इयं भर्तृहरिशतकस्योक्ति: न्यायमावर्गालम्बिनां धीरपुरुषाणां स्वभावस्य विवरणम् उपस्थापयति । धीरपुरुषाः प्राक् सुविचार्य यं न्यायसङ्गतं मार्गं स्वीकुर्वन्ति निन्दायाम् उताहो स्तुत्यां संजातायां न परित्यजन्ति । धनसम्पत्तिः प्रवर्धताम् अथवा विनाशनम् उपगच्छतु, परन्तु धीराः न्यायसङ्गतान्मार्गात् पदमपि न विचलन्ति । मृत्युरपि अद्येव भवतु आहोस्विद् युगानां पश्चाद् भवतु, परन्तु धीरपुरुषाः नयसङ्गतं मार्ग न परिहरन्ति । “न सत्यमार्गाद् विरमन्ति धीराः" इति सूक्तिरपि इममेव अभिप्राय विशदीकरोति
भतृहरे: इयं सूक्तिः सर्वाणि क्षेत्राणि प्रभावयति । यथा हि राजा हरिश्चन्द्रः सत्यपरिपालनं सर्वाधिक न्यायसङ्गतं विभाव्य सत्यालापपरायणो बभूव । सत्यस्य रक्षायै स महतीः विपत्ती: सोढ़वापि सत्यमार्ग न जहौ। महाराजो दशरथोऽपि सत्यवचन-सिद्धान्तस्य रक्षायै सीतालक्ष्मणाभ्यां सह प्रियं पुत्रं रामं जहौ किन्तु सत्यवचनं न परित्यक्तवान् । राजा शिवि: सुविचार्य दयाव्रतम् अङ्गीकृतवान् । दानवीरः कर्णोऽपि ब्राह्मणवेशाय याचकाय इन्द्राय स्वशरीरसन्नद्धं कवचं कुण्डले च प्रायच्छत्, परन्तु अङ्गीकृतं दानव्रतं न तत्याज । महाराजो युधिष्ठिरो ऽपि सत्यस्य रक्षायै वनवासस्य अज्ञातवासस्य च महान्ति कष्टानि सोढवान् परन्तु सत्यमार्गात् पदमपि न विचचाल ।
मर्यादापुरुषोत्तमो रामोऽपि प्रजानुरञ्जनमार्गं नृपतेः कृते न्यायसङ्गतं इति कृत्वा राज्यारोहणसमये प्रजानुरञ्जनव्रतं गृहीतवान् । अत एव अधुनापि सुराज्यस्य कल्पनायां "रामराज्यम्” एव सुधियां चेतःसु सुप्रतिष्ठितम् भवति । महात्मा गान्धिरपि अस्मादेव कारणाद् भारते रामराज्यस्य स्थापनां कर्तुम् इच्छति स्म । योगिराजः कृष्णोऽपि खलानां निग्रहस्य सज्जनानां च परित्राणस्य न्याय्यं व्रत गृहीतवान् ।
स्वतन्त्रताव्रती महाराणा प्रतापोऽपि सम्राजोऽकबरस्य प्रलोभान् विहाय स्वकीयं स्वतन्त्रताव्रतं स्वपरिवारेण सार्धं तृणरोटिका: खादित्वापि न जहौ । महाराष्ट्रकेसरिणः शिववीरस्य पराक्रम क्रमं को नाम भारतीयो न जानाति यः स्वातन्त्र्य-ज्योतिः प्रज्वलनाय यावज्जीवनम् औरङ्गजेबसेनया सार्धं संघर्षं कृतवान् । झांसीमहाराज्ञी लक्ष्मीबाई अपि अङ्गीकृतं स्वतन्त्रताव्रतं रक्षन्ती यावत्प्राणं आंग्लशासकैः सह युद्ध कृतवती ।
तिलक-गान्धि-जवाहरलाल-सरदारपटेल-सुभाषचन्द्रबोस-भगतसिंह- प्रभृतयः स्वतन्त्रतासङ्ग्रामयोद्धारः अङ्गीकृतं स्वतन्त्रतासंग्रामम् आरभ्य कदापि न विरमन्ति स्म ।
अस्यां पवित्रायां भारतभुवि अन्येऽपि सहस्रशः न्यायव्रतिनो बभूवुः, ये स्वीकृतसिद्धान्तानां परिपालनाय स्वजीवनं समर्पयामासुः, परन्तु अङ्गीकृतम् न्याय्यं मार्गं न परित्यक्तवन्तः । अतो भर्तृहरिणा न्याय्य- मार्गावलम्बिनां धीरपुरुषाणां विषये समीचीनमेवोक्तं - “न्याय्यात्पथः प्रविचलन्ति पदं न धाराः" इति ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें