॥ अथ द्वितीयोऽध्यायः ॥
धर्मस्य सामान्यलक्षणम् -
विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः ।
हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ॥१॥
इच्छाया: भावाभावौ -
कामात्मता न प्रशस्ता न चैवेहास्त्यकामता ।
काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः॥२॥
व्रतानां संकल्पमूलकता -
संकल्पमूल: कामो वै यज्ञाः संकल्पसंभवाः।
व्रतानि यमधर्माश्च सर्वे संकल्पजाः स्मृताः ॥३॥
अकामस्य क्रिया काचिद्दृश्यते नेह कर्हिचत्।
यद्यद्धि कुरुते किंचित्तत्तत्कामस्य चेष्टितम् ॥४॥
तेषु सम्यग् वर्तमानो गच्छत्यमरलोकताम् ।
यथा संकल्पितांश्चैव सर्वान् कामान् समश्नुते ॥५॥
धर्मप्रमाणम् -
वेदोऽखिलो धर्ममूलम् स्मृतिशीले च तद्विदाम् ।
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥६॥
यः कश्चित्कस्यचिद्धर्मो मनुना परिकीर्तितः ।
स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥७॥
धर्मनिश्चयार्थे विदुषां कर्तव्यम् -
सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा ।
श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै॥८॥
श्रुत्युक्तधर्मफलम् -
श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन्हि मानवः।
इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥९॥
श्रुतिस्मृतिपरिचयः -
श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ।
ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ ॥१०॥
नास्तिकनिन्दा -
योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद् द्विजः ।
स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः ॥११॥
चतुर्विधधर्मलक्षणम् -
वेदः स्मृतिः सदाचार: स्वस्य च प्रियमात्मनः ।
एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥१२॥
श्रुतेः प्रामाणिकता -
अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते ।
धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥१३॥
श्रुतिद्वयविरोधे द्वयोः प्रामाणिकता -
श्रुतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ ।
उभावपि हि तौ धर्मों सम्यगुक्तौ मनीषिभिः ॥१४॥
श्रुतिद्वय-विरोधस्य दृष्टान्तः -
उदितेऽनुदिते चैव समयाध्युषिते तथा ।
सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः ॥१५॥
धर्मशास्त्रस्य अधिकारी -
निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः ।
तस्य शास्त्रेधिकारोस्मिंज्ञेयो नान्यस्य कस्यचित् ॥१६॥
ब्रह्मावर्तसीमा -
सरस्वतीदृषद्वत्यो: देवनद्योर्यदन्तरम् ।
तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥१७॥
सदाचारलक्षणम् -
तस्मिन् देशे य आचार: पारम्पर्यक्रमागतः ।
वर्णानां सान्तरालानां स सदाचार उच्यते ॥१८॥
कुरुक्षेत्रादयः ब्रह्मर्षिदेश: -
कुरुक्षेत्रं च मत्स्याश्च पञ्चाला: सूरसेनकाः।
एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरः ॥१९॥
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।
स्वं स्वं चरित्रं शिक्षेरन्पृथिव्यां सर्वमानवाः ॥२०।।
मध्यदेशस्य सीमा -
हिमवद्-विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि ।
प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः ॥२१॥
आर्यावर्तस्य सीमा -
आसमुद्रात्तु वै पूर्वादासमुद्रात्तु पश्चिमात् ।
तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः ॥२२॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें