मंगलवार, 11 अप्रैल 2023

विभक्तीनां प्रयोगा:

 प्रथमा

         कुलं शीलं च सत्यं च प्रज्ञा तेजो धृतिर्बलम् ।

         गौरवं प्रत्ययः स्नेहो, दारिद्र्येण विनश्यति ।।


प्रथमा-द्वितीया

          गुणो भूषयते रूपं शीलं भूषयते कुलम् ।

          सिद्धिर्भूषयते विद्यां भोगो भूषयते धनम् ।।


प्रथमा-तृतीया

 मृगाः मृगैः साकमनुव्रजन्ति, गावश्च गोभिस्तुरगास्तुरङ्गैः।

मूर्खाश्च मूर्खेः सुधियः सुधीभिः, समान-शील-व्यसनेषु सख्यम्॥


चतुर्थी - प्रथमा

    दानाय लक्ष्मीः सुकृताय विद्या, चिन्ता परब्रह्म-विनिश्चयाय ।

    परोपकाराय वचांसि यस्य, वन्द्यस्त्रिलोकीतिलकः स एव ॥


पञ्चमी - प्रथमा

   विषादप्यमृतं ग्राह्यम् अमेध्यादपि काञ्चनम्।

    नीचादप्युत्तमा विद्या स्त्री-रत्नं दुष्कुलादपि ॥


षष्ठी - प्रथमा

           हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम् ।

          श्रोत्रस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनम् ॥


सप्तमी

           उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे ।

           राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः॥

कोई टिप्पणी नहीं:

शुकनासोपदेश प्रश्नोत्तरी

नोटः- यह सभी प्रश्न किसी न किसी प्रतियोगी परीक्षाओं में पूछे गये हैं । प्रश्न 1 - बाणभट्टस्य गद्ये रीतिरस्ति - पञ्चाली प्रश्न 2- शुकनासोपदेश...