटयमेतद्भविष्यति ॥ ११४ ॥
धर्म्यं यशस्यमायुष्यं हितं बुद्धिविवर्धनम् ।
लोकोपदेशजननं नाटयमेतद्भविष्यति ॥ ११५ ॥
न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला ।
नासौ योगो न तत्कर्म नाट्येऽस्मिन् यन्न दृश्यते ॥ ११६ ॥
रंग तथा रंग देवताओं का पूजा विधान -
तन्नात्र मन्युः कर्तव्यो भवद्भिरमरान्प्रति ।
सप्तद्वीपानुकरणं नाट्यमेतद्भविष्यति ॥ ११७ ॥
(येनानुकरणं नाटयमेतत्तयन्मया कृतम् ॥ )
देवानामसुराणां च राज्ञामथ कुटुम्बिनाम् ।
ब्रह्मर्षीणां च विज्ञेयं नाट्यं वृत्तान्तदर्शकम् ॥ ११८ ॥
योऽयं स्वभावो लोकस्य सुखदुःखसमन्वितः ।
सोऽङ्गाद्यभिनयोपेतो नाट्यमित्यभिधीयते ॥ ११९ ॥
(वेदविद्येतिहासानामाख्यानपरिकल्पनम् ।
विनोदकरणं लोके नाट्यमेतद्भविष्यति ॥ श्रुतिस्मृतिसदाचारपरिशेषार्थकल्पनम् ।
विनोदजननं लोके नाट्यमेतद्भविष्यति ॥ )
एतस्मिन्नन्तरे देवान् सर्वानाह पितामहः ।
पितामद्य विधिवद्यजनं नाटयमण्डपे १२० ॥
बलिप्रदानैर्होमैश्च मन्त्रौषधिसमन्वितैः ।
भोज्यैर्भक्षैश्च पानैश्च बलिः समुपकल्पताम् ॥ १२१ ॥
मर्त्यलोकगताः सर्वे शुभ पूजामवाप्स्यथ
अपूजयित्वा रनं तु नैव प्रेक्षां प्रवर्तयेत् ॥ १२२ ॥
अपूजयित्वा तु यः प्रेक्षां कल्पयिष्यति।
निष्फलं तस्य तत् ज्ञानं तिर्यग्योनिं च यास्यति ॥ १२३ ॥
यज्ञेन संमितं दद्रङ्गदैवतपूजनम्
तस्मात्सर्वप्रयलेन कर्तव्यं नाट्ययोक्तृभिः ॥ १२४ ॥
नर्तकोऽर्थपतिर्वापि यः पूजां न करिष्यति
न कारयिष्यन्त्यन्यैर्वा प्राप्नोत्यपचयं तु सः ॥ १२५ ॥
यथाविधिं यथादृष्टं यस्तु पूजां करिष्यति ।
स लप्स्यते शुभानर्थान् स्वर्गलोकं च चास्यति ॥ १२६ ॥
एवमुक्त्वा तु भगवान्द्रुहिणः सहदेवतैः ।
रङ्गपूजां कुरुश्वेति मामेवं समचोदयत् ॥ १२७॥
॥ इति भारतीये नाट्यशास्त्रे नाट्योत्पत्तिर्नाम प्रथमोऽध्यायः ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें