वैयाकरणसिद्धान्तकौमुदी
अथ प्रथमा विभक्तिः
(1) प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा (2.3.46)
नियतोपस्थितिकः प्रातिपदिकार्थः । मात्रशब्दस्य प्रत्येकं योगः । प्रातिपदिकार्थमात्रे लिङ्गमात्राद्याधिक्ये परिमाणमात्रे सङ्ख्यामात्रे च प्रथमा स्यात्) उच्चैः । नीचैः । कृष्णः । श्रीः। ज्ञानम् । अलिङ्गा नियतलिङ्गाश्च प्रातिपदिकार्थमात्र इत्यस्योदाहरणम् । अनियतलिङ्गास्तु लिङ्गमात्राधिक्यस्य । तट:- तटी-तटम् । परिमाणमात्रे, द्रोणो व्रीहिः । द्रोणरूपं यत्परिमाणं तत्परिच्छिन्नो व्रीहिरित्यर्थः । प्रत्ययार्थे परिमाणे प्रकृत्यर्थोऽ भेदेन संसर्गेण विशेषणम् । प्रत्ययार्थस्तु परिच्छेद्यपरिच्छेदकभावेन ब्रीहौ विशेषणमिति विवेकः । वचनं सङ्ख्या । एकः । द्वौ बहवः । इहोक्तार्थत्वाद्विभक्तेरप्राप्तौ वचनम् ।
(2) सम्बोधने च (2.3.47)
इह प्रथमा स्यात् । हे राम ।
इति प्रथमाविभक्ति: ।
अथ द्वितीया विभक्तिः
(3) कारके (1.4.23)
इत्यधिकृत्य ।
(4) कर्तुरीप्सिततमं कर्म (1.4.49)
कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसञ्ज्ञं स्यात् । 'कर्तुः' किम् ? माघेष्वश्वं बध्नाति । कर्मण ईप्सिता माषाः, न तु कर्तुः । 'तमब्यहणं' किम् ? पयसा ओदनं भुङ्क्ते । 'कर्म' इत्यनुवृत्तौ पुनः कर्मग्रहणमाधारनिवृत्त्यर्थम् । अन्यथा गेहं प्रविशतीत्यत्रैव स्यात् ।
(5) अनभिहिते (2.3.1)
इत्यधिकृत्य ।
(6) कर्मणि द्वितीया (2.3.2)
अनुक्ते कर्मणि द्वितीया स्यात् । हरिं भजति । अभिहिते तु कर्मणि 'प्रातिपदिकार्थमात्रे' इति प्रथमैव । अभिधानं च प्रायेण तिङ्कृत्तद्धितसमासैः । तिङ्-हरिः सेव्यते । कृत्-लक्ष्म्या सेवितः । तद्धितः शतेन क्रीतः शत्यः समासः प्राप्त आनन्दो यं स प्राप्तानन्दः । क्वचिन्त्रिपातेनाभिधानम् । यथा 'विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् । साम्प्रतमित्यस्य हि युज्यत इत्यर्थः ।
(7) तथायुक्तं चानीप्सितम् (1.4.50)
ईप्सिततमवत्क्रियया युक्तमनीप्सितमपि कारकं कर्मसञ्ज्ञं स्यात्। ग्रामं गच्छंस्तृणं स्पृशति । ओदनं भुञ्जानो विषं भुङ्क्ते ।
(8) अकथितं च (1.4.51)
अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात् ।
दुह्याच्पच्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम् ।
कर्मयुक्स्यादकथितं तथा स्यान्नीहृकृष्वहाम् ।।
'दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णां कर्मणा यद्युज्यते तदेवाकथितं कर्म' इति परिगणनं कर्तव्यमित्यर्थः । गां दोग्धि पयः बलिं याचते वसुधाम् । अविनीतं विनयं याचते । तण्डुलानोदनं पचति । गर्गाञ्छतं दण्डयति । ब्रजमवरुणद्धि गाम् । माणवकं पन्थानं पृच्छति। वृक्षमवचिनोति फलानि माणवकं धर्मं ब्रूते, शास्ति वा । शतं जयति देवदत्तम् । सुधां क्षीरनिधि । देवदत्तं शतं मुष्णाति । ग्राममजां नयति, हरति, कर्षति, अयं संज्ञा । बलिं भिक्षते वसुधाम् । माणवकं धर्मं भाषते, अभिधत्ते, वक्तीत्यादि । 'कारकं' किम् ? माणवकस्य पितरं पन्थानं पृच्छति ।
(वा०) 'अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम्' । कुरून् स्वपिति । मासमास्ते । गोदोहमास्ते । क्रोशमास्ते ।
(9)गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (1.4.52)
गत्याद्यर्थानां शब्दकर्मणामकर्मकाणां चाणौ यः कर्ता स णौ कर्म स्यात्।
"शत्रूनगमयत्स्वर्गं वेदार्थं स्वानवेदयत् ।
आशयच्चामृतं देवान्वेदमध्यापयद्विधिम् ।।
आसयत्सलिले पृथ्वीं यः स मे श्रीहरिगतिः ।"
'गति' इत्यादि किम् ? पाचयत्योदनं देवदत्तेन । 'अण्यन्तानां' किम्? । गमयति देवदत्तो यज्ञदत्तं, तमपरः प्रयुङ्क्ते, गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः ।
अर्थशब्दः प्रत्येकमभिसम्बध्यते ।
(वा०) 'नीवह्योर्न' । नाययति, वाहयति वा भारं भृत्येन ।
(वा०) नियन्तृकर्त्तृकस्य वहेरनिषेधः । वाहयति रथं वाहान्सूतः ।
(वा०) 'आदिखाद्योर्न' । आदयति, खादयति वा अन्नं बटुना ।
(वा०) 'भक्षेरहिंसार्थस्य न'। भक्षयत्न्नं बटुना । अहिंसार्थस्य किम् ? भक्षयति बलीवर्दान्सस्यम् ।
(वा०) 'जल्पतिप्रभृतीनामुपसङ्ख्यानम्' । जल्पयति भाषयति वा धर्मं पुत्रं देवदत्तः ।
(वा०) 'दृशेश्च' । दर्शयति हरिं भक्तान् । सूत्रे ज्ञानसामान्यार्थानामेव ग्रहणं, न तु तद्विशेषार्थानामित्यनेन ज्ञाप्यते । तेन स्मरति जिघ्रति इत्यादीनां न । स्मारयति घ्रापयति वा देवदत्तेन ।
(वा०) 'शब्दायतेर्न' (वा० 1105) ! शब्दाययति देवदत्तेन । धात्वर्थसङ्ग्रहीत कर्मत्वेनाकर्मकत्वात्प्राप्तिः । येषां देशकालादिभिन्नं कर्म न सम्भवति तेऽत्राऽकर्मकाः, न त्वविवक्षितकर्माणोऽपि । तेन 'मासमासयति देवदत्तम्' इत्यादौ कर्मत्वं भवति, 'देवदत्तेन पाचयति' इत्यादौ तु न ।
(10) हृक्रोरन्यतरस्याम् (1.4.53)
ह्रकोरणौ यः कर्ता स णौ वा कर्मसज्ञः स्यात् । हारयति कारयति वा भृत्यं भृत्येन वा कटम् ।
(वा०) अभिवादिदृशोरात्मनेपदे वेति वाच्यम्' । अभिवादयते दर्शयते देवं भक्तं भक्तेन वा ।
(11) अधिशीङ्स्थाऽऽसां कर्म (1.4.46)
अधिपूर्वाणामेषामाधारः कर्म स्यात् । अधिशेते, अधितिष्ठति, अध्यास्ते वा वैकुण्ठं हरिः ।
(12) अभिनिविशश्च (1.4.47)
'अभिनि' इत्येतत्संघातपूर्वस्य विशतेराधारः कर्म स्यात् । अभिनिविशते सन्मार्गम् । 'परिक्रयणे सम्प्रदानमन्यतरस्याम्' (1.4.44) । इति सूत्राद् इह मण्डूकप्लुत्या अन्यतरस्यां ग्रहणमनुवर्त्य व्यवस्थितविभाषाश्रयणात् क्वचिन्न । पापेऽभिनिवेश: ।
(13) उपान्वध्याङ्वसः (1.4.48)
उपादिपूर्वस्य वसतेराधारः कर्म स्यात् । उपवसति, अनुवसति, अधिवसति, आवसति वा वैकुण्ठं हरिः ।
(वा०) 'अभुक्त्यर्थस्य न'। वने उपवसति ।
अथोपपदविभक्तयः
(वा०) उभसर्वतसोः कार्या धिगु' पर्यादिषु त्रिषु ।
द्वितीयामेडितान्तेषु' ततोऽन्यत्रापि दृश्यते ॥
उभयतः कृष्णं गोपाः । सर्वतः कृष्णम् । धिक् कृष्णाभक्तम् । उपर्युपरि लोकं हरिः । अध्यधि लोकम् । अधोऽधो लोकम् ।
(वा०) अमित: परितः समयानिकषाहाप्रतियोगेऽपि' । अभितः कृष्णम्। परितः कृष्णम् । ग्रामं समया । निकषा लङ्काम् । हा कृष्णाभक्तम् । तस्य शोच्यते इत्यर्थः । 'बुभुक्षितं न प्रतिभाति किञ्चित्'।
