मंगलवार, 11 अप्रैल 2023

बाल प्रतिज्ञा

(भविष्यत् काल/विधिलिङ्)


करिष्यामि नो सङ्गतिं दुर्जनानाम्

करिष्यामि सत्सङ्गतिं सज्जनानाम् ।

धरिष्यामि पादौ सदा सत्यमार्गे

चलिष्यामि नाहं कदाचित् कुमार्गे ॥


हरिष्यामि वित्तानि कस्यापि नाऽहम्

हरिष्यामि चित्तानि सर्वस्य चाऽहम्।

वदिष्यामि सत्यं न मिथ्या कदाचित्

वदिष्यामि मिष्टं न तिक्तं कदाचित् ॥


भविष्यामि धीरो भविष्यामि वीरः

भविष्यामि दानी स्वदेशाभिमानी ।

भविष्याम्यहं सर्वदोत्साहयुक्तः

भविष्यामि चालस्ययुक्तो न वाऽहम् ॥


सदा ब्रह्मचर्य-व्रतं पालयिष्ये

सदा देशसेवा-व्रतं धारयिष्ये ।

न सत्ये शिवे सुन्दरे जातु कार्ये 

स्वकीये पदे पृष्ठतोऽहं करिष्ये ॥


सदाऽहं स्वधर्मानुरागी भवेयम्

सदाऽहं स्वकर्मानुरागी भवेयम् ।

सदाऽहं स्वदेशानुरागी भवेयम् 

सदाऽहं स्ववेषानुरागी भवेयम् ।।


               -वासुदेव द्विवेदी 'शास्त्री'

कोई टिप्पणी नहीं:

शिव मंदिर में कछुआ और नन्दी की पूजा क्यों ?

     श्रावण मास आते ही शिव मन्दिर में शिव के भक्तगणों की भीड़ थामे नहीं थमती है। हर तरफ शिवमय वातावरण रहता है। बच्चे हों या बूढ़े सभी महादेव...