1. निम्नलिखित सूक्तों का अध्ययनः-
- ऋग्वेद -
१. अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् ।
होतारं रत्नधातमम् ॥१॥
२. अग्निः पूर्वेभिर्ऋषिभिरीड्यो नूतनैरुत ।
स देवाँ एह वक्षति ॥२॥
३. अग्निना रयिमश्नवत्पोषमेव दिवे दिवे ।
यशसं वीरवत्तमम् ॥३॥
४. अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि ।
स इद् देवेषु गच्छति ॥४॥
५. अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः ।
देवो देवेभिरा गमत् ॥५॥
६. यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि ।
तवेत्तत्सत्यमङ्गिरः ॥६॥
७. उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् ।
नमो भरन्त एमसि ॥७॥
८. राजन्तमध्वराणां गोपामृतस्य दीदिविम् ।
वर्धमानं स्वे दमे ॥८॥
सचस्वा नः स्वस्तये ॥९॥
१.
यच्चिद्धि ते विशो यथा प्र देव वरुण व्रतम् ।
मिनीमसि द्यविद्यवि ॥ १ ॥
२.
मा नो वधाय हत्नवे जिहीळानस्य रीरधः ।
मा हृणानस्य मन्यवे ॥ २ ॥
३.
वि मृळीकाय ते मनो रथीरश्वं न संदितम् ।
गीर्भिर्वरुण सीमहि ॥ ३ ॥
४.
परा हि मे विमन्यवः पतन्ति वस्यइष्टये ।
वयो न वसतीरुप ॥ ४ ॥
५.
कदा क्षत्रश्रियं नरमा वरुणं करामहे ।
मृळीकायोरुचक्षसम् ॥ ५ ॥
६.
तदित् समानमाशाते वेनन्ता न प्र युच्छतः ।
धृतव्रताय दाशुषे ॥ ६ ॥
७.
वेदा यो वीनां पदमन्तरिक्षेण पतताम् ।
वेद नावः समुद्रियः ॥ ७ ॥
८.
वेद मासो धृतव्रतो द्वादश प्रजावतः ।
वेदा य उपजायते ॥ ८ ॥
९.
वेद वातस्य वर्तनिमुरोर्ऋष्वस्य बृहतः ।
वेदा ये अध्यासते ॥ ९ ॥
१०. नि षसाद
धृतव्रतो वरुणः पस्त्या३स्वा ।
साम्राज्याय सुक्रतुः ॥ १० ॥
११. अतो विश्वान्यद्भुता चिकित्वाँ अभि पश्यति ।
कृतानि या च कर्त्वा ॥ ११ ॥
१२. स नो विश्वाहा
सुक्रतुरादित्यः सुपथा करत् ।
प्र ण आयूंषि तारिषत् ॥ १२ ॥
१३. बिभ्रद्
द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम् ।
परि स्पशो नि षेदिरे ॥ १३ ॥
१४. न यं
दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम् ।
न देवमभिमातयः ॥ १४ ॥
१५. उत यो
मानुषेष्वा यशश्चक्रे असाम्या ।
अस्माकमुदरेष्वा ॥ १५ ॥
१६. परा मे यन्ति
धीतयो गावो न गव्यूतीरनु ।
इच्छन्तीरुरुचक्षसम् ॥ १६ ॥
१७ . सं नु वोचावहै
पुनर्यतो मे मध्वाभृतम् ।
होतेव क्षदसे प्रियम् ॥ १७ ॥
१८. दर्श नु विश्वदर्शतं
दर्शं रथमधि क्षमि ।
एता जुषत मे गिरः ॥ १८ ॥
१९. इमं मे वरुण
श्रुधी हवमद्या च मृळय ।
त्वामवस्युरा चके ॥ १९ ॥
२०. त्वं विश्वस्य
मेधिर दिवश्च ग्मश्च राजसि ।
स यामनि प्रति श्रुधि ॥ २० ॥
२१. उदुत्तमं मुमुग्धि
नो वि पाशं मध्यमं चृत ।
१. चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य
वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ।।
२. सूर्यो देवीमुषसं रोचमानां, मर्यो न योषामभ्येति
पश्चात् ।
यत्रा नरो देवयन्तो युगानि, वितन्वते प्रति भद्राय भद्रम् ।।
३. भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा
अनुमाद्यासः ।
नमस्यन्तो दिव आ पृष्ठमस्थुः परि द्यावापृथिवी यन्ति सद्यः ।।
४. तत्सूर्यस्य देवत्वं तन्महित्वं मध्या
कर्तोर्विततं सं जभार ।
यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ।।
५. तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणते
द्योरुपस्थे ।
अनन्तमन्यद्रुशदस्य पाजः कृष्णमन्यद्धरितः सं भरन्ति ।।
६. अद्या देवा उदिता सूर्यस्य, निरंहसः पिपृता
निरवद्यात् ।
·
इन्द्र सूक्त (2.12) -
यो जात एव प्रथमो मनस्वान्,
देवो देवान् क्रतुना पर्यभूषत् ।
यस्य शुष्माद् रोदसी अभ्यसेता,
नृम्णस्य मह्ना स जनास इन्द्रः॥१॥
यः पृथिवीं व्यथमानामर्दूहद्,
यः पर्वतान् प्रकुपिताँ अरम्णात् ।
यो अन्तरिक्षं विममे वरीयो,
यो द्यामस्तभ्नात्स जनास इन्द्रः॥२॥
यो हत्वाहिमरिणात्सप्तसिन्धून्,
यो गा उदाजदपधा बलस्य ।
यो अश्मनोरन्तरग्निं जजान,
संवृक्समत्सु स जनास इन्द्रः॥३॥
येनेमा विश्वा च्यवना कृतानि,
यो दासं वर्णमधरं गुहाकः ।
श्वघ्नीव यो जिगीवाँल्लक्षमादद्,
अर्यः पुष्टानि स जनास इन्द्रः॥४॥
यं स्मा पृच्छन्ति कुह सेति घोर-,
मुतेमाहुर्नैषो अस्तीत्येनम् ।
सो अर्यः पुष्टीर्विज इवा मिनाति,
श्रदस्मै धत्त स जनास इन्द्रः ॥५॥
यो रध्रस्य चोदिता यः कृशस्य,
यो ब्रह्मणो नाधमानस्य कीरेः ।
युक्तग्राव्णो योऽविता सुशिप्रः,
सुतसोमस्य स जनास इन्द्रः ॥६॥
यस्याश्वासः प्रदिशि यस्य गावो,
यस्य ग्रामा यस्य विश्वे रथासः ।
यः सूर्यं य उषसं जजान,
यो अपां नेता स जनास इन्द्रः ॥७॥
यं क्रन्दसी संयती विह्वयेते,
परेऽवर उभया अमित्राः ।
समानं चिद्रथमातस्थिवांसा,
नाना हवेते स जनास इन्द्रः ॥८।।
यस्मान्न ऋते विजयन्ते जनासो,
यं युध्यमाना अवसे हवन्ते ।
यो विश्वस्य प्रतिमानं बभूव,
यो अच्युतच्युत् स जनास इन्द्रः ॥९॥
यः शश्वतो मोनो दधाना
नमन्यमानाञ्छा जघान।
यः शर्धते नानुददाति शृध्यां,
यः शम्बरं पर्वतेषु क्षियन्तं,
चत्वारिंश्यां शरद्यन्वविन्दत् ।
ओजायमानं यो अहिं जघान्,
जानुं शयानं स जनास इन्द्रः ॥११।।
यः सप्तरश्मिर्वृषभस्तुविष्मान्
अवासृजत्सर्तवे सप्तसिन्धून् ।
यो रौहिणमस्फुरद् वज्रबाहुर्
द्यामारोहन्तं स जनास इन्द्रः ॥१२।।
द्यावा
चिदस्मै पृथिवी नमते,
शुष्माच्चिदस्य पर्वता भयन्ते ।
यः सोमपा निचितो बज्रबाहुर्
यो बज्रहस्तः स जनास इन्द्रः॥१३।।
यः
सुन्वन्तमवति यः पचन्तं,
यः शंसन्तं यः शशमानमूती ।
यस्य ब्रह्म वर्धनं यस्य सोमो,
यस्येदं राधः स जनास इन्द्रः॥१४॥
यः
सुन्वते पचते दुध्र आ चिद्
वाजं दर्दर्षि स किलासि सत्यः ।
वयं त इन्द्र विश्वह प्रियासः,
सुवीरासो विदथमा वदेम ॥१५॥
उषस् सूक्त (3.61) - इस सूक्त में 7 मंत्र हैं । ऋषि – विश्वामित्र, देवता – उषस्, छन्द – त्रिष्टुप् ।
उषो वाजेन वाजिनि प्रचेताः स्तोमं जुषस्व गृणतो मघोनि ।
पुराणी देवि युवतिः पुरंधिरनु व्रतं चरसि विश्ववारे ॥१॥
उषो देव्यमर्त्या वि भाहि चन्द्ररथा सूनृता ईरयन्ती ।
आ त्वा वहन्तु सुयमासो अश्वा हिरण्यवर्णां पृथुपाजसो ये ॥२॥
उषः प्रतीची भुवनानि विश्वोर्ध्वा तिष्ठस्यमृतस्य केतुः ।
समानमर्थं चरणीयमाना चक्रमिव नव्यस्या ववृत्स्व ॥३॥
अव स्यूमेव चिन्वती मघोन्युषा याति स्वसरस्य पत्नी ।
स्व१र्जनन्ती सुभगा सुदंसा आन्ताद्दिवः पप्रथ आ पृथिव्याः ॥४॥
अच्छा वो देवीमुषसं विभातीं प्र वो भरध्वं नमसा सुवृक्तिम् ।
ऊर्ध्वं मधुधा दिवि पाजो अश्रेत् प्र रोचना रुरुचे रण्वसंदृक् ॥५॥
ऋतावरी दिवो अर्कैरबोध्या रेवती रोदसी चित्रमस्थात् ।
आयतीमग्न उषसं विभातीं वाममेषि द्रविणं भिक्षमाणः ॥६॥
ऋतस्य बुध्न उषसामिषण्यन्वृषा मही रोदसी आ विवेश ।
मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा ॥७॥
पर्जन्य सूक्त (5.83) - इस सूक्त में 10 मंत्र हैं । ऋषि – अत्रि, देवता – पर्जन्य, छन्द – 1, 5, 6, 7, 8 और 10 मंत्र में त्रिष्टुप्, 2, 3, 4 में जगती तथा 9 में अनुष्टुप् ।
अच्छा वद तवसं गीर्भिराभिः स्तुहि पर्जन्यं नमसा विवास ।
कनिक्रदद्वृषभो जीरदानू रेतो दधात्योषधीषु गर्भम् ॥१॥
वि वृक्षान् हन्त्युत हन्ति रक्षसो विश्वं बिभाय भुवनं महावधात् ।
उतानागा ईषते वृष्ण्यावतो यत्पर्जन्यः स्तनयन् हन्ति दुष्कृतः ॥२॥
रथीव कशयाश्वाँ अभिक्षिपन्नाविर्दूतान्कृणुते वर्ष्याँ३अह ।
दूरात्सिंहस्य स्तनथा उदीरते यत्पर्जन्यः कृणुते वर्ष्यं१नभः ॥३॥
प्र वाता वान्ति पतयन्ति विद्युत उदोषधीर्जिहते पिन्वते स्वः ।
इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीं रेतसावति ॥४॥
यस्य व्रते पृथिवी नन्नमीति यस्य व्रते शफवज्जर्भुरीति ।
यस्य व्रत ओषधीर्विश्वरूपाः स नः पर्जन्य महि शर्म यच्छ ॥५॥
दिवो नो वृष्टिं मरुतो ररीध्वं प्र पिन्वत वृष्णो अश्वस्य धाराः ।
अर्वाङेतेन स्तनयित्नुनेह्यपो निषिञ्चन्नसुरः पिता नः ॥६॥
अभि क्रन्द स्तनय गर्भमा धा उदन्वता परि दीया रथेन ।
दृति सु कर्ष विषितं न्यञ्चं समा भवन्तूद्वतो निपादाः ॥७॥
महान्त कोशमुदचा निषिञ्च स्यन्दन्तां कुल्या विषिताः पुरस्तात् ।
घृतेन द्यावापृथिवी व्युन्धि सुप्रपाणं भवत्वघ्न्याभ्यः ॥८॥
यत् पर्जन्य कनिक्रद्त् स्तनयन् हंसि दृष्कृतः ।
प्रतीदं विश्वं मोदते यत्किं च पृथिव्यामधि ॥९॥
अवर्षीर्वर्षमुद् षू गृभायाकर्धन्वान्यत्येतवा उ ।
अजीजन ओषधीर्भोजनाय कमुत प्रजाभ्योऽविदो मनीषाम्॥१०॥
अक्ष सूक्त (10.34) - इस सूक्त में 14 मंत्र हैं । ऋषि – कवषऐलूष, देवता – अक्षकृषिप्रशंसा, छन्द – सातवें मंत्र में जगती शेष सब में त्रिष्टुप् ।
१. प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः ।
सोमस्येव मौजवतस्य भक्षो विभीदको जागृविर्महयमच्छान् ।
२. न मा मिमेथ न जिहीळ एषा शिवा सखिभ्य उत मह्यमासीत् ।।
अक्षस्याहमेकपरस्य हेतोरनुव्रतामप जायामरोधम् ।।
३. द्वेष्टि श्वश्रूरप जाया रुणद्ध न नाथितो विन्दते मर्डितारम् ।
अश्वस्येव जरतो वस्न्यस्य नाहं विन्दामि कितवस्य भोगम् ।।
४. अन्ये जायां परि मृशन्त्यस्य यस्यागृधद्वेदने वाज्य१क्षः ।
पिता माता भ्रातर एनमाहुर्न जानीमो नयता बद्धमेतम् ।।
५. यदादीध्ये न दविषाण्येभिः परायद्भ्योऽव हीये सखिभ्यः ।
न्युप्ताश्च बभ्रवो वाचमक्रतँ एमीदेषां निष्कृतं जारिणीव ।।
६. सभामेति कितवः पृच्छमानो जेष्यामीति तन्वा३ शूशुजानः ।
अक्षासो अस्य वि तिरन्ति कामं प्रतिदीव्ने दधत आ कृतानि ।।
७. अक्षास इदङ्कुशिनों नितोदिनो निकृत्वानस्तपनास्तापयिष्णवः ।
कुमारदेष्णा जयतः पुनर्हणो मध्वा संपृक्ताः कितवस्य बर्हणा ।।
८. त्रिपञ्चाशः क्रीळति ब्रात एषां देव इव सविता सत्यधर्मा ।
उग्रस्य विन्मन्यवे ना नमन्ते राजा चिदेभ्यो नम इत्कृणोति ।।
९. नीचा वर्तन्त उपरि स्फुरन्त्यहस्तासो हस्तवन्तं सहन्ते ।
दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निर्दहन्ति ।।
१०. जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः क्व स्वित् ।
ऋणावा बिभ्यद्धनमिच्छमानोऽन्येषामस्तमुप नक्तमेति।।
११. स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायां सुकृतं च योनिम् ।
पूर्वाह्णे अश्वान् युयुजे हि बभ्रून्त्सो अ॒ग्नेरन्ते वृषलः पपाद ।।
१२. यो वः सेनानीर्महतो गुणस्य राजा व्रातस्य प्रथमो बभूव ।
तस्मै कृणोमि न धना रुणध्मि दशाहं प्राचीस्तदृतं वदामि ।।
१३. अक्षैर्मा दीव्यः कृषिमित् कृषस्व वित्ते रमस्व बहु मन्यमानः ।
तत्र गावः कितव तत्र जाया तन्मे वि चष्टे सवितायमर्यः ।।
१४. मित्रं कृणुध्वं खलु मृळता नो मा नो घोरेण चरताभि धृष्णु ।
नि वो नु मन्युर्विशतामरातिरन्यो बभ्रूणां प्रसितौ न्वस्तु ।।
ज्ञान सूक्त (10.71)
पुरुष सूक्त (10.90) - इस सूक्त में 16 मंत्र हैं । ऋषि – नारायण, देवता – पुरुष, छन्द – अन्तिम मंत्र में त्रिष्टुप् तथा अन्य सब में अनुष्टुप् ।
१. सहस्त्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङगुलम् ।।
२. पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।
उतामृतत्यस्येशानो यदन्नेनातिरोहति ।।
३. एतावानस्य महिमातो ज्यायांश्च पूरुषः ।
पादोSस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।।
४. त्रिपादूर्ध्व उदैत् पुरुष:पादोSस्येहाभवत् पुनः ।
ततो विष्वङ्व्यक्रामत् साशनानशने अभि ।।
५. तस्माद् विराळजायत विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ।।
६. यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ।।
७. तं यज्ञं बर्हिषि प्रौक्षन् पूरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्च ये ।।पशून्तांश्चक्रे वायव्यानारण्यान्ग्राम्याश्च ये ।।
९. तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्माद् यजुस्तस्मादजायत ।।गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ।।
मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते ।।
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ।।
हिरण्यगर्भ सूक्त (10.121)-
१. हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ।।
२. य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य
देवाः ।
यस्य च्छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ।।
३. यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव ।
य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ।।
४. यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया
सहाहुः ।
यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ।।
५. येन द्यौरुग्रा पृथिवी च दृळ्हा येन स्वः स्तभितं
येन नाकः ।
यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ।।
६. यं क्रन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसा
रेजमाने ।
यत्राधि सूर उदितो विभाति कस्मै देवाय हविषा विधेम ।।
७. आपो ह यद्बृहतीर्विश्वमायन्गर्भं दधाना
जनयन्तीरग्निम् ।
ततो देवानां समवर्ततासुरेकः कस्मै देवाय हविषा विधेम ।।
८. यश्चिदापो
महिना पर्यपश्यद्दक्षं दधाना जनयन्तीर्यज्ञम् ।
यो देवेष्वधि देव एक आसीत्कस्मै देवाय हविषा विधेम ।।
९. मा नो हिंसीज्जनिता यः पृथिव्या यो वा दिवं
सत्यधर्मा जजान ।
यश्चापश्चन्द्रा बृहतीर्जजान कस्मै देवाय हविषा विधेम ।।
१०. प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव ।
यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् ।।
नासदीय सूक्त (10.129) -
१. नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् ।
किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ।।
२. न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः ।
आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किं चनास ।।
३. तम आसीत्तमसा गूळ्हग्रेऽप्रकेतं सलिलं सर्वमा इदम् ।
तुच्छ्येनाभ्वपिहितं यदासीत्तपसस्तन्महिनाजायतैकम् ।।
४. कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् ।
सतो बन्धुमसति निरविन्दन् हृदि प्रतीष्या कवयो मनीषा ।।
५. तिरश्चीनो विततो रश्मिरेषामधः स्विदासी३दुपरि स्विदासी३त् ।
रेतोधा आसन्महिमान आसन्त्स्वधा अवस्तात्प्रयतिः परस्तात् ।।
६. को अद्धा वेद क इह प्र वोचत्कुत आजाता कुत इयं विसृष्टिः ।
अर्वाग्देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ।।
७. इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न ।
यो अस्याध्यक्षः परमे व्योमन् सो अङ्ग वेद यदि वा न वेद ।।
- शुक्लयजुर्वेद (34.1-6) -
१. यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति ।
दूरंगमं ज्योतिषां ज्योतिरेकं तन्मे
मनः शिवसंकल्पमस्तु ।
२. येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः ।
यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥
३. यत् प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु ।
यस्मान्न ऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु ॥
४. येनेदं भूतं भुवनं भविष्यत्परिगृहीतममृतेन सर्वम् ।
येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्तु ॥
५. यस्मिन्नृचः साम यजूंषि यस्मिन् प्रतिष्ठिता रथनाभाविवाराः ।
यस्मिंश्चित्तं सर्वमोतं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥
६. सुषारथिरश्वानिव यन्मनुष्यान् नेनीयतेऽभीशुभिर्वाजिन इव ।
हृत्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसङ्कल्पमस्तु ॥