(14) अन्तराऽन्तरेण युक्ते (2.3.4)
आभ्यां योगे द्वितीया स्यात् । अन्तरा त्वां मां हरिः । अन्तरेण हरिं न सुखम् ।
इति उपपदविभक्तय: ।
(15) कर्मप्रवचनीया: (1.4.83)
इत्यधिकृत्य ।
(16) अनुर्लक्षणे (1.4.84)
लक्षणे द्योत्येऽनुरुक्तसञ्ज्ञः स्यात् । गत्युपसर्गसंज्ञापवादः ।
(17) कर्मप्रवचनीययुक्ते द्वितीया (2.3.8)
एतेन योगे द्वितीया स्यात् । पर्जन्यो जपमनुप्रावर्षत् । हेतुभूतजपोपलक्षितं वर्षणमित्यर्थः । पराऽपि हेतौ तृतीयाऽनेन बाध्यते। 'लक्षणेत्थंभूत –' इत्यादिना सिद्धे पुनः संज्ञाविधानसामर्थ्यात् ।
(18) तृतीयार्थे (1.4.85)
अस्मिन्द्योत्येऽनुरुक्तसञ्ज्ञः स्यात् । नदीम् अनु अवसिता सेना। नद्या सह सम्बद्धेत्यर्थः । 'षिञ् बन्धने' क्तः ।
(19) हीने (1.4.86)
हीने द्योत्येऽनुः प्राग्वत् । अनु हरिं सुराः । हरेर्हीना इत्यर्थः ।
(20) उपोऽधिके च (1.4.87)
अधिके हीने च द्योत्ये उपेत्यव्ययं प्राक्सञ्ज्ञं स्यात् । अधिके सप्तमी वक्ष्यते। हीने, उप हरिं सुराः ।
(21) लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः (1.4.90)
एष्वर्थेषु विषयभूतेषु प्रत्यादयः उक्तसञ्ज्ञाः स्युः । लक्षणे- वृक्षं प्रति, परि, अनु वा विद्योतते विद्युत् । इत्थंभूताख्याने – भक्तो विष्णुं प्रति, परि, अनु वा । भागे – लक्ष्मीः हरिं प्रति, परि, अनु वा हरेर्भाग इत्यर्थः । वीप्सायाम् – वृक्षं वृक्षं प्रति, परि, अनु वा सिञ्चति । अत्र उपसर्गत्वाभावात् न षत्वम् । एषु किम् – परिषिञ्चति ।
(22) अभिरभागे (1.491)
भागवर्जे लक्षणादावभिरुक्तसञ्ज्ञः स्यात् । हरिम् अभिवर्तते । भक्तो हरिम् अभि । देवं देवम् अभिसिञ्चति । अभागे किम् ? यदत्र मम अभिष्यात् तद् दीयताम् ।
(23) अधिपरी अनर्थकौ (1.4.93)
उक्तसञ्ज्ञौ स्तः । कुतोऽध्यागच्छति । कुतः पर्यागच्छति । गतिसंज्ञाबाधात् 'गतिर्गतौ' (8.1.70) इति निघातो न ।
(24) सुः पूजायाम् (1.4.94)
सुसिक्तम् । सुस्तुतम् । अनुपसर्गत्वान्न षः । पूजायां किम् ? सुषिक्तं किं तवाऽत्र । क्षेपोऽयम् ।
(25) अतिरतिक्रमणे च (1.4.95)
अतिक्रमणे पूजायां च अतिः कर्मप्रवचनीयसंज्ञः स्यात् । अति देवान् कृष्णः ।
(26) अपिः पदार्थसम्भावनाऽन्ववसर्गगर्हासमुच्चयेषु (1.4.96)
एषु द्योत्येष्वपिरुक्तसञ्ज्ञः स्यात् । सर्पिषोऽपि स्यात् । अनुपसर्गत्वाद् न षः । सम्भावनायां लिङ् । तस्या एव विषयभूते भवने कर्तृदौर्लभ्यप्रयुक्तं दौर्लभ्यं द्योतयन् अपि शब्द: स्यात् इत्यनेन सम्बध्यते। सर्पिषः इति षष्ठी तु अपि शब्दबलेन गम्यमानस्य विन्दोः अवयवाऽवयविभावसम्बन्धे । इयमेव हि 'अपि' शब्दस्य पदार्थद्योतकता नाम । द्वितीया तु नेह प्रवर्तते । सर्पिषो बिन्दुना योगो न तु अपि ना इत्युक्तत्वात् । अपि स्तुयाद् विष्णुम्-संभावनं शक्त्युत्कर्षभाविष्कर्तुम् अत्युक्तिः । अपि स्तुहि- अन्ववसर्गः कामचारानुज्ञा । धिग् देवदत्तम् । अपि स्तुयाद् वृषलम्-गर्हा । अपि सिञ्च, अपि स्तुहि समुच्चये ।
इति कर्मप्रवचनीयसंज्ञाया: अधिकार: ।
(27) कालाध्वनोरत्यन्तसंयोगे (2.3.5)
इह द्वितीया स्यात् । मासं कल्याणी । मासमधीते । मासं गुडधानाः। क्रोशं कुटिला नदी । क्रोशमधीते । क्रोशं गिरिः । अत्यन्तसंयोगे किम् ? मासस्य द्विरधीते । क्रोशस्यैकदेशे पर्वतः
इति द्वितीया विभक्तिः ।
अथ तृतीया विभक्तिः
स्वतन्त्रः कर्ता (1.4.54)
क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्त्ता स्यात् ।
साधकतमं करणम् (1.4.42)
क्रियासिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात् । 'तमप्' ग्रहणं किम् ? गङ्गायां घोषः ।
कर्त्तृकरणयोस्तृतीया (2.3.18)
अनभिहिते कर्तरि करणे च तृतीया स्यात् । रामेण बाणेन हतो बाली ।
'प्रकृत्यादिभ्य उपसंख्यानम्' (वा0) । प्रकृत्या चारुः । प्रायेण याज्ञिकः । गोत्रेण गार्ग्यः । समेनैति । विषमेणैति । द्विद्रोणेन धान्यं क्रीणाति । सुखेन दुःखेन वा याति इत्यादि ।
दिवः कर्म च (1.4.43)
दिवः साधकतमं कारकं कर्मसंज्ञं स्यात् , चात् करणसंज्ञम् । अक्षैः अक्षान् वा दीव्यति ।
अपवर्गे तृतीया (2.3.6)
अपवर्गः फलप्राप्तिः, तस्यां द्योत्यायां कालाध्वनोरत्यन्तसंयोगे तृतीया स्यात् । अह्ना क्रोशेन वा अनुवाकोऽधीतः । अपवर्गे किम् ? मासमधीतो नायातः ।
सहयुक्तेऽप्रधाने (2.3.19)
सहार्थेन युक्तेऽप्रधाने तृतीया स्यात् । पुत्रेण सहागतः पिता । एवं साकंसार्धंसमंयोगेऽपि । विनाऽपि तद्योगं तृतीया । 'वृद्धो यूना' (1.2.65) इत्यादिनिर्देशात् ।
येनाङ्गविकारः (2.3.20)
येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते ततः तृतीया स्यात् । अक्ष्णा काणः । अक्षिसम्बन्धिकाणत्वाविशिष्टः इत्यर्थः । 'अङ्गविकारः किम्' ? अक्षि काणमस्य ।
इत्थंभूतलक्षणे (2.3.21)
कञ्चित् प्रकारं प्राप्तस्य लक्षणे तृतीया स्यात् । जटाभिस्तापसः । जटाज्ञाप्यतापसत्वविशिष्ट इत्यर्थः ।
सञ्ज्ञोऽन्यतरस्यां कर्मणि (2.3.22)
सम्पूर्वस्य जानातेः कर्मणि तृतीया वा स्यात् । पित्रा पितरं वा संजानीते ।
हेतौ (2.3.23)
हेत्वर्थे तृतीया स्यात् । द्रव्यादिसाधारणं निर्व्यापारसाधारणं व हेतुत्वम् । करणत्वं तु क्रियामात्रविषयं व्यापारनियतं च । दण्डेन घटः । पुण्येन दृष्टो हरिः । फलमपीह हेतुः । अध्ययनेन वसति । 'गम्यमानाऽपि क्रिया कारक विभक्तौ प्रयोजिका' । अलं श्रमेण । श्रमेण साध्यं नास्तीत्यर्थः । इह साधनक्रियां प्रति श्रमः करणम् । शतेन शतेन वत्सान् पाययति पयः शतेन परिच्छिद्येत्यर्थः ।
'अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया' (वा० 5040)। दास्या संयच्छते कामुकः । धर्म्ये तु भार्यायै संयच्छति ।
इति तृतीया विभक्तिः ।
अथ चतुर्थी विभक्तिः
कर्मणा यमभिप्रैति स सम्प्रदानम् (1.4.32)
दानस्य कर्मणा यमभिप्रैति स सम्प्रदानसञ्ज्ञः स्यात् ।
चतुर्थी सम्प्रदाने (2.3.13)
विप्राय गां ददाति । अनभिहित इत्येव । दीयतेऽस्मै दानीयो विप्रः ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें