प्रजापति सूक्त (शुक्ल यजुर्वेद)
अध्याय - 32
ऋषि - स्वयम्भू ब्रह्मा
देवता - परमात्मा
छन्द - अनुष्टुप्, गायत्री, त्रिष्टुप्
मन्त्र सं. - 1-5
तदेवाग्निस्तदादित्यः तद्वायुश्तदु चन्द्रमाः ।
तदेव शुक्रं तद् ब्रह्म ता आप: स प्रजापतिः ॥1॥
सर्वे निमेषा जज्ञिरे विद्युत: पुरुषादधि ।
नैनमूर्ध्वं न तिर्यञ्च न मध्ये परि जग्रभत् ॥2॥
न तस्य प्रतिमा अस्ति यस्य नाम महद्यशः ।
हिरण्यगर्भ इत्येष मामाहिंसीत् इत्येषा यस्मान्न जात इत्येषः ॥3॥
एषो ह देव: प्रदिशोऽनु सर्वाः
पूर्वो ह जातः स उ गर्भे अन्तः ।
स एव जात: स जनिष्यमाणः
प्रत्यङ्जनास्तिष्ठति सर्वतो मुखः ॥4॥
यस्माज्जातं न पुरा किञ्च नैव
य आबभूव भुवनानि विश्वा ।
प्रजापतिः प्रजया संरराण-
त्रीणि ज्योतिंषि सचते स षोडशी ॥5॥
शिवसंकल्प सूक्त (शुक्लयजुर्वेद) (34. 1-6)
अध्याय - 34मन्त्र - 1-6
ऋषि - याज्ञवल्क्य
देवता - मन
छन्द - त्रिष्टुप्
१. यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति ।
दूरंगमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसंकल्पमस्तु ।
२. येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः ।
यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥
३. यत् प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु ।
यस्मान्न ऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु ॥
४. येनेदं भूतं भुवनं भविष्यत्परिगृहीतममृतेन सर्वम् ।
येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्तु ॥
५. यस्मिन्नृचः साम यजूंषि यस्मिन् प्रतिष्ठिता रथनाभाविवाराः ।
यस्मिंश्चित्तं सर्वमोतं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥
६. सुषारथिरश्वानिव यन्मनुष्यान् नेनीयतेऽभीशुभिर्वाजिन इव ।
हृत्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसङ्कल्पमस्तु ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें