(ख) दर्शन-साहित्य का विशिष्ट अध्ययन -
- ईश्वरकृष्ण, सांख्यकारिका - (मूल पाठ पढ़ने हेतु क्लिक करें)
श्रीकेशवमिश्रप्रणीता
तर्कभाषा
बालोऽपि यो न्यायनये प्रवेशम्,-अल्पेन वाञ्छत्यलसः श्रुतेन ।
संक्षिमयुक्त्यन्विततर्कभाषा, प्रकाश्यते तस्य कृते मयैषा ॥
प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्त-अवयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थानानां
तत्त्वज्ञानान्निःश्रेयसाधिगमः ।
इति न्यायस्यादिमं सूत्रम् । अस्यार्थः । प्रमाणादिषोडशपदार्थानां
तत्त्वज्ञानान्मोक्षप्राप्तिर्भवतीति । न च प्रमाणादीनां तत्त्वज्ञानं
सम्यग्ज्ञानं तावद्भवति यावदेषामुद्देशलक्षण परीक्षा न क्रियन्ते । यदाह भाष्यकारः
–
'त्रिविधा चास्य शास्त्रस्य प्रवृत्तिरुद्देशो लक्षणं
परीक्षा चेति' ।
उद्देशस्तु नाममात्रेण बस्तुसङ्कीर्तनम् । तच्चास्मिन्नेव सूत्रे कृतम् ।
लक्षणन्त्वसाधारणधर्मवचनम् । यथा गोः सास्नादिमत्त्वम् ।
लक्षितस्य लक्षणमुपपद्यते न वेति विचारः परीक्षा । तेनैते लक्षणपरीक्षे
प्रमाणादीनां तत्त्वज्ञानार्थ कर्तव्ये ।
१-प्रमाणानि
प्रमाणम्
तत्रापि प्रथममुद्दिष्टस्य प्रमाणस्य तावल्लक्षणमुच्यते । प्रमाकरणं प्रमाणम्
। अत्र च प्रमाणं लक्ष्यं, प्रमाकरणं लक्षणम् ।
ननु प्रमायाः करणं चेत् प्रमाणं तर्हि तस्य फलं वक्तव्यम् ,
करणस्य फलवत्त्वनियमात् । सत्यम् । प्रमैव फलं,
साध्यमित्यर्थः । यथा छिदाकरणस्य परशोश्छिदैव फलम् ।
प्रमा
का पुनः प्रमा, यस्याः करणं प्रमाणम् । उच्यते । यथार्थानुभवः प्रमा ।
यथार्थ इत्ययथार्थानां संशय-विपर्यय- तर्कज्ञानानां निरासः । अनुभव इति
स्मृतेनिरासः । ज्ञातविषयं ज्ञानं स्मृतिः । अनुभवो नाम स्मृतिव्यतिरिक्तं ज्ञानम्
।
करणम्
किं पुनः करणम् ? साधकतमं करणम् । अतिशयितं साधकं साधकतमं प्रकृष्टं
कारणमित्यर्थः ।
कारणम्
ननु साधकं कारणमिति पर्यायस्तदेव न ज्ञायते किन्तत्कारणमिति । उच्यते । यस्य
कार्यात् पूर्वभावो नियतोऽनन्यथासिद्धश्च तत्कारणम् । यथा तन्तुवेमादिकं पटस्य
कारणम् । यद्यपि पटोत्पत्तौ दैवादागतस्य रासभादेः पूर्वभावो विद्यते,
तथापि नासौ नियतः । तन्तुरूपस्य तु नियतः पूर्वभावोऽस्त्येव
किन्त्वन्यथासिद्धः पटरूपजननोपक्षीणत्वात्, पटं प्रत्यपि कारणत्वे कल्पनागौरवप्रसङ्गात् ।
तेनानन्यथासिद्धनियतपूर्वभावित्वं कारणत्वम् ।
अनन्यथासिद्धनियतपश्चाद्भावित्वं कार्यत्वम् । यत्तु कश्चिदाह
कार्यानुकृतान्वयव्यतिरेकि कारणमिति, तदयुक्तम् । नित्यविभूनां व्योमादीनां कालतो देशतश्च
व्यतिरेकासम्भवेनाकारणत्व प्रसङ्गात् । तञ्च कारणं त्रिविधम् । समवायि-असमवायि-निमित्त-भेदात्
। तत्र यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । यथा तन्तवः पटस्य
समवायिकारणम् । यतस्तन्तुष्वेव पटः समवेतो जायते, न तुर्यादिषु ।
ननु तन्तुसम्बन्ध इव तुर्यादिसम्बन्धोऽपि पटस्य विद्यते,
तत्कथं तन्तुष्वेव पटः समवेतो जायते न,
तुर्यादिषु ?
सत्यम् । द्विविधः सम्बन्धः संयोगः समवायश्चेति ।
तत्रायुतसिद्धयोः सम्बन्धः समवायः । अन्ययोस्तु संयोग एव । कौ पुनरयुतसिद्धौ ?
ययोर्मध्ये एकमविनश्यदपराश्रितमेवावतिष्ठते तावयुतसिद्धौ ।
तदुक्तम् –
तावेवायुतसिद्धौ द्वौ विज्ञातव्यौ ययोर्द्वयोः ॥
अनश्यदेकमपराश्रितमेवावतिष्ठते ॥
यथा
अवयवावयविनौ, गुणगुणिनौ, क्रियाक्रियावन्तौ, जातिव्यक्ती, विशेषनित्यद्रव्ये चेति । अवयव्यादयो हि
यथाक्रममवयवाद्याश्रिता एवावतिष्ठन्तेऽविनश्यन्तः । विनश्यदवस्थास्त्वनाश्रिता एवावतिष्ठन्तेऽवयव्यादयः
। यथा तन्तुनाशे सति पटः । यथा वा आश्रयनाशे सति गुणः । विनश्यत्ता तु विनाशकारण
सामग्रीसान्निध्यम् ।
तन्तुपटावप्यवयवावयविनौ, तेन तयोः सम्बन्ध: समवायोऽयुतसिद्धत्वात् । तुरीपटयोस्तु न
समवायोऽयुतसिद्धत्वाभावात् । नहि तुरी पटाश्रितैवावतिष्ठते नापि पटस्तुर्याश्रितः
। अतस्तयोः सम्बन्धः संयोग एव । तदेवं तन्तुसमवेतः पटः ।
यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । अतस्तन्तुरेव
समवायिकारणं पटस्य न तु तुर्यादि ।
पटश्च स्वगतरूपादेः समवायिकारणम् । एवं मृत्पिण्डोपि घटस्य समवायिकारणं,
घटश्च स्वगतरूपादेः समवायिकारणम् ।
ननु यदैव घटादयो जायन्ते तदैव तद्गतरूपादयोऽपि,
अतः समानकालीनत्वाद् गुणगुणिनोः सव्येतरविषाणवत्कार्यकारणभाव
एव नास्ति पौर्वापर्याभावात् । अतो न समावायिकारणं घटादयः स्वगतरूपादीनाम् ।
कारणविशेषत्वात् समवायिकारणस्य ।
अत्रोच्यते । न गुणगुणिनोः समानकालीनं जन्म,
किन्तु द्रव्यं निर्गुणमेव प्रथममुत्पद्यते पश्चात्
तत्समवेता गुणा उत्पद्यन्ते । समानकालोत्पत्तौ तु गुणगुणिनोः
समानसामग्रीकत्वाद्भेदो न स्यात् । कारण भेदनियतत्वात्कार्यभेदस्य । तस्मात्प्रथमे
क्षणे निर्गुण एव घट उत्पद्यते गुणेभ्यः पूर्वभावीति भवति गुणानां समवायिकारणम् ।
तदा कारणभेदोऽप्यस्ति । घटो हि घटं प्रति न कारणमेकस्यैव
पौर्वापर्याभावात् । न हि स एव तमेव प्रति पूर्वभावी पश्चाद्भावी चेति । स्वगुणान्
प्रति तु पूर्वभावित्याद् भवति गुणानां समवायिकारणम् ।
नन्वेवं सति प्रथमे क्षणे घटोऽचाक्षुषः स्याद्,
अरूपिद्रव्यत्वाद् वायुवत् । तदेव हि द्रव्यं चाक्षुषं,
यन्महत्वे सत्युद्भूतरूपवत् । अद्रव्यं च स्याद् गुणाश्रयत्वाभावात्
। गुणाश्रयो द्रव्यमिति हि द्रव्यलक्षणम् ।
सत्यम् । प्रथमे क्षणे घटो यदि चक्षुषा न गृह्यते का नो
हानिः । न हि सगुणोत्पत्तिपक्षेऽपि निमेषावसरे घटो गृह्यते । तेन व्यवस्थितमेतन्निर्गुण
एवं प्रथमं घट उत्पद्यते । द्वितीयादिक्षणेषु चक्षुषा गृह्यते ।
न च प्रथमे क्षणे गुणाश्रयत्वाभावाद्द्रव्यत्वापत्तिः ।
समवायिकारणं द्रव्यमिति द्रव्यलक्षणयोगात् । योग्यतया गुणाश्रयत्वाच्च । योग्यता च
गुणानामत्यन्ताभावाभावः ।
असमवायिकारणं तदुच्यते यत्समवायिकारणप्रत्यासन्नमवधृतसामर्थ्यं
तदसमवायिकारणम् । यथा तन्तुसंयोगः पटस्यासमवायिकारणम् । तन्तुसंयोगस्य गुणस्य,
पटसमवायिकारणेषु तन्तुषु गुणिषु,
समवेतत्वेन समवायिकारणे प्रत्यासन्नत्वात् ,
अनन्यथासिद्धनियतपूर्वभावित्वेन पटं प्रति कारणत्वाच्च । एवं
तन्तुरूपं पटरूपस्य असमवायिकारणम् ।
ननु पटरूपस्य पटः समवायिकारणं,
तेन तद्गतस्यैव कस्यचिद्धर्मस्यपटरूपं
प्रत्यसमवायिकारणत्वमुचितम् । तस्यैव समवायिकारणप्रत्यासन्नत्वात् । न तु
तन्तुरूपस्य । तस्य समवायिकारणप्रत्यासत्त्यभावात् ।
मैवम् । समवायिकारणसमवायिकारणप्रत्यासन्नस्यापि परम्परया समवायिकारणप्रत्यासन्नत्वात्
।
निमित्तकारणं
तदुच्यते । यन्न समवायिकारणं, नाप्यसमवायिकारणम् ।
अथ च कारणं तन्निमित्तकारणम् । यथा वेमादिकं पटस्य
निमित्तकारणम् , तदेतद् भावानामेव त्रिविधं कारणम् । अभावस्य तु निमित्तमात्रं, तस्य क्वचिदप्यसमयायात् ।
समवायस्य भावद्वयधर्मत्यात् ।
तदेतस्य त्रिविधस्य कारणस्य मध्ये यदेव कथमपि सातिशयं तदेव
करणम् । तेन व्यवस्थितमेतल्लक्षणं प्रमाकरणं प्रमाणमिति ।
यत्तु, अनधिगतार्थगन्तृ प्रमाणमिति लक्षणम् ,
तन्न, एकस्मिन्नेव घटे घटोऽयं घटोऽयमिति धारावाहिकज्ञानानां
गृहीतग्राहिणामप्रामाण्यप्रसङ्गात् ।
न
चान्यान्यक्षणविशिष्टविषयीकरणादनधिगतार्थगन्तृता । प्रत्यक्षेण सूक्ष्मकालभेदानाकलनात्
। कालभेदग्रहे हि क्रियादिसंयोगान्तानां चतुर्णां यौगपद्याभिमानो न स्यात् ।
क्रिया,
क्रियातो विभागो, विभागात् पूर्वसंयोगनाशः, ततश्चोत्तरदेशसंयोगोत्पत्तिरिति । ननु प्रमायाः कारणानि
बहूनि सन्ति प्रमातृप्रमेयादीनि । तान्यपि किं करणानि उत नेति ?
उच्यते ।
सत्यपि प्रमातरि प्रमेये च, प्रमानुत्पत्तेरिन्द्रियसंयोगादौ सति,
अविलम्बेन प्रमोत्पत्तेरत इन्द्रियसंयोगादिरेव करणम् ।
प्रमायाः साधिकत्वाविशेषेऽप्यनेनैषोत्कर्षेणास्य प्रमात्रादिभ्योऽतिशयितत्वाद-
तिशयितं साधकं साधकतमं तदेव करणमित्युक्त । अत इन्द्रियसंयोगादिरेव प्रमाकरणत्वात्
प्रमाणं न प्रमात्रादि । तानि च प्रमाणानि चत्वारि । तथा च न्यायसूत्रम् –
'प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि । इति ।
प्रत्यक्षम्
किं पुनः प्रत्यक्षम् ?
साक्षात्कारिप्रमाकरणं प्रत्यक्षम् । साक्षात्कारिणी च प्रमा सैवोच्यते या
इन्द्रियजा । सा च द्विधा सविकल्पकनिर्विकल्पकभेदात् । तस्याः करणं त्रिविधम् ।
कदाचिद् इन्द्रियं, कदाचित् इन्द्रियार्थसन्निकर्षः,
कदाचिज् ज्ञानम् ।
कदा
पुनरिन्द्रियं करणम् ? यदा निर्विकल्पकरूपा प्रमा फलम् । तथा हि,
आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन । इन्द्रियाणां वस्तुप्राप्यप्रकाशकारित्वनियमात्
। ततोऽर्थसन्निकृष्टेनेन्द्रियेण निर्विकल्पकं नामजात्यादियोजनाहीनं
वस्तुमात्रावगाहि किञ्चिदिदमिति ज्ञानं जन्यते । तस्य ज्ञानस्येन्द्रियं करणं,
छिदाया इव परशुः । इन्द्रियार्थसन्निकर्षोऽवान्तरव्यापारः
छिदाकरणस्य परशोरिव दारुसंयोगः । निर्विकल्पकं ज्ञानं फलं,
परशोरिव छिदा ।
कदा
पुनरिन्द्रियार्थसन्निकर्षः करणम् ?
यदा निर्विकल्पकानन्तरं सविकल्पकं नामजात्यादियोजनात्मकं डित्थोऽयं,
ब्राह्मणोऽयं, श्यामोऽयमिति विशेषणविशेष्यावगाहि ज्ञानमुत्पद्यते,
तदेन्द्रियार्थसन्निकर्षः करणम् । निर्विकल्पकं
ज्ञानमवान्तरव्यापारः, सविकल्पकं ज्ञानम् फलम् ।
कदा
पुनर्ज्ञानं करणम् ?
यदा, उक्तसविकल्पकानन्तरं
हानोपादानोपेक्षाबुद्धयो जायन्ते तदा निर्विकल्पकं ज्ञानं करणम् । सविकल्पकं
ज्ञानमवान्तरव्यापारः, हानादिबुद्धयः फलम् ।
तज्जन्यस्तज्जन्यजनकोऽवान्तरव्यापारः । यथा कुठारजन्यः
कुठारदारुसंयोगः कुठारजन्यच्छिदाजनकः । अत्र कश्चिदाह-सविकल्पकादीनामपीन्द्रियमेव
करणम् । यावन्ति त्वान्तरालिकानि सन्निकर्षादीनि तानि सर्वाण्यवान्तरव्यापार इति ।
इन्द्रियार्थयोस्तु
यः सन्निकर्षः साक्षात्कारिप्रमाहेतुः स षड्विध एव । तद्यथा,
संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवाय:, समवेतसमवायः विशेष्यविशेषणभावश्चेति ।
तत्र यदा
चक्षुषा घटविषयं ज्ञानं जयन्ते तदा चक्षुरिन्द्रियं, घटोऽर्थः । अनयोः सन्निकर्षः संयोग एव,
अयुतसिद्ध्यभावात् । एवं मनसाऽन्तरिन्द्रियेण यदात्मविषयकं
ज्ञानं जन्यतेऽहमिति, तदा मन इन्द्रियम्, आत्माऽर्थः, अनयोः सन्निकर्षः संयोग एव ।
कदा पुनः
संयुक्तसमवायः सन्निकर्षः ?
यदा
चक्षुरादिना घटगतरूपादिकं गृह्यते घटे श्यामं रूपमस्तीति ,
तदा चक्षुरिन्द्रियं, घटरूपमर्थः, अनयोः सन्निकर्षः संयुक्तसमवाय एव । चक्षुःसंयुक्ते घटे
रूपस्य समवायात । एवं मनसाऽऽत्मसमवेते सुखादौ गृह्यमाणे,
अयमेव सन्निकर्षः ।
घटगतपरिमाणादिग्रहे
चतुष्टयसन्निकर्षोऽप्यधिकं कारणमिष्यते । सत्यपि संयुक्तसमवाये तदभावे दूरे
परिमाणाद्यप्रहणात् । चतुष्टयसन्निकर्षो यथा । इन्द्रियावयवैर्थावयविनाम् ।,
२ इन्द्रियावयविनामर्थावयवानाम् । ३ इन्द्रियावयवैर्थावयवानाम्
। ४ अर्थावयविनामिन्द्रियावयविनां सन्निकर्ष इति ।
यदा पुनश्चक्षुषा घटरूपसमवेतं रूपत्वादिसामान्यं गृह्यते,
तदा चक्षुरिन्द्रियं, रूपत्वादिसामान्यमर्थः, अनयोः सन्निकर्पः संयुक्तसमवेतसमवाय एव ।
चक्षुःसंयुक्ते घटे रूपं समवेतं,
तत्र रूपत्वस्य समवायात् ।
कदा पुनः
समवायः सन्निकर्षः ?
यदा श्रोत्रेन्द्रियेण शब्दो गृह्यते तदा श्रोत्रमिन्द्रियं,
शब्दोऽर्थः, अनयोः सन्निकर्षः समवाय एव । कर्णेशष्कुल्यवच्छिन्नं नभः
श्रोत्रम् । श्रोत्रस्याकाशात्मकत्वाच्छब्दस्य चाकाशगुणत्वाद् गुणगुणिनोश्च
समवायात् ।
कदा पुनः
समवेतसमवायः सन्निकर्षः ?
यदा पुनः शब्दसमवेतं शब्दत्वादिकं सामान्यं
श्रोत्रेन्द्रियेण गृह्यते, तदा श्रोत्रमिन्द्रियं, शब्दत्वादि सामान्यमर्थः । अनयोः सन्निकर्षः समवेतसमवाय एवं
। श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् ।
कदा
पुनर्विशेष्यविशेषणभाव इन्द्रियार्थसन्निकर्षो भवति ?
यदा
चक्षुषा संयुक्ते भूतले घटाभावो गृह्यते 'इह भूतले घटो नास्ति' इति, तदा विशेष्यविशेषणभावः सम्बन्धः । तदा चक्षुःसंयुक्तस्य
भूतलस्य घटाद्यभावो विशेषणं, भूतलं विशेष्यम् । यदा च मनःसंयुक्त आत्मनि सुखाद्यभावो
गृह्यते 'अहं सुखरहित' इति, तदा मनःसंयुक्तस्यात्मनः सुखाद्यभावो विशेषणम् । यदा
श्रोत्रसमवेते गकारे घत्वाभावो गृह्यते तदा श्रोत्रसमवेतस्य गकारस्य घत्वाभावो
विशेषणम् ।
तदेवं संक्षेपतः
पञ्चविधसम्बन्धान्यतमसम्बन्धसम्बद्धविशेषणविशेष्यभावलक्षणेनेन्द्रियार्थसन्निकर्षेण
अभाव इन्द्रयेण गृह्यते ।
एवं
समवायोऽपि । चक्षुःसम्बद्धस्य तन्तोर्विशेषणभूतः पटसमवायो गृह्यते 'इह तन्तुषु पटसमवाय' इति ।
तदेवं षोढा सन्निकर्षो वर्णितः । संग्रहश्च –
अक्षजा प्रमितिर्द्वेधा सविकल्पाविकल्पिका ।
करणं त्रिविधं तस्याः सन्निकर्षश्च षड्विधः ॥
घट-तन्नील-नीलत्व-शब्द-शब्दत्वजातयः ।
अभावसमवायौ च ग्राह्याः सम्बन्धषट्कतः ॥
ननु निर्विकल्पकं परमार्थतः स्वलक्षणविषयं भवतु प्रत्यक्षम्
। सविकल्पकं तु शब्दलिङ्गवदनुगताकारावगाहित्वात् सामान्यविषयं कथं प्रत्यक्षमक्षजस्यैव
प्रत्यक्षत्वात् । अर्थत्य च परमार्थतः सत एव तञ्जनकत्वात् । स्वलक्षणन्तु
परमार्थतः सत, न तु सामान्यम् । तस्य प्रमाणनिरस्तविधिभावस्य
अन्यव्यावृत्यात्मनस्तुच्छत्वात् ।
मैवम् । सामान्वस्यापि वस्तुभूत्वात् । तदेवं व्याख्यातं
प्रत्यक्षम् ।
अनुमानम्
लिङ्गपरामर्शोऽनुमानम् । येन हि अनुमीयते तदनुमानम् ।
लिङ्गपरामर्शेन चानुमीयतेऽतो लिङ्गपरामर्शोऽनुमानम् । तञ्च धूमादिज्ञानमनुमितिं
प्रति करणत्वात् । अग्न्यादिज्ञानमनुमितिः । तत्करणं धूमादिज्ञानम् ।
किं
पुनर्लिङ्गं कश्च तस्य परामर्शः ?
उच्यते ।
व्याप्तिबलेनार्थगमकं लिङ्गम् । यथा धूमोऽग्नेर्लिङ्गम् । तथाहि यत्र धूमस्तत्राग्निरिति
साहचर्यनियमो व्याप्तिः । तस्यां गृहीतायामेव व्याप्तौ धूमोऽग्नि गमयति । अतो
व्याप्तिबलेनाग्न्यनुमापकत्वाद् धूमोऽग्नेर्लिङ्गम् । तस्य तृतीयं ज्ञानं परामर्शः
। तथाहि प्रथमं तावन्महानसादौ भयो भूयो धूमं पश्यन् वह्निं पश्यति । तेन भूयो दर्शनेन
धूमाग्न्योः स्वाभाविकं सम्बन्धमवधारयति, यत्र धूमस्त्राग्निरिति ।
तद्यपि
यत्र यत्र मैत्रीतनयत्वं तत्र तत्र श्यामत्वमपीति भूयो दर्शनं समानमवगम्यते,
तथापि मैत्रीतनयत्वश्यामत्वयोर्न स्वाभाविकः सम्बन्धः
किन्त्वौपाधिक एव । शाकाद्यन्नपरिणामस्योपाधेर्विद्यमानत्वात् । तथा हि श्यामत्वे
मैत्रीतनयत्वं न प्रयोजकं किन्तु शाकाद्यन्नपरिणतिभेद एव प्रयोजकः ।
प्रयोजकश्चोपाधिरित्युच्यते ।
न च धूमाग्न्योः सम्बन्धे कश्चिदुपाधिरस्ति । अस्ति चेत्,
योग्योऽयोग्यो वा । अयोग्यस्य शङ्कितुमशक्यत्वात्,
योग्यस्य चानुपलभ्यमानत्वात् । यत्रोपाधिरस्ति तत्रोपलभ्यते
। यथाग्नेर्धूमसम्बन्धे आर्द्रेन्धनसंयोगः । हिंसात्वस्य चाधर्मसाधनत्वेन सह
सम्बन्धे निषिद्धत्वमुपाधिः । मैत्रीतनयत्वस्य च श्यामत्वेन सह सम्बन्धे
शाकाद्यन्नपरिणतिभेदः ।
न चेह
धूमस्याग्निसाहचर्ये कश्चिदुपाधिरस्ति । यद्यभविष्यत्ततोऽद्रक्ष्यत्,
ततो दर्शनाभावान्नास्ति । इति तर्कसहकारिणानुपलम्भसनाथेन ।
प्रत्यक्षेणैवोपाध्यभावोऽवधार्यते । तथा च उपाध्यभावग्रहणजनित-संस्कारसहकृतेन
साहचर्यग्राहिणा प्रत्यक्षेणैव धूमाग्न्योर्व्याप्तिरवधार्यते । तेन धूमाग्न्योः
स्वाभाविक एव सम्बन्धो न त्वौपाधिकः । स्वभाविकश्च सम्वन्धो व्यातिः ।
तदनेन
न्यायेन धूमाग्न्योर्व्याप्तौ गृह्यमाणायां, महानसे यद्धूमज्ञानं तत्प्रथमम् । पर्वतादौ पक्षे यद्धूमज्ञानं
तद्द्वितीयम् । ततः पूर्वगृहीतां धूमाग्न्योर्व्याप्ति स्मृत्वा यत्र धूमस्तत्रग्निरिति
तत्रैव पर्वते पुनर्धूमं परामृशति । अस्त्यत्र पर्वते वह्निना व्याप्तो धूम इति ।
तदिदं धूमज्ञानं तृतीयम् ।
एतच्चावश्यमभ्युपेतव्यम्
। अन्यथा यत्र धूमस्तत्राग्निरित्येव स्यात् । इह तु कथमग्निना भवितव्यम् ।
तस्मादिहापि धूमोऽस्ति इति ज्ञानमन्वेषितव्यम् । अयमेव लिङ्गपरामर्शः । अनुमितिं प्रतिकरणत्वाच्चानुमानम्
। तस्मात्, अस्त्यत्र पर्वतेऽग्निरित्यनुमितिज्ञानमुत्पद्यते ।
ननु कथं
प्रथमं महानसे यद्धूमज्ञानं तन्नाग्निमनुमापयति ?
सत्यम् ।
व्याप्तेरगृहीतत्वात् । गृहीतायामेव व्याप्तावनुमित्युद्यात् । अथ
व्याम्तिनिश्चयोत्तरकालं महानस एवाग्निरनुमीयताम् ।
मैवम् ।
अग्नेदृष्टत्वेन सन्देहस्यानुदयात् । सन्दिग्धश्चार्थाऽनुमीयते । यथोक्तं
भाष्यकृता । 'नानुपलब्धे न निर्णीतेऽर्थे न्यायः प्रवर्तते किन्तु सन्दिग्धे'
।
अथ
पर्वतगतमात्रस्य पुंसो यद्धूमज्ञानं, तत् कथं नाग्निमनुमापयति? अस्ति चात्राग्निसन्देहः । साधकबाधकप्रमाणाभावेन संशयस्य
न्यायप्राप्तत्वात् ।
सत्यम् ।
अगृहीतव्याप्तेरिव गृहीतविस्मृतव्याप्तेरपि पुंसोऽनुमानानुदयेन
व्याप्तिस्मृतेरप्यनुमितिहेतुत्वात् । धूमदर्शनाच्चोद्बुद्धसंस्कारो व्याप्तिं
स्मरति । यो यो धूमवान् स सोऽग्निमान् यथा महानस इति । तेन धुमदर्शने जाते व्याप्तिस्मृतौ
भूतायां यद्धूमज्ञानं तत् तृतीयं 'धूमवांश्रायम्' इति । तदेवाग्निमनुमापयति नान्यत् । तदेवानुमानम् । स एव
लिङ्गपरामर्शः । तेन व्यवस्थितमेत – लिङ्गपरामर्शोऽनुमानमिति ।
तच्चानुमानं
द्विविधम् । स्वार्थं परार्थं चेति । स्वार्थं स्वप्रतिपत्तिहेतुः । तथा हि
स्वयमेव महानसादौ विशिष्टेन प्रत्यक्षेण धूमाग्न्योर्व्याप्तिं गृहीत्वापर्वतसमीपं
गतस्तद्गते चाग्नौ सन्दिहानः पर्वतवर्तिनीमविच्छिन्नमूला- मभ्रंलिहां धूमलेखां
पश्यन् धूमदर्शनाच्चोद्बुद्धसंस्कारो व्याप्तिं स्मरति । यत्र धूमस्तत्राग्निरिति
। ततोऽत्रापि धूमोऽस्तीति प्रतिपद्यते । तस्मादत्र पर्वतेऽअग्निरप्यस्तीति स्वयमेव
प्रतिपद्यते । तत्स्वाथानुमानम् ।
यत्तु
कश्चित् स्वयं धूमादग्निमनुमाय परं बोधयितुं पञ्चावयवमनुमान वाक्यं प्रयुङ्क्ते
तत् परार्थानुमानम् । तद्यथा पर्वतोऽग्निमान् , धूमवत्वात्, यो यो धूमवान् ससोऽग्निमान् , यथा महानसः, तथा चायं, तस्मात्तथा, इति । अनेन वाक्येन प्रतिज्ञादिमता प्रतिपादितात् पञ्चरूपोपपन्नाल्लिङ्गात्
परोऽप्यग्निं प्रतिपद्यते । तेनैतत् परार्थानुमानम् ।
अत्र पर्वतस्याग्निमत्वं साध्यं,
धूमवत्वं हेतुः । स चान्वयव्यतिरेकी,
अन्वयेन व्यतिरेकेण च व्याप्तिमत्वात् । तथा हि यत्र यत्र धूमत्वं
तत्राग्निमत्वं यथा महानसे इत्यन्वयव्याप्तिः । महानसे धूमाग्न्योरन्वयसद्भावात् ।
एवं यत्राग्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाह्रदे इतीयं व्यतिरेकव्याप्तिः
। महाह्रदे धूमाग्न्योर्व्यतिरेकस्य सद्भावदर्शनात् ।
व्यतिरेकव्याप्तेस्त्वयं क्रमः । अन्वयव्याप्तौ यद्व्याप्यं
तदभावोऽत्र व्यापकः । यच्च व्यापक तद्भावोऽत्र व्याप्य इति । तदुक्तम् –
व्याप्यव्यापकभावो हि भावयोर्यादृगिष्यसे ।
तयोरभावयोस्तस्माद् विपरीतः प्रतीयते ॥
अन्वये साधनं व्याप्यं साध्यं व्यापकमिष्यते ।
तदभावोऽन्यथा व्याप्यो व्यापकः साधनात्ययः ॥
व्याप्यस्य वचनं पूर्व व्यापकस्य ततः परम् ।
एवं परीक्षिता व्याप्तिः स्फुटीभवति तत्त्वतः ॥
तदेवं
धूमवत्त्वे हेतावन्वयेन व्यतिरेकेण च व्याप्तिरस्ति । यत्तु वाक्ये केवलमन्वयव्याप्तेरेव
प्रदर्शनं तदेकेनापि चरितार्थत्वात् । तत्राप्यन्वयस्यावक्रत्वात् प्रदर्शनम् ।
ऋजुमार्गेण सिद्ध्यतोऽर्थस्य वक्रेण साधनायोगात् । न तु व्यतिरेकव्याप्तेरभावात् ।
तदेवं
धूमवत्त्वं हेतुरन्वयव्यतिरेकी । एवमन्येऽप्यनित्यत्वादौ साध्ये कृतकत्वादयो
हेतवोऽन्वयव्यतिरेकिणो द्रष्टव्याः । यथा शब्दोऽनित्यः कृतकत्वाद्घटवत् । यत्र
कृतकत्वं तत्रानित्यत्वम् । यत्रानित्यत्वाभावस्तत्र कृतकत्वाभावो यथा गगने ।
कश्चिद्धेतुः केवलव्यतिरेकी । तद्यथा,
सात्मकत्वे साध्ये प्राणादिमत्त्वं हेतुः । यथा जीवच्छरीरं
सात्मकं प्राणादिमत्त्वात् । यत् सात्मकं न भवति तत् प्राणादिमन्न भवति । यथा घटः
। न चेदं जीवच्छरीरं तथा तस्मान्न तथेति । अत्र हि जीवच्छरीरस्य सात्मकत्वं साध्यं,
प्राणादिमत्त्वं हेतुः । च केवलव्यतिरेकी,
अन्वयव्याप्तेरभावात् । तथाहि यत् प्राणादिमत् तत् सात्मकं
यथा अमुक इति दृष्टान्तो नास्ति । जीवच्छरीरं सर्वं पक्ष एव ।
लक्षणमपि केवलव्यतिरेकी हेतुः । यथा प्रथिवीलक्षणं
गन्धवत्त्वम् । विवादपदं पृथिवीति व्यवहर्तव्यं, गन्धवत्त्वात् । यन्न पृथिवीति व्यवह्रियते तन्न गन्धवत्
यथापः ।
प्रमाणलक्षणं वा । यथा प्रमाकरणत्वम् । तथाहि,
प्रत्यक्षादिकं प्रमाणमिति व्यवहर्तव्यं प्रमाकरणत्वात् ।
यत्प्रमाणमिति न व्यवह्रियते तन्न प्रमाकरणं यथा प्रत्यक्षाभासादि । न पुनस्तथेदं,
तस्मान्न तथेति । न पुनरत्र यत्प्रमाकरणं तत्प्रमाणमिति
व्यवहर्तव्यं यथाऽमुक इत्यन्वयदृष्टान्तोऽस्ति, प्रमाणमात्रस्य पक्षीकृतत्वात् । अत्र च व्यवहारः साध्यो न
तु प्रमाणत्वं, तस्य प्रमाकरणस्वाद्धेतोरभेदेन साध्याभेददोषप्रसङ्गात् । तदेवं
केवलव्यतिरेकिणो दर्शिताः ।
कश्चिदन्यो
हेतुः केवलान्वयी । यथा शब्दोऽभिधेयः प्रमेयत्वात् । यत्प्रमेयं तदभिधेयं यथा घटः
। तथा चायं तस्मात्तथेति । अत्र शब्दस्या भिधेयत्वं साध्यं प्रमेयत्वं हेतुः ।
स च केवलान्वय्येव । यदभिधेयं न भवति तत्प्रमेयमपि न भवति
यथामुक इति व्यतिरेकदृष्टान्ताभावात् । सर्वत्र हि प्रामाणिक एवार्थो दृष्टान्तः ।
स च प्रमेयश्चाभिधेयश्चेति । एतेषां च अन्वयव्यतिरेकि-केवलान्वयि-केवलव्यतिरेकि
हेतूनां त्रयाणां मध्ये यो हेतुरन्वयव्यतिरेकी स पञ्चरूपोपपन्न एव स्वसाध्यं
साधयितुं क्षमते, नत्वेकेनापि रूपेण हीनः । तानि पञ्चरूपाणि पक्षसत्वं,
सपक्षसत्त्वं, विपक्षव्यावृत्तिः, अबाधितविषयत्वं, असत्प्रतिपक्षत्वं चेति ।
एतानि तु
पञ्चरूपाणि धूमवत्त्वादौ अन्वयव्यतिरेकिणि हेतौ विद्यन्ते । तथाहि,
धूमवत्त्वं पक्षस्य पर्वतस्य धर्मः । पर्वते तस्य विद्यमानत्वात्
। एवं सपक्षे सत्त्वम्, सपक्षे महानसे तद् विद्यत इत्यर्थः । एवं
विपक्षान्महाह्रदाद् व्यावृत्तिस्तत्र नास्तीत्यर्थः ।
एवमबाधितविषयं
च धूमवत्त्वम् तथाहि धूमवत्त्वस्य हेतोर्विषयः साध्यधर्मस्तच्चाग्निमत्त्वम्,
तत्केनापि प्रमाणेन न बाधितं न खण्डितमित्यर्थः । एवमसत्प्रतिपक्षत्वम्-असन्
प्रतिपक्षो यस्येत्यसत्प्रतिपक्षं धूमवत्त्वं हेतुः । तथाहि,
साध्यविपरीतसाधकं हेत्वन्तरं प्रतिपक्ष इत्युच्यते । स च धूमवत्त्वे
हेतौ नास्त्येवानुपलम्भात् ।
तदेवं
पञ्चरूपाणि धूमवत्त्वे हेतौ विद्यन्ते । तेनैतद् धूमवत्त्वमग्निमत्त्वस्य गमकम् ,
अग्निमत्त्वस्य साधकम् ।
अग्नेः
पक्षधर्मत्वं हेतोः पक्षधर्मताबलात् सिद्धयति । तथाहि,
अनुमानस्य द्वे अङ्गे, व्याप्तिः पक्षधर्मता च । तत्र व्याप्त्या साध्यसामान्यस्य
सिद्धिः । पक्षधर्मताबलात्तु साध्यस्य पक्षसम्बन्धित्वं विशेषः सिद्धयति ।
पर्वतधर्मेण, धूमवत्त्वेन वह्निरपि पर्वतसम्बद्ध एवानुमीयते । अन्यथा साध्यसामान्यस्य
व्याप्तिग्रहादेव सिद्धेः कृतमनुमानेन ।
यस्त्वन्योऽप्यन्वयव्यतिरेकी
हेतुः स सर्वः पञ्चरूपोपपन्न एव सद्धेतुः । अन्यथा हेत्वाभासो अहेतुरिति यावत् ।
केवलान्वयी
चतूरूपोपपन्न एव स्वसाध्यं साधयति । तस्य हि विपक्षाद् व्यावृत्तिर्नास्ति,
विपक्षाभावात् ।
केवलव्यतिरेकी
च चतूरूपोपपन्न एव । तस्य हि सपक्षे सत्त्वं नास्ति, सपक्षाभावात् ।
के पुनः
पक्ष-सपक्ष-विपक्षाः ? उच्यन्ते । सन्दिग्धसाध्यधर्मा धर्मी पक्षः । यथा
धूमानुमाने पर्वतः पक्षः । सपक्षस्तु निश्चितसाध्यधर्मा धर्मी । यथा महानसो
धूमानुमाने । विपक्षस्तु निश्चितसाध्याभाववान् धर्मी । यथा तत्रैव महाह्रद इति ।
तदेवमन्वयव्यतिरेकि-केवलान्वयि-केवलव्यतिरेकिणो
दर्शिताः ।
अतोऽन्ये हेत्वाभासाः । ते च
असिद्ध-विरुद्ध-अनैकान्तिक-प्रकरणसम-कालात्ययापदिष्टभेदात् पञ्चैव ।
१ तत्र
लिङ्गत्वेनासिद्धो हेतुरसिद्धः । तत्रासिद्धस्त्रिविधः । आश्रयासिद्धः
स्वरूपासिद्धः, व्याप्यत्वासिद्धश्चेति ।
आश्रयासिद्धो
यथा गगनारविन्दं सुरभि, अरविन्दत्वात् सरोजारविन्दवत् । अत्र गगनारविन्दमाश्रयः,
स च नास्त्येव ।
स्वरूपासिद्धो
यथा,
अनित्यः शब्दः चाक्षुषत्वात् घटवत् । अत्र चाक्षुषत्वं
हेतुः,
स च शब्दे नास्त्येव, तस्य श्रावणत्वात् ।
व्याप्यत्वासिद्धस्तु
द्विविधः । एको व्याप्तिग्राहकप्रमाणाभावात् । अपरस्तूपाधिसद्भावात् । तत्र प्रथमो
यथा,
शब्दः क्षणिकः सत्त्वात् । यत्सत् तत्क्षणिकं यथा जलधरपटलं
तथा च शब्दादिरिति । न च सत्वक्षणिकत्वयोर्व्याप्तिग्राहकं प्रमाणमस्ति ।
सोपाधिकतया व्याप्यत्वासिद्धौ उच्यमानायां क्षणिकत्वमन्यप्रयुक्तमित्यभ्युपगतं
स्यात् ।
द्वितीयो यथा क्रत्वन्तर्वर्तिनी हिंसा अधर्मसाधनं,
हिंसात्वात् , क्रतुबाह्यहिंसावत् । अत्र ह्मधर्मसाधनत्वे हिंसात्वं न
प्रयोजकं किंतु निषिद्धत्वमेव प्रयोजकम् , उपाधिरिति यावत् । तथा हि 'साध्यव्यापकत्वे सति साधनाव्यापक'
उपाधिरित्युपाधिलक्षणम् । तच्चास्ति निषिद्धत्वे ।
निषिद्धत्वं हि साध्यस्याधर्मसाधनत्वस्य व्यापकम् । यतो यत्र यत्राधर्मसाधनत्वं
तत्र तत्रावश्यं निषिद्धत्वमपीति । एवं साधनं हिंसात्यं,
न व्याप्नोति निषिद्धत्वम् । न हि यत्र यत्र हिंसात्वं तत्र
तत्रावश्यं निषिद्धत्वं, यज्ञीयपशु हिंसाया निषिद्धत्वाभावात् । तदेवं
निषिद्धत्वस्योपाधेः सद्भावादन्यप्रयुक्तव्याप्त्युपजीवि हिंसात्वं
व्याप्यत्वासिद्धमेव ।
२
साध्यविपर्ययव्याप्तो हेतुविरुद्धः । स यथा शब्दो नित्यः कृतकत्वादात्मवत् । अत्र
कृतकत्वं हि साध्यनित्यत्वविपरीतानित्यत्वेन व्याप्तम् । यत्कृतकं तदनित्यमेव,
न नित्यमित्यतो, विरुद्धं कृत कत्वमिति ।
३ सव्यभिचारोऽनैकान्तिकः । स द्विविधः,
साधारणानैकान्तिकोऽसाधारणानैकान्तिकश्चेति । तत्र
पक्षसपक्षविपक्षवृत्तिः साधारणः । यथा शब्दो नित्यः प्रमेयत्वात् व्योमवत् । अत्र
हि प्रमेयत्वं हेतुस्तञ्च नित्यानित्यवृत्ति । सपक्षाद् विपक्षाद् व्यावृत्तो यः
पक्ष एव वर्तते सोऽसाधारणानैकान्तिकः । स यथा भूर्नित्या गन्धवत्त्वात् । गन्धवत्त्वं
हि सपक्षान्नित्याद् विपक्षाच्चानित्याद् व्यावृत्तं भूमात्रवृत्ति ।
४
प्रकरणसमस्तु स एव यस्य हेतोः साध्यविपरीतसाधकं हेत्वन्तरं विद्यते । स यथा
शब्दोऽनित्यो नित्यधर्मरहितत्वात् । शब्दो नित्योऽनित्यधर्मरहितत्वादिति । अयमेव
हि सत्प्रतिपक्ष इति चोच्यते ।
५ पक्षे प्रमाणान्तरावधृतसाध्याभावो हेतुर्बाधितविषयः ।
कालात्ययापदिष्ट इति चोच्यते । यथा अग्निरनुष्णः कृतकत्वाज्जलवत् । अत्र हि
कृतकत्वस्य हेतोः साध्यमनुष्णत्वं तदभावः प्रत्यक्षेणैवावधारितः
स्पार्शनप्रत्यक्षेणैवोष्णत्वोपलम्भात् ।
इति व्याख्यातमनुमानम् ।
उपमानम्
अतिदेशवाक्यार्थस्मरणसहकृतं गोसादृश्यविशिष्टपिण्डज्ञानमुपमानम् । यथा
गवयमजानन्नपि नागरिको 'यथा गौस्तथा गवय' इति वाक्यं कुतश्चिदारण्यकात्पुरुषाच्छ्रुत्वा वनं गतो
वाक्यार्थं स्मरन् यदा गोसादृश्यविशिष्टं पिण्डं पश्यति तदा
तद्वाक्यार्थस्मरणसहकृतं गोसादृश्यविशिष्टपिण्डज्ञानमुपमानमुपमितिकरणत्वात् ।
गोसादृश्यविशिष्टपिण्डज्ञानानन्तरमयमसौ गवयशब्दवाच्यः पिण्ड इति
संज्ञासंज्ञिसम्बन्धप्रतीतिरुपमितिः । सैव फलम् । इदन्तु
प्रत्यक्षानुमानासाध्यप्रमासाधकत्वात् प्रमाणान्तरमुपमानमस्ति ।
इति व्याख्यातमुपमानम् ।
शब्दः
आप्तवाक्यं
शब्दः । आप्तस्तु यथाभूतस्यार्थस्योपदेष्टा पुरुषः । वाक्यं
त्वाकाङ्क्षायोग्यतासन्निधिमतां पदानां समूहः । अतएव 'गौरश्वः पुरुषो हस्ती' इति पदानि न वाक्यम् । परस्पराकाङ्क्षाविरहात् । 'वह्निना सिञ्चेदिति न वाक्यं योग्यताविरहात् । नह्यग्निसेकयोः
परस्परान्वययोग्यतास्ति । तथाहि अग्निनेति तृतीयया सेकरूपं कार्यं प्रति
करणत्वमग्नेः प्रतिपादितम् । न चाग्निः सेके करणीभावतुं योग्यः ।
तेन कार्यकारणभावलक्षणसम्बन्धेऽग्निसेकयोरयोग्यत्वादग्निना
सिञ्चेदिति न वाक्यम् ।
एवमेकैकशः
प्रहरे प्रहरे असहोच्चारितानि 'गामानय' इत्यादि पदानि न वाक्यम् । सत्यामपि परस्पराकाङ्क्षायां
सत्यामपि परस्परान्वययोग्यतायां परस्परसान्निध्याभावात् । यानि तु साकाङ्क्षाणि
योग्यतावन्ति सन्निहितानि पदानि तान्येव वाक्यम् । यथा-ज्योतिष्टोमेन स्वर्गकामो
यजेत् – इत्यादि । यथा च-नदीतीरे पञ्चफलानि सन्ति – इति । यथा च तान्येव गामानय – इत्यादिपदान्यविलम्बितोच्चरितानि
।
नन्वत्रापि न पदानि साकाङ्क्षाणि किन्त्वर्थाः
फलादीनामाधेयानां तीराद्याधाराकाङ्क्षितत्वात् । न च विचार्यमाणेऽर्था अपि साकाङ्क्षाः
। आकाङ्क्षाया इच्छात्मकत्वेन चेतनधर्मत्वात् ।
सत्यम् । अर्थास्तावत्
स्वपदश्रोतर्यन्योन्यविषयाकाशाजनकत्वेन साकाङ्क्षा इत्युच्यन्ते । तद्द्वारेण तत्प्रतिपादिकानि
पदान्यपि साकाङ्क्षाणीत्युपचर्यन्ते । यद्वा पदान्येवार्थान् प्रतिपाद्यार्थान्तरविषयाकाङ्क्षाजनकानीत्युपचारात्
साकाङ्क्षाणि । एवमर्थाः साकाङ्क्षाः परस्परान्वययोग्याः । तद्द्वारेण
पदान्यपि परस्परान्वययोग्यानीत्युच्यन्ते ।
सन्निहितत्वं
तु पदानामेकेनैव पुंसा अविलम्वेनोच्चरितत्वम् तब साक्षादेव पदेषु सम्भवति
नार्थद्वारा ।
तेनाऽयमर्थः सम्पन्नः । अर्थप्रतिपादनद्वारा श्रोतुः
पदान्तरविषयामर्थान्तरविषयां वाकाङ्क्षां जनयतां
प्रतीयमानपरस्परान्वययोग्यार्थप्रतिपादकानां सन्निहितानां पदानां समूहो वाक्यम् ।
पदं च वर्णसमूहः । समूहश्चात्र एकज्ञानविषयीभावः । एवं च
वर्णानां क्रमवतामाशुतरविनाशित्वेन एकदाऽनेकवर्णानुभवासम्भवात् पूर्वपूर्ववर्णाननुभूय,
अन्त्यवर्णश्रवणकाले पूर्वपूर्ववर्णानुभवजनितसंस्कारसहकृतेन
अन्त्यवर्णसम्बन्धेन पदव्युत्पादनसमयग्रहानुगृहीतेन श्रोत्रेणैकदैव सदसदनेकवर्णावगाहिनी
पदप्रतीतिर्जन्यते, सहकारिदार्ढ्यात् प्रत्यभिज्ञानवत् ।
प्रत्यभिज्ञाप्रत्यक्षे ह्यतीतापि पूर्वावस्था स्फुरत्येव । ततः पूर्वपूर्वपदानुभव-
जनितसंस्कारसहकृतेनान्त्यपदविषयेण श्रोत्रेन्द्रियेण
पदार्थप्रत्ययानुगृहीतेनानेकपदावगाहिनी वाक्यप्रतीतिः क्रियते ।
तदिदं वाक्यमाप्तपुरुषेण प्रयुक्तं सच्छब्दनामकं प्रमाणम् ।
फलन्त्वस्य वाक्यार्थज्ञानम् । तच्चैतच्छब्दलक्षणं प्रमाणं लोके वेदे च समानम् ।
लोके त्वयं विशेषो यः कश्चिदेवाप्तो भवति, न सर्वः । अतः किञ्चिदेव लौकिकं वाक्यं प्रमाणं,
यदाप्तवक्तृकम् । वेदे तु परमाप्तश्रीमहेश्वरेण कृतं
सर्वमेव वाक्यं प्रमाणं, सर्वस्यैवाप्तवाक्यत्वात् । वर्णितानि चत्वारि प्रमाणानि ।
एतेभ्योऽन्यन्न प्रमाणम्, प्रमाणस्य सतोऽत्रैवान्तर्भात् ।
अर्थापत्तिः
नन्वर्थापत्तिरपिं पृथक् प्रमाणमस्ति ।
अनुपपद्यमानार्थदर्शनात् तदुपपादकीभूतार्थान्तरकल्पनम् 'अर्थापत्तिः । तथाहि, पीनो देवदत्तो दिवा न भुङ्क्ते इति दृष्टे श्रुते वा
रात्रिभोजनं कल्प्यते । दिवाऽभुञ्जानस्य पीनत्वं रात्रिभोजनमन्तरेण नोपपद्यतेऽतः
पीनत्वान्यथानुपपत्तिप्रसूतार्थापत्तिरेव रात्रिभोजने प्रमाणम् । तच्च
प्रत्यक्षदिभ्यो भिन्नं, रात्रिभोजनस्य प्रत्यक्षाद्यविषयत्वात् ।
नैतत् । रात्रिभोजनस्यानुमानविषयत्वात् । तथाहि,
अयं देवदेत्तो रात्रौ भुङ्क्ते दिवाऽभुञ्जानत्वे सति
पीनत्वात् । यस्तु न रात्रौ भुङ्क्ते नासौ दिवाऽभुञ्जानत्वे सति पीनो,
यथा दिवा रात्रौ चाऽभुञ्जानोऽपीनो,
न चायं तथा, तस्मान्न तथेति केवलव्यतिरेक्यनुमानेनैव रात्रिभोजनस्य
प्रतीयमानत्वात् । किमर्थमर्थापत्तिः पृथक्त्वेन कल्पनीया ।
अभावः
नन्वभावाख्यमपि पृथक् प्रमाणमस्ति ।
तच्चाभावग्रहणायाङ्गीकरणीयम् । तथाहि घटाद्यनुपलब्ध्या घटाद्यभावो निश्चीयते ।
अनुपलब्धिश्चोपलब्धेरभावः । इत्यभावप्रमाणेन घटाद्यभावो गृह्यते ।
नैतत् । यद्यत्र घटोऽभविष्यत्तर्हि भूतलमिवाद्रक्ष्यदित्यादितर्कसहकारिणाऽनुपलम्भसनाथेन
प्रत्यक्षेणैवाभावप्रहणात् ।
नन्विन्द्रियाणि सम्बद्धार्थग्राहकाणि ।
तथाहीन्द्रियाणि वस्तुप्राप्यप्रकाशकारीणि ज्ञानकारणत्वादा-लोकवत्
।
यद्वा चक्षुःश्रोत्रे वस्तुप्राप्यप्रकाशकारिणी
बहिरिन्द्रियस्वात् त्यगादिवत् । त्वगादीनान्तु
प्राप्यप्रकाशकारित्वमुभयवादिसिद्धमेव ।
न चेन्द्रियाभावयोः सम्बन्धोऽस्ति संयोगसमवायौ हि सम्बन्धौ,
न च तौ तयोः स्तः । द्रव्ययोरेव संयोग इति नियमात् । अभावस्य
च द्रव्यत्वाभावात् । अयुतसिद्ध्यभावान्न समवायोऽपि ।
विशेषणविशेष्यभावश्च सम्बन्ध एव न सम्भवति
भिन्नोभयाश्रितैकत्वाभावात् । सम्बन्धो हि सम्बन्धिभ्यां भिन्नो
भवत्युभयसम्बन्ध्याश्रितश्चैकश्च । यथा भेरीदण्डयोः संयोगः । स हि भेरीदण्डाभ्यां
भिन्नस्तदुभयाश्रितश्चैकश्च । न च विशेषणविशेष्यभावस्तथा । तथाहि
दण्डपुरुषयोर्विशेषणविशेष्यभावो न ताभ्यां भिद्यते । न हि दण्डस्य
विशेषणत्वमर्थान्तरं, नापि पुरुषस्य विशेष्यत्वमर्थान्तरमपि तु स्वरूपमेव ।
अभावस्यापि विशेषणत्वाद् विशेष्यत्वाच्च । न चाभावे कस्यचित् पदार्थस्य द्रव्याद्यन्यतमस्य
सम्भवः । तस्मादभावस्य स्वोपरक्तवुद्धिजनकत्वं यत्स्वरूपं तदेव विशेषणत्वं,
न तु पदार्थान्तरम् ।
एवं व्याप्यव्यापकत्वकारणत्वादयोऽप्यूह्याः ।
स्वप्रतिबद्धबुद्धिजनकत्वं स्वरूपमेव हि व्यापकत्वमग्न्यादीनाम् । कारणत्वमपि
कार्यानुकृतान्वयव्यतिरेकि स्वरूपमेव हि तन्त्वादीनां,
नत्वर्थान्तरमभावस्यापि व्यापकत्वात्कारणत्वाच्च । नह्यभावे
सामान्यादिसम्भवः ।
तदेवं विशेषणविशेष्यभावो न विशेषणविशेष्यस्वरूपाभ्यां
भिन्नः । नाष्युभयाश्रितो, विशेषणे विशेषणभावमात्रस्य सत्त्वाद् विशेष्यभावस्याभावाद्,
विशेष्ये च विशेष्यभावमात्रस्य सद्भावाद्,
विशेषणभावस्याभावात् । नाप्येको,
विशेषणं च विशेष्यं च तयोर्भाव इति द्वन्द्वात् परं
श्रूयमाणो भावशब्दः प्रत्येकमभिसम्बध्यते । तथा च विशेषणभावो
विशेष्यभावश्चेत्युपपन्नम् । द्वावेतावेकश्च सम्बन्धः तस्माद् विशेषणविशेष्यभावो न
सम्बन्धः । एवं व्याप्यव्यापकभावादयोऽपि सम्बन्धशब्दप्रयोगस्तूभयनिरूपणीयत्वसाधर्म्येणोपचारात्
।
तथा चासम्बद्धस्याभावस्येन्द्रियेण ग्रहणं न सम्भवति ।
सत्यम् । भावावच्छिन्नत्वाद् व्याप्तेर्भावं
प्रकाशयदिन्द्रियं प्राप्तमेव प्रकाशयति, नत्वभावमपि । अभावं प्रकाशयदिन्द्रियं
विशेषणविशेष्यभावमुखेनैवेति सिद्धान्तः ।
असम्बद्धाभाभवग्रहेऽतिप्रसङ्गदोषस्तु विशेषणतयैव निरस्तः ।
समश्च परमते ।
यत्रोभयोः समो दोषः परिहारोऽपि वा समः ।
नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारणे ॥
प्रामाण्यवादः
इदमिदानीं निरूप्यते । जलादिज्ञाने जाते,
तस्य प्रामाण्यमवर्धाय कश्चिज्जलादौ प्रवर्तते । कश्चित्तु
सन्देहादेव प्रवृत्तः प्रवृत्त्युत्तरकाले जलादिप्रतिलम्भे सति
प्रामाण्यमवधारयतीति वस्तुगतिः ।
अत्र कश्चिदाह । प्रवृत्तेः प्रागेव प्रामाण्यावधारणात् ।
अस्यार्थः । येनैव यज्ज्ञानं गृह्यते तेनैव तद्गतं प्रामाण्यमपि न तु
ज्ञानग्राहकादन्यज् ज्ञानधर्मस्य प्रामाण्यस्य ग्राहकम् । तेन
ज्ञानग्राहकातिरिक्तानपेक्षत्वमेव स्वतस्त्वं प्रामाण्यस्य ज्ञानं च प्रवृत्तेः
पूर्वमेव गृहीतं कथमन्यथा प्रामाण्याप्रामाण्यसन्देहोऽपि स्यात् । अनधिगते
धर्मिणिऽसन्देहानुदयात् । तस्मात् प्रवृत्तेः पूर्वमेव
ज्ञातान्यथानुपपत्तिप्रसूतयाऽर्थापत्त्या ज्ञाने गृहीते ज्ञानगतं प्रामाण्यमप्यर्थापत्त्यैव
गृह्यते । ततः पुरुषः प्रवर्तते । न तु प्रथमं ज्ञानमात्रं गृह्यते ततः
प्रवृत्त्युत्तरकाले फलदर्शनेन ज्ञानस्य प्रामाण्यमवधार्यते ।
अत्रोच्यते । ज्ञाततान्यथानुपपत्तिप्रसूतयाऽर्थापत्त्या
ज्ञानं गृह्यते इति यदुक्तं तदेव वयं न मृष्यामहे तया प्रामाण्यग्रहस्तु दूरत एव ।
तथा हि इदं किल परस्याभिमतम् । घटादिविषये ज्ञाने जाते 'मया ज्ञातोऽयं घटः' इति घटस्य ज्ञातता प्रतिसन्धीयते । तेन ज्ञाने जाते सति
ज्ञातता नाम कश्चिद्धर्मो जात इत्यनुमीयते । स च ज्ञानात्पूर्वमजातत्वात्, ज्ञाने
जाते च जातत्वादन्वयव्यतिरेकाभ्यां ज्ञानेन जन्यत इत्यवधार्यते । एवं च
ज्ञानजन्योऽसौ ज्ञातता नाम धर्मो ज्ञानमन्तरेण नोपपद्यते कारणाभावे कार्यानुदयात्
। तेनार्थापत्त्या स्वकारणं ज्ञानं ज्ञाततयाऽऽक्षिप्यत इति । न चैतद्युक्तम् ।
ज्ञानविषयतातिरिक्ताया ज्ञातताया अभावात् ।
ननु ज्ञानजनितज्ञातताधारत्वमेव हि घटादेर्ज्ञानविषयत्वम् ।
तथा हि न तावत् तादात्म्येन विषयता, विषयविषयिणोर्घटज्ञानयोस्तादात्म्यानभ्युपगमात् ।
तदुत्पत्त्या तु विषयत्वे इन्द्रियादेरपि विषयत्वापत्तिः ।
इन्द्रियादेरपि तस्य ज्ञानस्योत्पत्तेः । तेनेदमनुमीयते ।
ज्ञानेन घटे किञ्चिज्जनितं येन घट एव तस्य ज्ञानस्य विषयो नान्यः । इत्यतो
विषयत्वान्यथानुपपत्तिप्रसूतयाऽर्थापत्त्यैव ज्ञाततासिद्धिः,
नतु प्रत्यक्षमात्रेण ।
मैवम् । स्वभावादेव विषयविषयितोपपत्तेः ।
अर्थज्ञानयोरेतादृश एव स्वाभाविको विशेषो येनानयोर्विषयविषयिभावः । इतरथातीतानागतयोर्विषयत्वं
न स्यात् । ज्ञानेन तत्र ज्ञातताजननासम्भवादसति धर्मिणि धर्मजननायोगात् ।
किञ्च, ज्ञातताया अपि स्वज्ञानविषयत्वात् तत्रापि
ज्ञाततान्तरप्रसङ्गस्तथा चाऽनवस्था । अथ ज्ञाततान्तरमन्तरेणापि स्वभावादेव
विषयत्वं ज्ञाततायाः । एवं चेत् तर्हि घटादावपि किं ज्ञाततयेति ।
अस्तु वा ज्ञातता तथापि तन्मात्रेण ज्ञानं गम्यते
ज्ञातताविशेषेण प्रमाणज्ञानाव्यभिचारिणा प्रामाण्यमिति कुत एव
ज्ञानग्राहकप्राह्यता प्रामाण्यस्य । अथ केनचिज्ज्ञातताविशेषेण
प्रमाणज्ञानाव्यभिचारिणा ज्ञानप्रामाण्ये सहैव गृह्येते । एवं चेदप्रामाण्येऽपि
शक्यमिदं वक्तुम् । केनचिज्ज्ञातताविशेषेण अप्रमाणज्ञानाव्यभिचारिणा
ज्ञानाप्रामाण्ये सहैव गृह्येते इत्यप्रामाण्यमपि स्वत एव गृह्यताम् ।
अथेवमप्यप्रामाण्यं परतस्तर्हि प्रामाण्यमपि परत एव
गृह्यताम् । ज्ञानग्राहकादन्यत इत्यर्थः । ज्ञानं हि मानसप्रत्यक्षेणैव गृह्यते
प्रामाण्यं पुनरनुमानेन । तथाहि जलज्ञानानन्तरं जलार्थिनः प्रवृत्तिर्द्वेधा,
फलवती, अफला चेति । तत्र या फलवती प्रवृत्तिः सा समर्था तया तज्ज्ञानस्य
याथार्थ्यलक्षणं प्रामाण्यमनुमीयते । प्रयोगश्च विवादाध्यासितं जलज्ञानं प्रमाणं,
समर्थप्रवृत्तिजनकत्वात् । यन्न प्रमाणं तन्न समर्थां
प्रवृत्तिं जनयति यथा प्रमाणाभास इति केवलव्यतिरेकी ।
अत्र च फलवत्प्रवृत्तिजनकं यज्जलज्ञानं तत्पक्षः,
तस्य प्रामाण्यं साध्यं याथार्थ्यमित्यर्थः । न तु
प्रमाकरणत्वं, स्मृत्या व्यभिचारापत्तेः । हेतुस्तु समर्थप्रवृत्तिजनकत्वं
फलवत्प्रवृत्तिजनकत्वमिति यावत् ।
अनेन तु केवलव्यतिरेक्यनुमानेनाभ्यासदशापन्नस्य ज्ञानस्य
प्रामाण्येऽवबोधिते तद्दृष्टान्तेन जलप्रवृत्तेः पूर्वमपि तज्जातीयत्वेन लिङ्गेनान्वयव्यतिरेक्यनुमानेनान्यस्य
ज्ञानस्यानभ्यासदशापन्नस्य प्रामाण्यमनुमीयते । तस्मात् परत एव प्रामाण्यं न ज्ञानग्राहकेणैव
गृह्यत इति ।
चत्वार्येव प्रमाणानि युक्तिलेशोक्तिपूर्वकम् ।
केशवो बालबोधाय यथाशास्त्रमवर्णयत् ॥
इति प्रमाणपदार्थः समाप्तः ।
प्रमेयनिरूपणम्
प्रमाणान्युक्तानि, अथ प्रमेयाण्युच्यन्ते ।
'आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु
प्रमेयम्'
इति सूत्रम् ।
तत्रात्मत्वसामान्यवानात्मा । स च
देहेन्द्रियादिव्यतिरिक्तः, प्रतिशरीरं भिन्नो नित्यो बिभुश्च । स च मानसप्रत्यक्षः । विप्रतिपत्तौ
तु बुद्ध्यादिगुणलिङ्गकः । तथा हि बुद्ध्यादयस्तावद् गुणाः अनित्यत्वे
सत्येकेन्द्रियमात्रग्राह्यत्वात् । गुणश्च गुण्याश्रित एव ।
तत्र बुद्ध्यादयो न गुणा भूतानां मानसप्रत्यक्षत्वात् । ये
हि भूतानां गुणास्ते न मनसा गृह्यन्ते यथा रूपादयः । नापि दिक्कालमनसां गुणा,
विशेषगुणत्वात् । ये हि दिक्कालादिगुणाः संख्यादयो न ते विशेषगुणास्ते
हि सर्वद्रव्यसाधारणगुणा एव । बुद्ध्यादयस्तु बिशेषगुणा, गुणत्वे
सत्येकेन्द्रियमात्रग्राह्यत्वाद्, रूपवत् अतो न दिगादिगुणाः ।
तस्मादेभ्योऽष्टभ्यो व्यतिरिक्तो बुद्ध्यादीनां गुणानामाश्रयो
वक्तव्यः स एवात्मा ।
प्रयोगश्च, बुद्धयादयः पृथिव्याद्यष्टद्रव्यव्यतिरिक्तद्रव्याश्रिताः,
पृथिव्याद्यष्टद्रव्यानाश्रितत्वे सति गुणत्वात्। यस्तु पृथिव्याद्यष्टद्रव्यव्यतिरिक्तद्रव्याश्रितो
न भवति,
नासौ पृथिव्याद्यष्टद्रव्यव्यतिरिक्तद्रव्यानाश्रितत्वे सति
गुणोऽपि भवति यथा रूपादिरिति केवलव्यतिरेकी । अन्वयव्यतिरेकी वा । तथाहि,
बुद्ध्यादयः पृथिव्याद्यष्टद्रव्यव्यतिरिक्तद्रव्याश्रिताः
पृथिव्याद्यष्टद्रव्यानाश्रितत्वे सति गुणत्वात् । यो यदनाश्रितो गुणः स
तदतिरिक्ताश्रितो भवति । यथा पृथिव्याद्यनाश्रितः शब्दः
पृथिव्याद्यतिरिक्ताकाशाश्रय इति । तथा च बुद्ध्यादयः
पृथिव्याद्यष्टद्रव्यातिरिक्ताश्रयाः ।
तदेवं पृथिव्याद्यष्टद्रव्यव्यतिरिक्तो नवमं द्रव्यमात्मा
सिद्धः । स च सर्वत्र कार्योपलम्भाद् विभुः, परममहत्परिमाणवानित्यर्थः । विभुत्वाच्च नित्योऽसौ व्योमवत्
। सुखादीनां वैचित्र्यात् प्रतिशरीरं भिन्नः ।
शरीरम्
तस्य भोगायतनमन्त्यावयवि 'शरीरम्' । सुखदुःखान्यतरसाक्षात्कारो भोगः । स च यदवच्छिन्न आत्मनि
जायते तद्भोगायतनं , तदेव शरीरम् । चेष्टाश्रयो वा शरीरम् । चेष्टा तु
हिताहितप्राप्तिपरिहारार्था क्रिया, न तु स्पन्दनमात्रम् ।
तस्य भोगायतनं अन्त्यावयवि 'शरीरम्' । यह शरीर का लक्षण किया गया है। उस आत्मा के भोग का आश्रय अन्त्य अवयवी शरीर कहलाता है।
इन्द्रियम्
शरीरसंयुक्तं ज्ञानकरणमतीन्द्रियं इन्द्रियम्'
। अतीन्द्रिमिन्द्रियमित्युच्यमाने
कालादेरपीन्द्रियत्वप्रसङ्गोऽत उक्तं ज्ञानकरणमिति ।
तथापीन्द्रियसन्निकर्षेतिप्रसङ्गोऽत उक्तं शरीरसंयुक्तमिति । शरीर संयुक्तं
ज्ञानकरणमिन्द्रियमित्युच्यमाने आलोकादेरिन्द्रियत्वप्रसङ्गोऽत उक्तमतीन्द्रियमिति
। तानि चेन्द्रियाणि षट् । घ्राणरसनचक्षुस्त्वक्श्रोत्रमनांसि ।
तत्र गन्धोपलब्धिसाधनमिन्द्रियं घ्राणम् । नासाग्रवर्ति ।
तच्च पार्थिवं गन्धवत्वाद् घटवत् । गन्धवत्वञ्च गन्धग्राहकत्वात् । यदिन्द्रियं
रूपादिषु पञ्चसु मध्ये यं गुणं गृह्णाति तदिन्द्रियं तद्गुणसंयुक्तं,
तथा चक्षु रूपग्राहकं रूपवत् ।
रसोपलब्धिसाधनमिन्द्रियं रसनम् । जिह्वाग्रवति । तच्चाप्यं
रसवत्वात् । रसवत्वञ्च रूपादिषु पञ्चसु मध्ये रसस्यैवाभिव्यञ्जकत्वाल्लालावत् ।
रूपोपलब्धिसाधनमिन्द्रियं चक्षुः । कृष्णताराग्रवर्ति ।
तच्च तैजसं, रूपादिषु पञ्चसु मध्ये रूपस्यैवाभिव्यञ्जकत्वात् प्रदीपवत् ।
स्पर्शोपलब्धिसाधनमिन्द्रियं त्वक् सर्वशरीरव्यापि । तत्तु
वायवीयं रूपादिपु पञ्चसु मध्ये स्पर्शस्यैवाभिव्यञ्जकत्वात् अङ्गसङ्गिसलिलशैत्याभिव्यञ्जकव्यजनवातवत्
।
शब्दोपलब्धिसाधनमिन्द्रियं श्रोत्रम् । तच्च
कर्णशष्कुल्यवच्छिन्नमाकाशमेव, न द्रव्यान्तरं शब्दगुणत्वात् । तदपि शब्दग्राहकत्वात् ।
यदिन्द्रियं रूपादिषु पञ्चसु मध्ये यद्गुणव्यञ्जकं तत् तद्गुणसंयुक्तं यथा
चक्षुरादि रूपग्राहकं रूपादियुक्तम् । शब्दग्राहकञ्च श्रोत्रमतः शब्दगुणकम् ।
सुखाद्युपलब्धिसाधनमिन्द्रियं मनः । तञ्चाणुपरिमाणं,
हृदयान्तर्वर्ति ।
ननु चक्षुरादीन्द्रियसद्भावे किं प्रमाणम् ?
उच्यते । अनुमानमेव । तथाहि रूपाद्युपलब्धयः करणसाध्याः
क्रियात्वात्, छिदिक्रियावत् ।
अर्थाः
अर्थाः षट्पदार्थाः । ते च
द्रव्यगुणकर्मसामान्यविशेषसमवायाः । प्रमाणादयो यद्यप्यत्रैवान्तर्भवन्ति तथापि
प्रयोजनवशाद् भेदेन कीर्तनम् । तत्र समवायिकारणं द्रव्यम् । गुणाश्रयो वा । तानि च
द्रव्याणि पृथिव्यप्तेजोवाय्याकाशकालदिगात्ममनांसि नवैव ।
पृथिव्यादि द्रव्याणि
तत्र पृथिवीत्वसामान्यवती पृथिवी
काठिन्यकोमलत्वाद्यवयवसंयोगविशेषेण युक्ता । घ्राण-शरीर-मृत्पिण्ड-पाषाण-वृक्षादिरूपा
। रूप-रस-गन्ध-स्पर्श-संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्व-अपरत्व-गुरुत्व-द्रवत्व-संस्कारवती
। सा च द्विविधा, नित्याऽनित्या च । नित्या परमाणुरूपा । अनित्या च कार्यरूपा
। द्विविधायाः पृथिव्या रूप-रस-गन्ध-स्पर्शो अनित्याः पाकजाश्च । पाकस्तु तेजः
संयोगः,
तेन पृथिव्याः पूर्व रूपादयो नश्यन्त्यन्ये जन्यन्त इति
पाकजाः ।
अप्त्वसामान्ययुक्ता आपः ।
रसनेन्द्रियशरीरसरित्समुद्रहिमकरकादिरूपाः । गन्धवर्जस्नेहयुक्तपूर्वोक्तगुणवत्यः
। नित्या अनित्याश्च । नित्यानां रूपादयो नित्या एव । अनित्यानां रूपादयोऽनित्या
एव ।
तेजस्वसामान्यवत् तेजः । चक्षुःशरीरसवितृसुवर्णवह्निविद्युदादिप्रभेदम्
। रूप-स्पर्श-संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्वाऽपरत्व-द्रवत्व-संस्कारवत्
। नित्यमनित्यञ्च पूर्ववत् । तच्चतुर्विधम् ।
१. उद्भूतरूपस्पर्शम् । २. अनुद्भूतरूपस्पर्शम् । ३.
अनुद्भूतरूपमुद्भूतस्पर्शम् । ४. उद्भूतरूपमनुद्भूतस्पर्शञ्चेति ।
उद्भूतरूपस्पर्श यथा सौरादितेजः पिण्डीभूतं तेजो वह्न्यादिकम्
।
सुवर्णन्तु उद्भूताभिभूतरूपस्पर्शम् । तदनुद्भूतरूपत्वेऽचाक्षुषं
स्यात्,
अनुद्भूतस्पर्शत्वे त्वचा न गृह्येत ।
अभिभवस्तु बलवत्सजातीयेन पार्थिवरूपेण स्पर्शन च कृत: ।
अनुद्भूतरूपस्पर्शं तेजो यथा चक्षुरिन्द्रियम् ।
अनुद्भूतरूपमुद्भूतस्पर्शं यथा तप्तवारिस्थं तेजः । उद्भूतरूपमनुद्भूतस्पर्शं यथा प्रदीपप्रभामण्डलम्
।
वायुत्वाभिसम्बन्धवान् वायुः ।
त्वगिन्द्रियप्राणवातादिप्रभेदः । स्पर्श संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्व-अपरत्व-वेगवान्
। स च स्पर्शाद्यनुमेयः । तथाहि योऽयं वायौ वाति, अनुष्णाशीतस्पर्श उपलभ्यते स गुणत्वाद्
गुणिनमन्तरेणानुपपद्यमानो गुणिनमनुमापयति । गुणी च वायुरेव । पृथिव्याद्यनुपलब्धेः
। वायुपृथिवीव्यतिरेकेण अनुष्णाशीतस्पर्शाभावात् । स च द्विविधो नित्याऽनित्यभेदात्
। नित्यः परमाणुरूपो वायुः, अनित्यः कार्यरूप एव ।
कार्यद्रव्याणामुत्पत्तिविनाशक्रमः
तत्र पृथिव्यादीनां चतुर्णां
कार्यद्रव्याणामुत्पत्तिविनाशक्रमः कथ्यते द्वयोः परमाण्वोः क्रियया संयोगे सति
द्वयणुकमुत्पद्यते । तस्य परमाणु समवायिकारणं, तत्संयोगोऽसमवायिकारणम्, अदृष्टादि निमित्तकारणम् । ततो द्वयणुकानां त्रयाणां
क्रियया संयोगे सति त्र्यणुकमुत्पद्यते । तस्य द्वयणुकानि समवायिकारणं,
शेषं पूर्ववत् । एवं त्र्यणुकैश्चतुर्भिश्चतुरणुकम् ।
चतुरणुकैरपरं स्थूलतरं, स्थूलतरैरपरं स्थूलतमम् । एवं क्रमेण महापृथिवी,
महत्य आपो, महत् तेजो, महांश्च वायुरुत्पद्यते । कार्यगता रूपादयः
स्वाश्रयसमवायिकारणगतेभ्योरूपादिभ्यो जायन्ते । 'कारणगुणा हि कार्यगुणानारभन्ते'
इति न्यायात् ।
इत्थमुत्पन्नस्य रूपादिमतः कार्यद्रव्यस्य घटादेरवयवेषु
कपालादिषु नोदनादभिघाताद्वा क्रिया जायते । तया
विभागस्तेनावयव्यारम्भकस्यासमवायिकारणीभूतस्य संयोगस्य नाशः क्रियते,
ततः कार्यद्रव्यस्य घटादेरवयविनो नाशः ।
एतेनावयव्यारम्भकासमवायिकारणनाशे द्रव्यनाशो दर्शितः ।
क्वचित् समवायिकारणनाशे द्रव्यनाशो यथा पूर्वोक्तस्यैव
पृथिव्यादेः संहारे सञ्जिहीर्षोर्महेश्वरस्य सञ्जिहीर्षा जायते । ततो द्वयणुकारम्भकेषु
परमाणुषु क्रिया, तया विभागः, ततस्तयोः संयोगनाशे सति द्वयणुकेषु नष्टेषु स्वाश्रयनाशात् त्र्यणुकादिनाशः
। एवं क्रमेण पृथिव्यादिनाशः । यथा वा तन्तूनां नाशे पटनाशः । तद्गतानां रूपादीनां
स्वाश्रयनाशेनैव नाशः । अन्यत्र तु सत्येवाश्रये विरोधिगुणप्रादुर्भावेण विनाशः ।
यथा पाकेन घटादौ रूपादिनाश इति ।
परमाणुसिद्धिः
किं पुनः परमाणुसद्भावे प्रमाणम् ?
उच्यते, यदिदं जालं सूर्यमरीचिस्थं सर्वतः सूक्ष्मतमं रज उपलभ्यते
तत् स्वल्पपरिमाणद्रव्यारब्धं कार्यद्रव्यत्वाद् घटवत् । तच्च द्रव्यं कार्यमेव महद्द्रव्यारम्भकस्य
कार्यत्वनियमात् । तदेवं द्वयणुकाख्यं द्रव्यं सिद्धम् । तदपि
स्वल्पपरिमाणसमवायिकारणारब्धं कार्यद्रव्यत्वाद् घटवत् । यस्तु द्वययणुकारम्भकः स
एव परमाणुः । स चानारब्ध एव ।
ननु कार्यद्रव्यारम्भकस्य कार्यद्रव्यत्वाभिचारात् तस्य
कथमनारब्धत्वम् ? उच्यते, अनन्तकार्यपरम्परादोषप्रसङ्गात् । तथा च सत्यनन्तद्रव्यारब्धत्वाविशेषेण
मेरुसर्षपयोरपि तुल्यपरिमाणत्वप्रसङ्गः । तस्मादनारब्ध एव परमाणुः ।
द्व्यणुकादीनामवयवनियमः
द्व्यणुकं तु द्वाभ्यामेव परमाणुभ्यामारभ्यते ।
एकस्यानारम्भकत्वात्, त्र्यादिकल्पनायां प्रमाणाभावात् । त्र्यणुकं तु त्रिभिरेव
द्वयणुकैरारभ्यते । एकस्यानारम्भकत्वात् । द्वाभ्यामारम्भे
कार्यगुणमहत्त्वानुपपत्तिप्रसङ्गात् । कार्ये हि महत्त्वं कारणमहत्त्वाद्वा
कारणबहुत्वाद्वा । तत्र प्रथमस्यासम्भवाच्चरममेषितव्यम् । न च चतुरादिकल्पनायां
प्रमाणमस्ति त्रिभिरेक महत्त्वारम्भोपपत्तेरिति ।
शब्दगुणमाकाशम् ।
शब्द-संख्या-परिमाण-पृथक्त्व-संयोग-विभागवत् । एकं विभु नित्यञ्च । शब्दलिङ्गकञ्च ।
शब्दलिङ्गकत्वमस्य
कथं ?
परिशेषात् । 'प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गात् परिशिष्यमाणे
सम्प्रत्ययः परिशेषः । तथाहि शब्दस्तावद् विशेषगुणः सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वाद्
रूपादिवत् । गुणश्च गुण्याश्रित एव । न चास्य पृथिव्यादिचतुष्टयमात्मा च गुणी
भवितुमर्हति, श्रोत्रग्राह्यत्वाच्छब्दस्य । ये हि पृथिव्यादीनां गुणा न ते
श्रोत्रेन्द्रियेण गृह्यन्ते, यथा रूपादयः, शब्दस्तु श्रोत्रेण गृह्यते । न दिक्कालमनसां गुणो विशेषगुणत्वात्
|
अत एभ्योऽष्टभ्योऽतिरिक्तः शब्दगुणी एषितव्यः,
स एवाकाश इति ।
स चैको, भेदे प्रमाणाभावात् । एकत्वेनैवोपपत्तेः । एकत्वाच्चाकाशत्वं
नाम सामान्यमाकाशे न विद्यते सामान्यस्यानेकवृत्तित्वात्-विभु चाकाशम्
परममहत्परिमाणवदित्यर्थः' । सर्वत्र तत्कार्योपलब्धेः । अतएव विभु त्वान्नित्यमिति ।
कालोऽपि दिग्विपरीतपरत्वापरत्वानुमेयः । संख्या-परिमाण-पृथक्त्व-संयोग-विभागवान्
। एको नित्यो विभुश्च । कथमस्य दिग्विपरीतपरत्वापरत्वानुमेयत्वम् । उच्यते ।
सन्निहिते वृद्धे सन्निधानादपरत्वार्हे तद्विपरीतं परत्वं प्रतीयते । व्यवहिते
यूनि व्यवधानात् परत्वार्हे तद्विपरीतमपरत्वम् । तदिदं तत्तद्विपरीतं
परत्वमपरत्वञ्ज कार्यं तत्कारणस्य दिगादेरसम्भवात् कालमेव कारणमनुमापयति । स
चैकोऽपि वर्तमानातीतभविष्यत्क्रियोपाधिवशाद् वर्तमानादिव्यपदेशं लभते,
। पुरुष इव पच्यादिक्रियोपाधिवशात् पाचक-पाठकादिव्यपदेशम् ।
नित्यत्वविभुत्वे चास्य पूर्ववत् ।
कालविपरीतपरत्वापरत्वानुमेया दिक् । एका नित्या विभ्वी च ।
संख्या-परिमाण-पृथक्त्व-संयोग-विभागवती ।
पूर्वादिप्रत्ययैरनुमेया । तेषामन्यनिमित्तासम्भवात् । पूर्वस्मिन् पश्चिमे वा
देशे स्थितस्य वस्तुनस्तादवस्थ्यात् । सा चैकापि सवितुस्तत्तद्देशसंयोगोपाधिवशात्
प्राच्यादिसंज्ञां लभते ।
आत्मत्वाभिसम्बन्धवान् आत्मा । सुखदुःखादिवैचित्र्यात् प्रतिशरीरं
भिन्नः । स चोक्त एव । तस्य सामान्यगुणाः संख्यादयः पञ्च, बुद्ध्यादयो नव विशेषगुणाः ।
नित्यत्व-विभुत्वे पूर्ववत् ।
मनस्त्वाभिसम्बन्धवन्मनः । अणु, आत्मसंयोगि, अन्तरिन्द्रियम्
सुखाद्युपलब्धिकारणं नित्यञ्च । संख्याद्यष्टगुणवत् । तत्संयोगेन बाह्येन्द्रियमर्थग्राहकम्
। अतएव सर्वोपलब्धिसाधनम् । तच्च न प्रत्यक्षम्, अपित्वनुमानगम्यम्
। तथाहि सुखाद्युपलब्धयश्चक्षुराद्यतिरिक्तकरणसाध्याः, असत्स्वपि
चक्षुरादिषु जायमानत्वात् । यद्वस्तु यद्विनैवोत्पद्यते तत् तदतिरिक्तकरणसाध्यं,
यथा कुठारं विनोत्पद्यमाना पचनक्रिया तदतिरिक्तवह्न्यादिकरणसाध्या ।
यच्च करणं तन्मनः तञ्च चक्षुराद्यतिरिक्तम् । तच्चाणुपरिमाणम् । द्रव्याण्युक्तानि।
गुणाः
अथ गुणा उच्यन्ते । सामान्यवान् असमवायिकारणं स्पन्दात्मा
गुणः । स च द्रव्याश्रित एव । रूप-रस-गन्ध-स्पर्श-संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्व-अपरत्व-गुरुत्व-द्रवत्व-स्नेह-शब्द-बुद्धि-सुख-दुख-इच्छा-द्वेष-प्रयत्न-धर्म-अधर्म-संस्कार-भेदाच्चतुर्विंशतिधा
।
१- तत्र रूपं चक्षुर्मात्रग्राह्यो विशेषगुणः ।
पृथिव्यादित्रयवृत्ति । तच्च शुक्लाद्यनेकप्रकारकम् । पाकञ्च पृथिव्याम् । तच्चाऽनित्यं
पृथिवीमात्रे । आप्यतैजसपरमाण्वोर्नित्यम् । आप्यतैजसकार्येष्वनित्यम् ।
शुक्लभास्वरमपाकजं तेजसि । तदेवाभास्वरमप्सु ।
२- रसो रसनेन्द्रियग्राह्यो विशेषगुणः पृथिवीजलवृत्तिः ।
तत्र पृथिव्यां मधुरादिषट्प्रकारो मधुर-अम्ल-लवण-कटु-कषाय-तिक्त-भेदात्, पाकजश्च अप्सु मधुरोऽपाकजो नित्योऽनित्यश्च
। नित्यः परमाणुभूतास्वप्सु कार्यभूतास्वनित्यः ।
३- गन्धो घ्राणग्राह्यो विशेषगुणः । पृथिवीमात्रवृत्तिः ।
अनित्य एव । स द्विविधः सुरभिरसुरभिश्च । जलादौ गन्धप्रतिभानं तु संयुक्तसमवायेन
द्रष्टव्यम् ।
४- स्पर्शस्त्वगिन्द्रियग्राह्यो विशेषगुणः ।
पृथिव्यादिचतुष्टयवृत्तिः । स च त्रिविधः शीत-उष्ण-अनुष्णाशीतभेदात् । शीतः पयसि, उष्णस्तेजसि, अनुष्णाशीतः
पृथिवीवाय्वोः । पृथिवीमात्रे ह्यनित्यः । आप्य-तैजस-वायवीयपरमाणुषु नित्यः,
आप्यादिकार्येष्वनित्यः । एते च रूपादयश्चत्वारो
महत्त्वैकार्थसमवेतत्वे सत्युद्भूता एव प्रत्यक्षाः ।
५- संख्या एकत्वादिव्यवहारहेतुः सामान्यगुणः । एकत्वादिपरार्द्धपर्यन्ता
। तत्रैकत्वं द्विविधं नित्यानित्यभेदात् । नित्यगतं नित्यमनित्यगतमनित्यम् ।
स्वाश्रयसमवायिकारणगतैकत्वजन्यञ्च । द्वित्वञ्चानित्यमेव । तच्च द्वयोः पिण्डयोः 'इदमेकम्' इत्यपेक्षाबुद्धया
जन्यते । तत्र द्वौ पिण्डौ समवायिकारणे । पिण्डयोरेकत्वे असमवायिकारणे, अपेक्षाबुद्धिर्निमित्तकारणम् । अपेक्षाबुद्धिविनाशादेव द्वित्वविनाशः ।
एवं त्रित्वाद्युत्पत्तिर्विज्ञेया ।
६- परिमाणं मानव्यवहारासाधारणं कारणम् । तच्चतुर्विधम्, अणु, महद्, दीर्घ, ह्रस्वञ्चेति । तत्र कार्यगतं परिमाणं
सख्या-परिमाण-प्रचय-योनि । तद्यथा द्व्यणुकपरिमाणमीश्वरापेक्षाबुद्धिजन्यपरमाणुद्वित्वजनितत्वात्
संख्यायोनि, संख्याकारणकमित्यर्थः । त्र्यणुकपरिमाणञ्च
स्वाश्रयसमवायिकारणगतबहुत्वसंख्यायोनि । चतुरणुकादिपरिमाणन्तु
स्वाश्रयसमवायिकारणपरिमाणजन्यम् । तूलपिण्डपरिमाणन्तु स्वाश्रयसमवायि-कारणावयवानां
प्रशिथिलसंगोगजन्यम् । परमाणुपरिमाणञ्चाकाशादिगतं नित्यमेव ।
७- पृथक्त्वम् पृथग्यवहारासाधारणं कारणम् । तच्च द्विविधम ।
एकपृथक्त्वं द्विपृथक्त्वादिकञ्च । तत्राद्यं नित्यगतं नित्यमनित्यगतमनित्यम् ।
द्विपृथक्त्वादिकञ्चानित्यमेव ।
८- संयोगः संयुक्तव्यवहारहेतुर्गुणः । स च
द्वयाश्रयोऽव्याप्यवृत्तिश्च । स च त्रिविधः । अन्यतरकर्मजः, उभयकर्मजः, संयोगजश्चेति
। तत्रान्यतरकर्मजो यथा क्रियावता श्येनेन सह निष्क्रियस्य स्थाणोः संयोगः । अस्य
हि श्येनक्रिया असमवायिकारणम् । उभयकर्मजो यथा सक्रिययोर्मल्लयोः संयोगः । संयोगजो
यथा कारणाकारणसंयोगात् कार्याकार्यसंयोगः । यथा हस्ततरुसंयोगेन कायतरुसंयोगः ।
६- विभागोऽपि विभक्तप्रत्ययहेतुः । संयोगपूर्वको द्वयाश्रयः
। स च त्रिविधोऽन्यतरकर्मजः, उभयकर्मजो विभागजश्चेति । तत्र प्रथमो यथा श्येनक्रियया शैलश्येनयोर्विभागः
। द्वितीयो यथा मल्लयोर्विभागः । तृतीयो यथा हस्ततरुविभागात् कायतरुविभागः ।
द्वित्वे च पाकजोपत्तौ विभागे च विभागजे ।
यस्य न स्खलिता बुद्धिस्तं वै वैशेषिकं विदुः ॥
१०-११- परत्वापरपरत्वे परापरव्यवहारासाधारणकारणे । ते तु
द्विविधे दिक्कृते कालकृते च । तत्र दिक्कृतयोरुत्पत्तिः कथ्यते । एकस्यां
दिश्यवस्थितयोः पिण्डयोरिदमस्मात् सन्निकृष्टमिति बुद्ध्यानुगृहीतेन दिक्पिण्डसंयोगेनापरत्वं
सन्निकृष्टे जन्यते । विप्रकृष्टबुद्ध्या तु परत्वं विप्रकृष्टे जन्यते ।
सन्निकर्षस्तु पिण्डस्य द्रष्टुः शरीरापेक्षया संयुक्तसंयोगाल्पीयस्त्वम् । तद्भूयस्त्वं
विप्रकर्ष इति ।
कालकृतयोस्तु परत्वापरत्वयोरुत्पत्तिः कथ्यते ।
अनियतदिगवस्थितयोर्युवस्थविरपिण्डयोः 'अयमस्मादल्पतरकालसम्बद्धः' इत्यपेक्षाबुद्ध्यानुगृहीतेन
कालपिण्डसंयोगेनासमवायिकारणेन यूनि, अपरत्वम् । 'अयमस्माद् बहुतरकालेन सम्बद्धः' इति धिया स्थविरे
परत्वम् ।
१२- गुरुत्वमाद्यपतनासमवायिकारणम् । पृथिवीजलवृत्ति यथोक्तं-संयोग-वेग-प्रयत्नाभावे
सति गुरुत्वात् पतनमिति ।
१३- द्रवत्वमाद्यस्यन्दनासमवायिकारणम् । भूतेजोजलवृत्ति । भूतेजसोर्घृतादिसुवर्णयोरग्निसंयोगेन
द्रवत्वं नैमित्तिकम् । जले नैसर्गिक द्रवत्वम् ।
१४- स्नेहश्चिक्कणता । जलमात्रवृत्तिः, कारणगुणपूर्वको, गुरुत्वादिवद्
यावद्द्रव्यभावी ।
१५- शब्दः श्रोत्रग्राह्यो गुणः । आकाशस्य विशेषगुणः ।
ननु कथमस्य श्रोत्रेण ग्रहणं यतो भेर्यादिदेशे शब्दो जायते
श्रोत्रन्तु पुरुषदेशेऽस्ति । सत्यम् । भेरीदेशे जातः शब्दो वीचीतरङ्गन्यायेन
कदम्बमुकुलन्यायेन वा सन्निहितं शब्दान्तरमारभते । स च शब्दः शब्दान्तरमितिक्रमेण
श्रोत्रदेशे जातोऽन्त्यः शब्दः श्रोत्रेण गृह्यते न त्वाद्यो नापि मध्यमः । एवं
वंशे पाट्यमाने दलद्वयविभागदेशे जातः शब्दः शब्दान्तरारम्भक्रमेण
श्रोत्रदेशेऽन्त्यं शब्दं जनयति । सोऽन्त्यः शब्दः श्रोत्रेण गृह्यते नाद्यो न
मध्यमः । भेरीशब्दो मया श्रुत' इति मतिस्तु भ्रान्तैव । भेरीशब्दोत्पत्तौ भेर्याकाश-संयोगोऽसमवायिकारणं,
भेरीदण्डसंयोगो निमित्तकारणम् । एवं वंशोत्पाटनाच्चटचटाशब्दोत्पत्तौ
वंशदलाकाशविभागोऽसमवायिकारणं, दलद्वयविभागो निमित्तकारणम् ।
इत्थमाद्यः शब्दः संयोगजो विभागजो वा । अन्त्यमध्यमशब्दास्तु शब्दासमवायिकारणका
अनुकूल वातनिमित्तकारणकाः । यथोक्तं - "संयोगाद् विभागाच्छ-ब्दाञ्च शब्द
निष्पत्तिः' इति । आद्यादीनां सर्वशब्दानामाकाशमेकमेव
समवायिकारणम् । कर्मबुद्धिवत् त्रिक्षणावस्थायित्वम् । तत्राद्यमध्यमशब्दाः
कार्यशब्दनाश्याः । अन्त्यस्तूपान्त्वेन उपान्तस्त्वन्त्येन सुन्दोपसुन्दन्यायेन
विनश्येते । इदं त्वयुक्तम् । उपान्त्येन त्रिक्षणावस्थायिनोऽन्त्यस्य, द्वितीयक्षणमात्रानुगामिना तृतीयक्षणे चासताऽन्त्यनाशजननासम्भवात् ।
तस्मादुपान्त्यनाशादेवान्त्यनाश इति । विनाशित्वञ्च शब्दस्यानुमानत् । तथाहि,
अनित्यः शब्दः सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वाद्
घटवदिति । शब्दस्यानित्यत्वं साध्यम् । अनित्यत्वञ्च विनाशावच्छिन्नस्वरूपत्वं,
न तु विनाशावच्छिन्नसत्तायोगित्वं, प्रागभावे
सत्ताहीनेऽनित्यत्वाभावप्रसङ्गात् । सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वं
हेतुः । इन्द्रियग्राह्यत्वादित्युच्यमाने आत्मनि व्यभिचारः स्यादत उक्तं बाह्येति
। एवमपि तेनैव योगिबाह्येन्द्रियेण ग्राह्ये परमाण्वादौ व्यभिचारः स्यादतो
योगिनिरासार्थमुक्तमस्मदादीति ।
किं
पुनर्योगिसद्भावे प्रमाणम् ?
उच्यते । परमाणवः कस्यचित् प्रत्यक्षाः प्रमेयत्वाद्
घटवदिति । तथापि सामान्यादिना व्यभिचारोऽत उक्तं सामान्यवत्त्वे सतीति ।
सामान्यादित्रयस्य निःसामान्यत्वात् ।
१६- अर्थप्रकाशो
बुद्धिः । नित्याऽनित्या च । ऐशी बुद्धिर्नित्या, अन्यदीया त्वनित्या ।
१७- प्रीतिः
सुखम् । तच्च सर्वात्मनामनुकूलवेदनीयम् ।
१८- पीडा
दुःखम् । तच्च सर्वात्मनां प्रतिकूलवेदनीयम् ।
१९- राग
इच्छा ।
२०- क्रोधो
द्वेषः ।
२१- उत्साहः प्रयत्नः ।
बुद्ध्यादयः
षड् मानसप्रत्यक्षाः ।
२-२३- धर्माऽधर्मौ सुखदुःखयोरसाधारणकारणे । तौ
चाप्रत्यक्षावप्यागमगम्यावनुमानगम्यौ च । तथाहि देवदत्तस्य शरीरादिकं
देवदत्तविशेषगुणजन्यं कार्यत्वे सति देवदत्तस्य भोगहेतुत्वात् ।
देवदत्तप्रयत्नजन्यवस्तुवत् । यश्च शरीरादिजनक आत्मविशेषगुणः स एव धर्मोऽधर्मश्च ।
प्रयत्नादीनां शरीराद्यजनकत्वादिति ।
२४- संस्कारव्यवहाराऽसाधारणं
कारणं संस्कारः ।
संस्कारस्त्रिविधो
वेगो भावना स्थितिस्थापकश्च । तत्र वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः । स च
क्रियाहेतुः। भावनाख्यस्तु संस्कार आत्ममात्रवृत्तिरनुभवजन्यः स्मृतिहेतुः । स
चोद्बुद्ध एव स्मृतिं जनयति । उद्बोधश्च सहकारिलाभः । सहकारिणश्च संस्कारस्य सदृशदर्शनादयः
। तथा चोक्तम् –
'सादृश्यादृष्टचिन्ताद्याः स्मृतिबीजस्य
बोधकाः ।'
इति । स्थितिस्थापकस्तु
स्पर्शवद्द्रव्यविशेषवृत्तिः । अन्यथाभूतस्य स्वाश्रयस्य धनुरादेः
पुनस्तादवस्थ्यापादकः । एते च बुद्ध्यादयोऽधर्मान्ता भावना च आत्मविशेषगुणाः ।
गुणा उक्ताः ।
कर्माणि
कर्माणि उच्यन्ते । चलनात्मकं कर्म, गुण इव द्रव्यमात्रवृत्ति । अविभुद्रव्यपरिमाणेन
मूर्तत्वापरनाम्ना सहैकार्थसमवेतं विभागद्वारा पूर्वसंयोगनाशे
सत्युत्तरदेशसंयोगहेतुश्च । तच्च उत्क्षेपण-अपक्षेपण-आकुञ्चन- प्रसारण-गमनभेदात् पञ्चविधम्
। भ्रमणादयस्तु गमनग्रहणेनैव गृह्यन्ते ।
सामान्यम्
अनुवृत्तिप्रत्ययहेतुः सामान्यम् । द्रव्यादित्रयवृत्ति, नित्यमेकमनेकानुगतञ्च । तच्च द्विविधं,
परमपरञ्च । परं सत्ता बहुविषयत्वात् । सा
चानुवृत्तिप्रत्ययमात्रहेतुत्वात् सामान्यमात्रम् । अपरं द्रव्यत्वादि ।
अल्पविषयत्वात् । तञ्च व्यावृत्तेरपि हेतुत्वात् सामान्यं सद् विशेषः ।
अत्र कश्चिदाह 'व्यक्तिव्यतिरिक्तं सामान्यं नास्ति' इति
। तत्र वयं ब्रूमः किमालम्बना तर्हि भिन्नेषु विलक्षणेषु पिण्डेष्वेकाकारा
बुद्धिर्विना सर्वानुगतमेकम् । यश्च तदालम्बनं तदेव सामान्यमिति ।
ननु तस्याऽतद्व्यावृत्तिकृतैवैकाकारा बुद्धिरस्तु । तथाहि, सर्वेष्वेव हि गोपिण्डेषु, अगोभ्योऽश्वादिभ्यो व्यावृत्तिरस्ति । तेनागोव्यावृत्तिबिषय एवायमेकाकारः
प्रत्ययोऽनेकेषु, न तु विधिरूपगोत्वसामान्यविषयः । मैवम्।
विधिमुखेनैवैकाकारस्फुरणात् ।
विशेषः
विशेषो नित्यो नित्यद्रव्यवृत्तिः ।
व्यावृत्तिबुद्धिमात्रहेतुः । नित्यद्रव्याणि त्वाकाशादीनि पञ्च । पृथिव्यादयश्चत्वारः
परमाणुरूपाः ।
समवाय
अयुतसिद्धयोः सम्बन्धः समवायः । स चोक्त एव । नन्ववयवावयविनावष्ययुतसिद्धौ
तेन तयोः सम्बन्ध: समवाय इत्युक्तम् । न चैतद् युक्तम् ।
अत्रयवातिरिक्तस्यावयविनोऽभावात् । परमाणव एव बहवस्तथाभूताः सन्निकृष्टाः घटोऽयं
घटोऽयमिति गृह्यन्ते ।
अत्रोच्यते । अस्त्येकः स्थूलो घट इति प्रत्यक्षा बुद्धिः ।
न च सा परमाणुष्वनेकेष्वस्थूलेष्वतीन्द्रियेषु भवितुमर्हति । भ्रान्तेयं
बुद्धिरिति चेत् । न । बाधकाभावात् ।
तदेवं षट्पदार्था द्रव्यादयो वर्णिताः । ते च
विधिमुखप्रत्ययवेद्यत्वाद् भावरूपा एव ।
अभावरूपः सप्तमः पदार्थः
इदानीं निषेधमुखप्रमाणगम्योऽभावरूपः सप्तमः पदार्थः
प्रतिपाद्यते । स च अभावः संक्षेपतो द्विविधः । संसर्गाभावोऽन्योऽन्याभावश्चेति ।
संसर्गाभावोऽपि त्रिविधः । प्रागभावः, प्रध्वंसाभावोऽत्यन्ताभावश्चेति ।
उत्पत्तेः प्राक् कारणे कार्यस्याभावः प्रागभावः । यथा
तन्तुषु पटाभावः । स चानादिरुत्पत्तेरभावात् । विनाशी च, कार्येस्यैव तद्विनाशरूपत्वात् ।
उत्पन्नस्य कारणेऽभावः प्रध्वंसाभावः । प्रध्वंसो विनाश इति
यावत् । यथा भग्ने घटे कपालमालायां घटाभावः । स च मुद्गप्रहारादिजन्यः । स
चोत्पत्तिमानप्यविनाशी नष्टस्य कार्यस्य पुनरनुत्पत्तेः ।
त्रैकालिकोऽभावोऽत्यन्ताभावः । यथा वायौ रूपाभावः । अन्योन्याभावस्तु
तादात्म्यप्रतियोगिताकोऽभावः । 'घटः पटो न भवति' इति । तदेवमर्था व्याख्याताः ।
विज्ञानवादनिरासः
ननु ज्ञानाद् ब्रह्मणो वा अर्था व्यतिरिक्ता न सन्ति । मैवम्
। अर्थानामपि प्रत्यक्षादिसिद्धत्वेनाशक्यापलापत्वात् ।
५ बुद्धिः
बुद्धिरुपलब्धिर्ज्ञानं प्रत्यय इत्यादिभिः
पर्यायशब्दैर्याऽभिधीयते सा बुद्धिः । अर्थप्रकाशो वा बुद्धिः । सा च संक्षेपतो
द्विविधा । अनुभव: स्मरणं च । अनुभवोऽपि द्विविधो, यथार्थोऽयथार्थश्चेति ।
तत्र यथार्थोऽर्थाऽविसंवादी । स च
प्रत्यक्षादिप्रमाणैर्जन्यते । यथा चक्षुरादिभिरदुष्टैर्घटादिज्ञानम् । धूमलिङ्गकमग्निज्ञानम्
। गोसादृश्यदर्शनाद् गवयशब्दवाच्यताज्ञानम् । 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यादि
वाक्याज्ज्योतिष्टोमस्य स्वर्गसाधनताज्ञानञ्च ।
अयथार्थस्तु अर्थव्यभिचारी, अप्रमाणजः । स त्रिविधः । संशयस्तर्को विपर्ययश्चेति, संशयतर्कौ वक्ष्येते ।
विपर्ययस्तु अतस्मिंस्तद्ग्रहः । भ्रम इति यावत् । यथा
पुरोवर्तिन्यरजते शुक्तिकादौ रजतारोपः, 'इदं रजतम्' इति । स्मरणमपि
यथार्थमयथार्थश्चेति द्विविधम् । तदुभयं जागरे । स्वप्ने तु सर्वं ज्ञानं
स्मरणमयथार्थञ्च । दोषवशेन तदिति स्थाने इदमित्युदयात् ।
सर्वञ्च ज्ञानं निराकारमेव न तु ज्ञानेऽर्थेन स्वस्याकारो
जन्यते । साकारज्ञानवादनिराकरणात् । अत एवाकारेणार्थानुमानमपि निरस्तम् ।
प्रत्यक्षसिद्धत्वाद् घटादेः । सर्वं ज्ञानमर्थनिरूप्यं, अर्थप्रतिबद्धस्यैव तस्य मनसा निरूपणात् ।
घटज्ञानवानहं, इत्येतावन्मात्रं गम्यते न तु 'ज्ञानवानहम्' इत्येतावन्मात्रं ज्ञायते ।
६ मनः
अन्तरिन्द्रियं मनः । तच्चोक्तमेव ।
७ प्रवृत्तिः
प्रवृत्तिः धर्माधर्ममयी यागादिक्रिया, तस्या जगद् व्यवहारसाधकत्वात् ।
८ दोषाः
दोषा राग-द्वेष-मोहाः । राग इच्छा । द्वेषो मन्युः, क्रोध इति यावत् । मोहो मिथ्याज्ञानं
विपर्यय इति यावत् ।
९ प्रेत्यभावः
पुनरुत्पत्तिः प्रेत्यभावः । स चात्मनः पूर्वदेहनिवृत्तिः, अपूर्व देहसङ्घातलाभः ।
१० फलम्
फलं पुनर्भोगः सुखदुःखान्यतरसाक्षात्कारः ।
११ दुःखम्
पीडा दुःखम् । तच्चोक्तमेव ।
१२ अपवर्गः
मोक्षोऽपवर्गः । स चैकविंशतिप्रभेदभिन्नस्य
दुःखस्यात्यन्तिकी निवृत्तिः। एकविंशतिभेदास्तु शरीरं, षडिन्द्रियाणि, षड्
विषयाः, षड् बुद्धयः, सुखं दुःखञ्चेति
गौणमुख्यभेदात् सुखं तु दुःखमेव दुःखानुषङ्गित्वात् । अनुषङ्गोऽविनाभावः । स
चायमुपचारो मधुनि विषसंयुक्ते मधुनोऽपि विषपक्षनिक्षेपवत् । स पुनरपवर्गः कथं भवति
? उच्यते । शास्त्राद् विदितसमस्तपदार्थत्त्वस्य, विषयदोषदर्शनविरक्तस्य मुमुक्षोर्ध्यायिनो ध्यानपरिपाकवशात्
साक्षात्कृतात्मनः क्लेशहीनस्य, निष्कामकर्मानुष्ठानादनागतधर्माऽधर्मावनर्जयतः
पूर्वोपात्तञ्च धर्माऽधर्मप्रचयं योगर्द्धिप्रभावाद् विदित्वा, समाहृत्य भुञ्जानस्य पूर्वकर्मनिवृत्तौ वर्तमानशरीरापगमे पूर्वशरीराभावाच्छरीराद्येकविंशतिदुःखसम्बन्धो
न भवति कारणाभावात् । सोऽयमेकविंशतिप्रभेदभिन्नदुःखहा- निर्मोक्षः । सोऽपवर्ग
इत्युच्यते ।
३ संशयः
एकस्मिन् धर्मिणि विरुद्धनानार्थावमर्शः संशयः । स च
त्रिविधः । विशेषादर्शने सति समानधर्मदर्शनजः, विप्रतिपत्तजः, असाधारणधर्मश्चेति ।
तत्रैको विशेषादर्शने सति समानधर्मदर्शनजः यथा 'स्थाणुर्वा
पुरुषो वा' इति। एकस्मिन्नेव हि पुरोवर्तिनि द्रव्ये
स्थाणुत्वनिश्चायकं वक्रकोटरादिकं पुरुषत्वनिश्चायकञ्च शिरःपाण्यादिकं
विशेषमपश्यतः स्थाणुपुरुषयोः समानधर्ममूर्ध्वत्वादिकञ्च पश्यतः पुरुषस्य भवति
संशयः 'किमयं स्थाणुर्वा पुरुषो वा' इति
।
द्वितीयस्तु संशयो विशेषादर्शने सति विप्रतिषत्तिजः । स यथा
'शब्दो नित उत अनित्य' इति
। तथा ह्येको ब्रूते शब्दो नित्य इति, अपरो ब्रूते
शब्दोऽनित्य इति । तयोर्विप्रतिपत्त्या मध्यस्थस्य पुंसो विशेषमपश्यतो भवति संशयः 'किमयं शब्दो नित्य' उतानित्य इति ।
तृतीयोऽसाधारणधर्मदर्शनजस्तु संशयो यथा नित्यादनित्याच्च
व्यावृत्तेन भूमात्रासाधारणेन गन्धवत्त्वेन विशेषमपश्यतो भुवि नित्यत्वानित्यत्वसंशयः
। तथाहि 'सकलनित्यव्यावृत्तेन गन्धवत्त्वेन योगाद्
भूः किमनित्या, उत सकलानित्यव्यावृत्तेन तेनैव योगान्नित्या'
इति संशयः ।
४ प्रयोजनम्
येन प्रयुक्तः प्रवर्तते तत् प्रयोजनम् । तच्च
सुखदुःखावाप्तिहाना । तदर्था हि प्रवृत्तिः सर्वस्य ।
५ दृष्टान्तः
वादिप्रतिवादिनोः संप्रतिपत्तिविषयोऽर्थो दृष्टान्तः । स
द्विविधः । एकः साधर्म्यदृष्टान्तो यथा धूमवत्त्वस्य हेतोर्महानसम् । द्वितीयस्तु
वैधर्म्यदृष्टान्तः । यथा तस्यैव महाहृद इति ।
६ सिद्धान्तः
प्रामाणिकत्वेनाभ्युपगतोऽर्थः सिद्धान्तः । स चतुर्धा ।
सर्वतन्त्र-प्रतितन्त्र-अधिकरण-अभ्युपगम-सिद्धान्तभेदात् । तत्र
सर्वतन्त्रसिद्धान्तो यथा धर्मिमात्रसद्भावः । द्वितीयो यथा नैयायिकस्य मते मनस
इन्द्रियत्वम् । तद्धि समानतन्त्रे वैशेषिके सिद्धम् । तृतीयो यथा
क्षित्यादिकर्तृत्व सिद्धौ कर्तुः सर्वज्ञत्वम् । चतुर्थो यथा जैमिनीयस्य
नित्यानित्यविचारो यथा भवतु, अस्तु 'तावच्छब्दो गुण' इति ।
७ अवयवाः
अनुमानवाक्यस्यैकदेशा
अवयवाः । ते च प्रतिज्ञादयः पञ्च । तथा च न्यायसूत्रम् –
'प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः' ।
तत्र साध्यधर्मविशिष्टपक्षप्रतिपादकं वचनं प्रतिज्ञा, यथा पर्वतोऽयं वह्निमानिति । तृतीयान्तं पञ्चम्यन्तं
वा लिङ्गप्रतिपादकं वचनं हेतुः । यथा धूमवत्त्वेन धूमवत्त्वादिति वा । सव्याप्तिकं
दृष्टान्तवचनमुदाहरणम् । यथा यो यो धूमवान् सोऽग्निमान् यथा महानस इति । पक्षे
लिङ्गोपसंहारवचनमुपनयः । यथा वह्निव्याप्यधूमवांश्चायमिति, तथा
चायमिति वा । पक्षे साध्योपसंहारवचनं निगमनम् । यथा तस्मादग्निमान् इति, तस्मात्तथेति वा । एते च प्रतिज्ञादयः पञ्चानुमानवाक्यस्यावयवा इवावयवा,
न तु समवायिकारणं, शब्दस्याकाशसमवेतत्वादिति ।
८ तर्कः
तर्कोऽनिष्टप्रसङ्गः । स च सिद्धव्याप्तिकयोर्धर्मयोर्व्याप्याङ्गीकारेण
अनिष्टव्यापकप्रसञ्जनरूपः । यथा 'यद्यत्र घटोऽभविष्यत् तर्हि भूतलमिवाद्रक्ष्यत्' इति
।
स चायं तर्क: प्रमाणानामनुग्राहकः । तथाहि 'पर्वतोऽयं साग्निः उतानग्निः' इति सन्देहानन्तरं यदि कश्चिन्मन्येतानग्निरयमिति तदा तं प्रति 'यद्ययमनग्निरभविष्यत् तदानग्नित्वादधूमोऽप्यभविष्यत्' इत्यधूमत्वप्रसञ्जनं क्रियते । स एष प्रसङ्गस्तर्क इत्युच्यते । अयं
चानुमानस्य विषयशोधकः । प्रवर्तमानस्य धूमवत्त्वलिङ्गकानुमानस्य विषयमग्निमनुजानाति।
अनग्निमत्त्वस्य प्रतिक्षेपात् । अतोऽनुमानस्य भवत्यनुग्राहक इति ।
अत्र कश्चिदाह, 'तर्कः संशय एवान्तर्भवति' इति । तन्न ।
एककोटिनिश्चितविषयत्वात् तर्कस्य ।
९ निर्णयः
निर्णयोऽवधारणज्ञानम् । तञ्च प्रमाणानां फलम् ।
१० वादः
तत्त्वबुभुत्सोः कथा वादः । स चाष्टनिग्रहाणामधिकरणम् । ते
च न्यून-अधिक-अपसिद्धान्ताः, हेत्वाभासपञ्चकञ्च, इत्यष्टौ निग्रहाः ।
११ जल्पः
उभयसाधनवती विजिगीषुकथा जल्पः । सा च यथासम्भवं
सर्वनिग्रहाणामधिकरणम् । परपक्षे दूषिते स्वपक्षस्थापनप्रयोगावसानश्च ।
१२ वितण्डा
स एव स्वपक्षस्थापनाहीनो वितण्डा । सा च परपक्षदूषणमात्रपर्यवसाना
। नास्य वैतण्डिकस्य स्थाप्यः पक्षोऽस्ति ।
कथा तु नानावक्तृकपूर्वोत्तरपक्षप्रतिपादकवाक्यसन्दर्भः ।
१३ हेत्वाभासाः
उक्तानां
पक्षधर्मत्वादिरूपाणां मध्ये येन केनापि रूपेण हीना अहेतवः । तेऽपि
कतिपयहेतुरूपयोगाद्धेतुवदाभासमाना हेत्वाभासाः । ते च असिद्ध-विरुद्ध-अनैकान्तिक-प्रकरणसम-
कालात्ययापदिष्ट-भेदात् पञ्चैव ।
अत्रोदयनेन 'व्याप्तस्य हेतोः पक्षधर्मतया प्रतीतिः सिद्धिस्तदभावोऽसिद्धिः' इत्यसिद्धिलक्षणमुक्तम् । तञ्च यद्यपि विरुद्धादिष्वपि सम्भवतीति साङ्कर्यं
प्रतीयते । तथापि यथा न साङ्कर्य तथोच्यते । यो हि साधने पुरः परिस्फुरति समर्थश्च
दुष्टज्ञतौ स एव दुष्टज्ञप्तिकारको दूषणमिति यावत् नान्य इति । तेनैव
पुरावस्फूर्तिकेन दुष्टौ ज्ञापितायां कथापर्यवसाने जाते
तदुपजीविनोऽन्यस्यानुपयोगात् । तथा च सति यत्र विरोधो साध्यविपर्ययव्याप्याख्यो
दुष्टज्ञप्तिव्यभिचारादयस्तथाभूतास्तेऽनैकान्तिकादयस्त्रयः । ये पुनर्व्याप्तिपक्षधर्मता-विशिष्टहेतुस्वरूपज्ञप्त्यभावेन
पूर्वोक्ता असिद्ध्यादयो दुष्टज्ञप्तिकारकाः, दूषणानीति
यावत् । तथाभूतः सोऽसिद्धः ।
स च त्रिविधः ।
आश्रयासिद्ध-स्वरूपासिद्ध-व्याप्यत्वासिद्धभेदात् । तत्र यस्य हेतोराश्रयो
नावगम्यते स आश्रयासिद्धः । यथा 'गगनारविन्दं सुरभि, अरविन्दत्वात्, सरोजारविन्दवत् । अत्र हि गगनारविन्दमाश्रयः स च नास्त्येव ।
अयमप्याश्रयासिद्धः
। तथाहि 'घटोऽनित्यः कार्यत्वात् पटवत्' इति । नन्वाश्रयस्य घटादे सत्त्वात् कार्यत्वादिति हेतुर्नाश्रयासिद्धः,
सिद्धसाधकस्तु स्यात्, सिद्धस्य
घटानित्यत्वस्य साधनात् ।
मैवम् ।
न हि स्वरूपेण कश्चिदाश्रयो भवत्यनुमानस्य, किन्तु सन्दिग्धधर्मवत्त्वेन । तथा चोक्तं भाष्ये –
'नानुपलब्धे न निर्णीतेऽर्थेऽपि तु सन्दिग्धेऽर्थे न्यायः प्रवर्तते' ।
न च घटे
नित्यत्वसन्देहोऽस्ति । अनित्यत्वस्य निश्चितत्वात् । तेन यद्यपि स्वरूपेण घटो
विद्यते, तथाप्यनित्यत्वसन्देहाभावान्नासावाश्रय
इत्याश्रयासिद्धत्वादहेतुः ।
स्वरूपासिद्धस्तु
स उच्यते यो हेतुराश्रये नावगम्यते । यथा 'सामान्यमनित्यं कृतकत्वात्' इति । कृतकत्वं
हि हेतुराश्रये सामान्ये नास्त्येव ।
भागासिद्धोऽपि
स्वरूपासिद्ध एव । यथा 'पृथिव्यादयश्चत्वारः परमाणवो नित्यगन्धवत्त्वात्' इति
। गन्धवत्त्वं हि पक्षीकृतेषु सर्वेषु नास्ति, पृथिवीमात्रवृत्तित्वात्
। अतएव भागे स्वरूपासिद्धः ।
तथा विशेषणासिद्ध-विशेष्यासिद्ध-असमर्थविशेषणा-सिद्ध-असमर्थविशेष्यासिद्धादयः
स्वरूपासिद्धभेदाः। तत्र विशेषणासिद्धो यथा 'शब्दो नित्यो द्रव्यत्वे सत्यस्पर्शत्वात्' । अत्र हि द्रव्यत्वविशिष्टमस्पर्शत्वं हेतुर्नास्पर्शत्वमात्रम् । शब्दे
च द्रव्यत्वं विशेषणं नास्ति गुणत्वात्, अतो विशेषणासिद्धः ।
न चासति विशेषणे द्रव्यत्वे तद्विशिष्टमस्पर्शत्वमस्ति । विशेषणाभावे
विशिष्टस्याप्यभावात् । यथा दण्डमात्राऽभावे पुरुषाऽभावे वा दण्ड विशिष्टस्य
पुरुषस्याभावः । तेन सत्यप्यस्पर्शत्वे द्रव्यत्वविशिष्टस्य हेतोरभावात्
स्वरूपासिद्धत्वम् ।
विशेष्यासिद्धो
यथा 'शब्दो नित्योऽस्पर्शत्वे सति द्रव्यत्वात्'
इति । अत्रापि विशिष्टो हेतुः । न च विशेष्याऽभावे विशिष्टं
स्वरूपमस्ति । विशिष्टश्च हेतुर्नास्त्येव ।
असमर्थविशेषणासिद्धो
यथा, 'शब्दो नित्यो गुणत्वे सत्यकारणकत्वात्'
। अत्र हि विशेषणस्य गुणत्वस्य न किञ्चित् सामर्थ्यमस्तीति |
विशेष्यस्याकारणकत्वस्यैव नित्यत्वसाधने सामर्थ्यात् ।
अतोऽसमर्थविशेषणता । स्वरूपासिद्धत्वं तु विशेषणाभावे विशिष्टस्याप्यभावात् ।
ननु
विशेषणं गुणत्वं तत्र शब्देऽस्त्येव, तत्कथं विशेषणाभावः ? सत्यमस्त्येव
गुणत्वं, किन्तु न तद्विशेषणम् । तदेव हि हेतोर्विशेषणं भवति
यदन्यव्यवच्छेदेन प्रयोजनवत् । गुणतवं तु निष्प्रयोजनमतोऽसमर्थमित्युक्तमेव ।
असमर्थविशेष्यो
यथा तत्रैव तद्वैपरीत्येन प्रयोगः । तथाहि, 'शब्दो नित्योऽकारणकत्वे सति गुणत्वात्' इति। अत्र तु विशेषणमात्रस्यैव नित्यत्वसाधने समर्थत्वाद् विशेष्यमसमर्थम्
। स्वरूपासिद्धत्वं तु विशेष्याभावे विशिष्टाभावाद्, विशिष्टस्य
च हेतुत्वेनोपादानात् । शेषं पूर्ववत् ।
व्याप्यत्वासिद्धस्तु
स एव यत्र हेतोर्व्याप्तिर्नावगम्यते । स द्विविधः । एकः साध्येनासहचरितः, अपरस्तु सोपाधिकसाध्यसम्बन्धी । तत्र
प्रथमो यथा 'यत् सत् तत् क्षणिकं यथा जलधरः, संश्च विवादास्पंदीभूतः शब्दादिः' इति । अत्र हि
शब्दादिः पक्षः, तस्य क्षणिकत्वं साध्यं, सत्त्वं हेतुः - न चास्य हेतोः क्षणिकत्वेन सह व्याप्तौ प्रमाणमस्ति ।
इदानीमुपाधिसहितो
व्याप्यत्वासिद्धः प्रदर्श्यते । तद्यथा 'स श्यामो मैत्रीतनयत्वात् परिदृश्यमानमैत्रीतनयस्तोमवत्'
इति । अत्र हि मैत्री तनयत्वेन श्यामत्वं साध्यते । न च
मैत्रीतनयत्वं श्यामत्वे प्रयोजकं, किन्तु शाकाद्यन्नपरिणाम
एवात्र प्रयोजक: । प्रयोजकश्चोपाधिरुच्यते । अतो मैत्रीतनयत्वेन श्यामत्वेन सम्बन्धे
शाकाद्यन्नपरिणाम एवोपाधिः । यथा वाग्नेर्धूमसम्बन्धे आर्द्रेन्धनसंयोगः । अतएवोपाधिसम्बन्धाद्
व्याप्तिर्नास्तीति व्याप्यत्वासिद्धोऽयं मैत्रीतनयत्वादिर्हेतुः ।
तथा परोऽपि व्याप्यत्वासिद्धः । यथा 'क्रत्वन्तर्वर्तिनी हिंसा अधर्मसाधनं हिंसात्वात्
क्रतुबाह्यहिंसावत्' इति । न च हिंसात्वमधर्मे प्रयोजकं
किन्तु निषिद्धत्वमुपाधिरिति पूर्ववदुपाधिसद्भावाद् व्याप्यत्वासिद्धोऽयं
हिंसात्वं हेतुः ।
ननु 'साध्यव्यापकत्वे सति साधनाव्यापको यः स उपाधिः'
इत्युपाधिलक्षणम् । तञ्च निषिद्धत्वे नास्ति तत् कथं
निषिद्धत्वमुपाधिरिति ।
मैवम् । निषिद्धत्वेऽप्युपाधिलक्षणस्य
विद्यमानत्वात् । तथा हि साध्यस्य अधर्मजनत्वकस्य व्यापकं निषिद्धत्वम् । यत्र
यत्राधर्मसाधनत्वं, तत्र तत्रावश्यं निषिद्धत्वमिति निषिद्धत्यस्य विद्यमानत्वात्
। न च यत्र यत्र हिसात्वं, तत्र तत्रावश्यं निषिद्धत्वं क्रत्वङ्गहिंसायां व्यभिचारात्
। अस्ति हि क्रत्वङ्गहिसायां हिंसात्वं, न चात्र निषिद्धत्वमिति । तदेवं त्रिविधोऽसिद्धो दर्शितः ।
संप्रति
विरुद्धः कथ्यते । साध्यविपर्ययव्याप्तो हेतुर्विरुद्धः । यथा 'शब्दो नित्यः कृतकत्वात्'
इति अत्र हि नित्यत्वं साध्यं,
कृतकत्वं हेतुः । तद्विपर्ययेण चानित्यत्वेन कृतकत्वं
व्याप्तं,
यतो यद्यत् कृतकं तत्तत् खल्वनित्यमेव। अतः साध्यविपर्ययव्याप्तत्वात्
कृतकत्वं हेतुविरुद्धः ।
साध्यसंशयहेतुरनैकान्तिकः
सव्यभिचार । इति वोच्यते । स द्विविधः । साधारणानैकान्तिको असाधारणानैकान्तिकश्चेति
। तत्र प्रथमः, पक्ष सपक्ष-विपक्षवृत्तिः । यथा 'शब्दो नित्यः प्रमेयत्वात्' इति । अत्र प्रमेयत्वं हेतुः पक्षे शब्दे,
सपक्षे नित्ये व्योमादौ, विपक्षे चानित्ये घटादौ विद्यते । सर्वस्यैव प्रमेयत्वात् ।
तस्मात् प्रमेयत्वं हेतुः साधारणानैकान्तिकः ।
असाधारणानैकान्तिकः स एव यः सपक्षविपक्षाभ्यां व्यावृत्तः
पक्ष एव वर्तते । यथा 'भूर्नित्या गन्धवत्त्वात्' इति । अत्र गन्धवत्त्वं हेतुः । स च सपक्षान्नित्याद्
व्योमादेः, विपक्षाच्चानित्याज्जलादेर्व्यावृत्तो, गन्धवत्त्वस्य प्रथिवीमात्रवृत्तित्वादिति
।
व्यभिचारस्तु
लक्ष्यते । सम्भवत्सपक्षविपक्षस्य हेतोः सपक्षवृत्तित्वे सति विपक्षाद्
व्यावृत्तिरेव नियमो गमकत्वात् । तस्य च साध्यविपरीतताव्याप्तस्य तन्नियमाभावो
व्यभिचारः । स च द्वेधा सम्भवति । सपक्ष- विपक्षयोर्वृत्तौ,
ताभ्यां व्यावृत्तौ च ।
यस्य
प्रतिपक्षभूतं हेत्वन्तरं विद्यते स प्रकरणसमः । स एव सत्प्रतिपक्षः इति चोच्यते ।
तद्यथा 'शब्दोऽनित्यो नित्यधर्मानुपलव्धेः',
'शब्दो
नित्योऽनित्यधर्मानुपलब्धेः' इति । अत्र साध्यविपरीतसाधकं समानबलमनुमानान्तरं प्रतिपक्ष
इत्युच्यते । यः पुनरतुल्यबलो न स प्रतिपक्षः ।
तथाहि
विपरीतसाधकानुमानं त्रिविधं भवति । उपजीव्यम् , उपजीवकम् , अनुभयं चेति । तत्राद्यं बाधकं बलवत्त्वात् । यथा 'अनित्यपरमाणुर्मूर्तत्वाद् घटवत्' इत्यस्य परमाणुसाधकानुमानं नित्यत्वं साधयदपि न प्रतिपक्षः
। किन्तु बाधकमेवोपजीव्यत्वात् । तच्च धर्मिग्राहकत्वात् । न हि प्रमाणेनागृह्यमाणे
धर्मिणि परमाणावनित्यत्वानुमानमिदं सम्भवति, आश्रयासिद्धेः । अतोऽनेनानुमानेन परमारणुग्राहकस्य
प्रामाण्यमप्यनुज्ञातमन्यथाऽस्योदयासम्भवात् । तस्मादुपजीव्यं बाधकमेव । उपजीवकं
तु दुर्बलत्वाद् बाध्यम् । यथेदमेवानित्यत्वानुमानम् । तृतीयं तु सत्प्रतिपक्षं
समबलत्वात् ।
यस्य
प्रत्यक्षादिप्रमाणेन पक्षे साध्याभावः परिच्छिन्नः स कालात्ययापदिष्टः । स एव
बाधितविषय इत्युच्यते । यथा 'अग्निरनुष्णः कृतकत्वाज्जलवत्' । अत्र कृतकत्वं हेतुः । तस्य च यत् साध्यमनुष्णत्वं
तस्याभावः प्रत्यक्षेणैव परिच्छिन्नः । त्वगिन्द्रियेणाग्नेरुष्णत्वपरिच्छेदात् ।
तथा
परोऽपि कालात्ययापदिष्टो, यथा, 'घटस्य क्षणिकत्वे साध्ये प्रागुक्तं सत्त्वं हेतुः'
। तस्यापि च यत् साध्यं क्षणिकत्वं तस्याऽभावोऽक्षणिकत्वं
प्रत्यभिज्ञातर्कादिलक्षणेन प्रत्यक्षेण परिच्छिन्नम् । स एवायं घटो यो मया
पूर्वमुपलब्धः' इति प्रत्यभिज्ञया पूर्वानुभवजनितसंस्कारसहकृतेन्द्रियप्रभवया पूर्वापरकालनया
घटस्य स्थायित्वपरिच्छेदादिति ।
एते
चासिद्धादयः पञ्च हेत्वाभासा यथा कथञ्चित् पक्षधर्मत्वाद्यन्यत मरूपहीनत्वादहेतवः
स्वसाध्यं न साधयन्तीति ।
येऽपि लक्षणस्य केवलव्यतिरेकिहेतोस्त्रयो दोषा
अव्याप्ति-अतिव्याप्ति-असम्भवास्तेऽप्यत्रैवान्तर्भवन्ति,
न तु पञ्चभ्योऽधिकाः । तथाहि, अतिव्याप्तिर्व्याप्यत्वासिद्धः ।
विपक्षमात्रादव्यावृत्तत्वात् सोपाधिकत्वाच्च । यथा गोलक्षणस्य पशुत्वस्य । गोत्वे
हि सास्नादिमत्त्वं प्रयोजकं, न तु पशुत्वम् । तथा अव्याप्तिर्भागासिद्धत्वम् । यथा
गोलक्षणस्य शाबलेयत्वस्य । एवम् असम्भवोऽपि स्वरूपासिद्धिः । यथा
गोलक्षणस्यैकशफत्वस्येति ।
१४ छलम्
अभिप्रायान्तरेण प्रयुक्तस्य शब्दस्यार्थान्तरं परिकल्प्य
दूषणाभिधानं छलम् । यथा 'नवकम्बलोऽयं देवदत्तः' इति वाक्ये नूतनाभिप्रायेण प्रयुक्तस्य
नवशब्दस्यार्थान्तरमाशंक्य कश्चित् दूषयति । 'नास्य नव कम्बलाः सन्ति दरिद्रत्वात् । न ह्यस्य द्वयमपि
सम्भाव्यते कुतो नव' इति । स च वादी छलवादितया ज्ञायते ।
१५ जातिः
असदुत्तरं
जातिः । सा च उत्कर्षसम-अपकर्षसम-आदि भेदेन बहुविधा । विस्तरभिया नेह कृत्स्नोच्यते
। तत्राव्याप्तेन दृष्टान्तगतधर्मेण साध्ये पक्षे अव्यापकधर्मस्यापादनम्
उत्कर्षसमा जातिः । यथा शब्दोऽनित्यः कृतकत्वाद् घटवदित्युक्ते कश्चिदेवमाह 'यदि कृतकत्वेन हेतुना घटवच्छब्दोऽनित्यः स्यात् तर्हि तेनैव
हेतुना तद्वदेव शब्दः सावयवोऽपि स्यात् ।
अपकर्षसमा तु दृष्टान्तगतेन धर्मेणाव्याप्तेनाव्यापकस्य
धर्माभावस्यापादनम् । यथा पूर्वस्मिन् प्रयोगे कश्चिदेवमाह 'यदि कृतकेन हेतुना घटवच्छब्दोऽनित्यः स्यात् तेनैव हेतुना
घटवदेव हि शब्दः श्रावणोऽपि न स्यात्। न हि घटः श्रावण'
इति ।
१६ निग्रहस्थानानि
पराजयहेतुः निग्रहस्थानम् । तच्च न्यून-अधिक-अपसिद्धान्त अर्थान्तर-अप्रतिमा
मतानुज्ञा-विरोध आदि भेदाद् बहुविधमपि विस्तरभयान्नेह कृत्स्नमुच्यते । यद्
विवक्षितार्थे किञ्चिदूनं तन्न्यूनम् । विवक्षितात् किञ्चिदधिकम् अधिकम् ।
सिद्धान्तादपध्वंसः - अपसिद्धान्तः । प्रकृतेनानभिसम्बद्धार्थवचनम् अर्थान्तरम् ।
उत्तरापरिस्फूर्तिः अप्रतिभा । पराभिमत-स्वार्थस्य स्वप्रतिकूलस्य
स्वयमेवाभ्यनुज्ञानं स्वीकारो मतानुज्ञा । इष्टार्थभङ्गो विरोधः ।
उपसंहारः
इहात्यन्तमुपयुक्तानां स्वरूपभेदेन भूयो भूयः प्रतिपादनम् । यदनतिप्रयोजनं
तदलक्षणमदोषाय । एतावतैव बालव्युत्पत्तिसिद्धेः ।
इति श्रीकेशवमिश्रविरचिता तर्कभाषा समाप्ता ॥