श्रीमद्भगवद्गीतायां कर्मयोगस्य ज्ञानयोगस्य भक्तियोगस्य च स्थले स्थले प्रतिपादनं कृतं भगवता श्रीकृष्णेन । एतद् योगत्रयं परस्परापेक्षि वर्तते । यथा - कर्मयोगः ज्ञानयोगः सिद्ध्यै परमावश्यकः । ज्ञानयोगः कर्म-भक्तियोगी समपेक्षते । एवमेव भक्तियोगः कर्म-ज्ञानयोगी विना न सिद्धयति। भक्तियोगाद् ऋते कर्मयोगे ज्ञानयोगे वा जनस्य आस्था सुदृढा न भवति । भक्तियोग: उभयत्र संसक्तः । इत्थं विचार्यैव गोतायाम् प्रामुख्येन कर्मयोगस्य ज्ञानयोगस्य च एकत्वं समफलत्वं च प्रतिपादयता योगेश्वरेण श्रीकृष्णेनोक्तम् -
सांख्ययोगौ पृथग् बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ।।
अत्र सांख्यपदं ज्ञानवाचकम् । 'सांख्ययोगौ' इत्यस्य ज्ञानयोगः कर्मयोगश्चेत्यर्थौ स्तः। द्वावपीमौ योगौ निःश्रेयस्करौ प्राणिनाम् । एतयोर्मध्ये कर्मयोगो विशिष्यते । यथोक्तं गीतायाम् -
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते ॥
कर्मयोगस्य वैशिष्ट्यादेव श्रीकृष्णः पार्थं 'कर्मण्येवाधिकारस्ते' इत्याद्युपदिश्य योगस्थः सन् कर्माणि कुर्वित्यादिश्य सिद्ध्यसिद्धयोः समभावो योग इति परिभाषितवान् -
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धजञ्जय ।
सिद्धयसिद्धयोः समो भूत्वा समत्वं योग उच्यते ॥
'योगः कर्मसु कौशलम्' इत्यत्र कर्मसु कौशलमिति पदेन फलप्राप्ति कामनाराहित्यं साफल्यासाफल्ययोर्हर्षविषादशून्यत्वं कर्मफलनिरासाय कर्मफलस्य परमात्मने समर्पणमित्याद्यर्थाः अभिप्रेताः ।
'योगश्चित्तवृत्तिनिरोधः' इति पातञ्जलयोगसूत्रम् । अस्यार्थः स्थूलदृष्ट्या भिन्नः प्रतीयते, परमिदं सूत्रं योगः कर्मसु कौशलमित्यस्यैवाशयं विशदीकरोति । चित्तस्य वृत्तनिरोधे सत्येव हर्षविषादयोः सिद्धयसिद्धयोश्च समत्वं भवितुमर्हति ।
चित्तवृत्तेनिग्रहोऽभ्यासेन वैराग्येण च कर्तुं शक्यते । यदार्जुनो भगवतः कृष्णस्य ध्यानं मनसश्चाञ्चल्यं प्रति तस्य वायोरिव वशोकरणं दुष्करमिति कथयन् समाकर्षति स्म तदा योगेश्वरो मनसो वशीकाराय अभ्यासस्य वैराग्यस्य चावश्यकतां प्रतिपादयामास -
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥
योगसूत्रेऽपि चित्तवृत्तेनिग्रहाय अभ्यासवैराग्ययोरावश्यकता प्रवादिता - 'अभ्यासवैराग्याभ्यां तन्निरोधः' इति ।
कर्मयोगस्य महिमा कथमपि ज्ञानयोगान्न्यूनो नास्ति। यत् परमं पदं ज्ञानयोगनिरतैः प्राप्यते तदेव स्थानं कर्मयोगिभिरपि लभ्यते । अतस्तत्त्ववेत्तारो द्वावपि समानौ मानयन्ति । यथा-
यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥
योगाद् ऋते संन्यासत्वं दुष्करम् । योगयुक्तो मुनिरविलम्बेन ब्रह्म प्राप्नोति -
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति ॥
योगलग्नः तपस्विभ्यो ज्ञानिभ्यः कर्मिभ्यश्च अधिको भवति । यथा -
तपस्विभ्योऽधिको योगी
ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी
तस्माद्योगी भवार्जुन ॥
'योगी परं स्थानमुपैति चाद्यम्' इत्यादिभिर्योगिनो महान् महिमा प्रतिपादितः । योगिनो महत्त्वं वस्तुतो योगस्यैव महत्त्वं वर्तते । अत एव समोचीनं समुदीरितं 'योगः कर्मसु कौशलम्' इति ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें