इयं सूक्तिः महाकविभारविविरचिते किरातार्जुनीये महाकाव्ये सुशोभते । यदा भीमसेन: 'शत्रुषु शीघ्रं प्रतिविधेयम्' इति द्रौपदीसमुदीरितां वाचं समर्थयन् समुद्योगाय महाराजं युधिष्ठिरं प्रेरयामास तदा युधिष्ठिरो भीमं परिसान्त्वयन् प्रतिवदति स्म -
सहसा विदधीत न क्रियाम्विवेकः परमापदां पदम् ।
वृणुते हि विमृश्यकारिणं
अस्मिन् पद्ये सहसापदम् अविमृश्यकरणे प्रयुक्तम् । केनचिदपि अविचारितं कार्यं न करणीयम्, यतो हि अविवेको महतीनां विपत्तीनां कारणं भवति । गुणलुब्धाः सम्पदः सुविचार्य कार्यसम्पादकस्य जनस्व वरणं कुर्वन्ति ।
इतिहासेषु पुराणेषु साहित्यग्रन्थेषु च अस्याः सूक्तेः समर्थकानि प्रचुराणि उदाहरणानि सन्ति यद् अविमृश्यकारिणो जनाः सहसा कार्यं कृत्वा विपदां वारिधौ निमग्नाः । इयं सूक्तिः अस्माकं दैनिके व्यवहारे महत्त्वपूर्णां भूमिकां निर्वहति । अत एव सर्वदैव स्मरणीया वर्तते । कैकेयो सहसा (सज्जनै: सह अविमृश्य) कोपभवनं गत्वा रामाय वनगमनं भरताय राज्यम् इति वरद्वयं याचित्वा पराविपत्ति प्राप । तेन सा विधवा भूत्वा सर्वस्यैव निन्दास्पदं बभूव। स्वपुत्रेण भरतेनापि धिक्कृता । अद्यापि सा सपत्नीदोषस्य उपमानं वर्तते । बाली मायाविनं नाम मयासुरतनयं निहत्य मासानन्तरं यदा पम्पाराजधानीं प्रतिनिवृत्तः, तदा तत्र सुग्रीवं राजसिंहासनासीनं दृष्ट्वा भृशं चुकोप । सहसा (अविमृश्य) सुग्रीवस्य कलत्रादिकं सर्वं हृत्वा तं निर्वासितवान् । इयमेव घटना तस्य तादृशस्य अन्तस्य कारणं बभूव । दुर्योधनोऽपिः द्यूतपराजितानां पाण्डवानां पत्न्या द्रौपद्या सह चीरहरणात्मकं व्यवहारं सहसा कृत्वा कालान्तरेण समूलं नाशं प्राप्तवान् । अतएव विमृश्य कार्यकरणमेव समीचीनम् ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें