प्रथमो
मयूखः
उच्चैरस्यति मन्दतामरसतां जाग्रत्कलङ्कैरव-
ध्वंसं हस्तयते च या सुमनसां उल्लासिनी मानसे ।
धृष्टोद्यन्मदनाशनार्चिरमला लोकत्रयीदर्शिका
सा नेत्रत्रितयीव खण्डपरशोर्वाग्देवता दीव्यतु ।। १ ।।
अन्वय– या मन्दताम् अरसताम् (च) उच्चैः अस्यति, (सुमनसां) जाग्रत्कलङ्कै: अवध्वंसं हस्तयते। सुमनसां मानसे उल्लासिनी, दुष्टोद्यन्मदनाशनार्चिः, अमलालोकत्रयी दर्शिका, सा वाग्देवता खण्डपरशो: नेत्रत्रितयी इव दीव्यतु ।
शब्दार्थ- सरस्वती के पक्ष में - या = जो सरस्वती, मन्दताम् = मूढ़ता को, अरसताम् = नीरसता को, च = और, उच्चैः = अत्यन्त, अस्यति = दूर कर देती है, सुमनसां = विद्वानों की, जाग्रत्कलङ्कै: = विद्यमान दोषों का, अवध्वंसं = विनाश, हस्तयते = दूर करती है। सुमनसां = विद्वानों के, मानसे = मन में, उल्लासिनी आनन्दित करने वाली, दुष्टोद्यन्मदनाशनार्चिः = दुष्टों के हृदय में उत्पन्न गर्व को नष्ट करने वाली (और) तेजस्वरूपा, अमलालोकत्रयीदर्शिका = निर्मल अतएव तीनों लोकों को दिखाने वाली, सा = वह, वाग्देवता = सरस्वती, खण्डपरशो: = भगवान् शिव की, नेत्रत्रितयी = सूर्य, चन्द्र और अग्निरूप तीन नेत्रों के, इव = समान, दीव्यतु = प्रकाशित हो।
भगवान् शंकर के नेत्रत्रयी के पक्ष में - मन्दः = प्रभाहीन, तामरसतां = कमलों की, उच्चैः = ऊपर, अस्यति = दूर करता है, सुमनसाम् = पुष्पों के, कैरवम् = कुमुद, ध्वंसः = विनाश, जाग्रतकलं = स्फुरत कलाओं का, हस्यते = दूर करता है, दुष्टः = दुष्ट, उद्यन् = उत्पन्न होते हुए, मदन: = कामदेव, अशन = विनाश, अर्चिः = ज्वाला, सुमनसां = देवताओं के, मानसे हृदय में उल्लासिनी = उल्लास पैदा करने वाली, अमला = निर्मल, लोकत्रयी दर्शिका = भूः, भुवः स्वः रूप तीनों लोकों को दिखाने वाली, खण्डपरशो: = शिव की, नेत्रत्रितयी = नेत्रत्रयी, दीव्यतु = विलसित हो ।
अर्थ - (इस श्लोक के दो अर्थ है- प्रथम अर्थ सरस्वती के पक्ष में घटित होता और द्वितीय अर्थ भगवान् शङ्कर की नेत्रत्रयी के पक्ष में घटित होता है।)
1. सरस्वती के पक्ष में - जो सरस्वती देवी मूढ़ता और नीरसता को अत्यन्त दूर कर देती हैं, विद्वानों की सभा में मूकता आदि दोषों का विनाश करती हैं, विद्वानों के हृदय में आनन्द की भावना पैदा करती हैं, जो दुष्टों के हृदय में उत्पन्न गर्व को नष्ट करने वाली और तेजस्वरूपा हैं, निर्मल अतएव तीनों लोकों को दिखाने वाली हैं, वह सरस्वती देवी विद्वानों के मन में सदा प्रकाशित हों।
2. भगवान शङ्कर के नेत्रत्रयी के पक्ष में- भगवान् शङ्कर के सूर्य, चन्द्र और अग्निरूप (दक्षिण, वाम तथा मस्तकस्थ) तीनों नेत्र सेवकों के हृदय में सदा स्फुरित हों। इनमें सूर्य रूप दक्षिण नेत्र कमलों के मुकुलीभाव रूप मन्दता को दूर करता है अर्थात् उनको विकसित करता है, चन्द्ररूप द्वितीय नेत्र रात में खिलने वाले कैरव, (कुमुद) की कलाओं का विकास करता है और तृतीय अग्निरूप नेत्र उत्पन्न होने वाले दुष्ट कामदेव का विनाश कर देता है। इस प्रकार देवताओं के हृदय को आनन्दित करने वाली भगवान् शङ्कर की नेत्रत्रयी भक्तों के हृदय में तीनों लोकों को दिखाती हुई विलसित हों।
हं हो चिन्मयचित्तचन्द्रमणयः
संवर्धयध्वं रसान्
रे
रे स्वैरिणि निर्विचारकविते मास्मत्प्रकाशीभव ।
उल्लासाय विचारवीचिनिलयालङ्कारवारांनिधे-
श्चन्द्रालोकमयं स्वयं वितनुते
पीयूषवर्षः कृती ।। २ ।।
युक्त्यास्वाद्यलसद्रसैकवसतिः
साहित्यसारस्वत-
क्षीराम्भोधिरगाधतां उपदधत्सेव्यः
समाश्रीयताम् ।
श्रीरस्मादुपदेशकौशलमयं पीयूषं
अस्माज्जग-
ज्जाग्रद्भासुरपद्मकेशरयशःशीतांशुरस्माद्बुधाः
।। ३ ।।
तं पूर्वाचार्यसूर्योक्ति-ज्योतिः
स्तोमोद्गमं स्तुमः ।
यं प्रस्तूय प्रकाशन्ते
मद्गुणास्त्रसरेणवः ।। ४ ।।
नाशङ्कनीयं एतेषां मतं एतेन दूष्यते
।
किं तु चक्षुर्मृगाक्षीणां
कज्जलेनेव भूष्यते ।। ५ ।।
प्रतिभैव श्रुताभ्यास-सहिता कवितां
प्रति ।
हेतुर्मृदम्बुसम्बद्धा बीजमाला
लतामिव ।। ६ ।।
निर्दोषा लक्षणवती सरीतिर्गुणभूषणा
।
सालंकाररसानेक-वृत्तिर्वाक्काव्यनामभाक्
।।७ ।।
अङ्गीकरोति यः काव्यं
शब्दार्थावनलंकृती ।
असौ न मन्यते कस्मादनुष्णं अनलं
कृती ।। ८ ।।
विभक्त्युत्पत्तये योग्यः
शास्त्रीयः शब्द इष्यते ।
रूढयौगिकतन्मिश्रैः प्रभेदैः स
पुनस्त्रिधा ।। ९ ।।
अव्यक्तयोगनिर्योग-योगाभासैस्त्रिधादिमः
।
ते च वृक्षादिभूवादि-मण्डपाद्या
यथाक्रमम् ।। १० ।।
शुद्धतन्मूलसंभिन्न-प्रभेदैर्यौगिकस्त्रिधा
।
ते च भ्रान्तिस्फुरत्कान्ति-कौन्तेयादिस्वरूपिणः
।। ११ ।।
तन्मिश्रोऽन्योन्यसामान्य-विशेषपरिवर्तनात्
।
नीरधिः पङ्कजं सौधः सागरो भूरुहः
शशी ।। १२ ।।
क्षीरनीरधिराकाश-पङ्कजं तेन
सिद्धयति ।
विभक्त्यन्तं पदं वाक्यं
तद्व्यूहोऽर्थसमाप्तितः ।। १३ ।।
युक्तार्थतां तां च विना खण्डवाक्यं
स इष्यते ।
वाक्यं च खण्डवाक्यं च पदं एकं अपि
क्वचित् ।। १४ ।।
धूमवत्त्वादिति यथा
देवेत्यामन्त्रणं यथा ।
वाक्यान्येकार्थविश्रान्तान्याहुर्वाक्यकदम्बकम्
।। १५ ।।
महादेवः सत्रप्रमुखमखविद्यैकचतुरः
सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
अनेनासावाद्यः सुकविजयदेवेन रचिते
चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ।। १.१६ ।।
द्वितीयो
मयूखः
स्याच्चेतो विशता येन सक्षता
रमणीयता ।
शब्देऽर्थे च कृतोन्मेषं दोषं
उद्घोषयन्ति तम् ।। १ ।।
भवेच्छ्रुतिकटुर्वर्णः
श्रवणोद्वेजने पटुः ।
संविद्रते व्याकरण-विरुद्धं च्युतसंस्कृति
।। २ ।।
अप्रयुक्तं दैवतादि-शब्दे
पुंल्लिङ्गतादिकम् ।
असमर्थं तु हन्त्यादेः प्रयोगो
गमनादिषु ।। ३ ।।
स हन्ति हन्त कान्तारे कान्तः
कुटिलकुन्तलः ।
निहतार्थं लोहितादौ
शोणितादिप्रयोगतः ।। ४ ।।
व्यनक्त्यनुचितार्थं यत्पदं
आहुस्तदेव तत् ।
इयं अद्भुतशाख्यग्र-केलिकौतुकवानरी
।। ५ ।।
निरर्थकं तुहीत्यादि
पूरणैकप्रयोजनम् ।
अर्थे विदधदित्यादौ दधदाद्यं
अवाचकम् ।। ६ ।।
धत्ते नभस्तलं भास्वानरुणं तरुणैः
करैः ।
एकाक्षरं विना भूभ्रू-क्ष्मादिकं
खतलादिवत् ।। ७ ।।
अश्लीलं त्रिविधं
व्रीडा-जुगुप्सामङ्गलात्मना ।
आह्लादसाधनं वायुः कान्तानाशे
भवेत्कथम् ।। ८ ।।
स्याद्द्व्यर्थं इह सन्दिग्धं
नद्यां यान्ति पतत्रिणः ।
स्यादप्रतीतं शास्त्रैक-गम्यं
वीतानुमादिवत् ।। ९ ।।
शिथिलं शयने लिल्ये मच्चितं ते
शशिश्रियि ।
मस्तपिष्टकटीलोष्ट-गल्लादि ग्राम्यं
उच्यते ।। १० ।।
नेयार्थं लक्षणात्यन्त-प्रसरादमनोहरम्
।
हिमांशोर्हारधिक्कार-जागरे यामिकाः
कराः ।। ११ ।।
क्लिष्टं अर्थो
यदीयोऽर्थ-श्रेणिनिःश्रेणिं ऋच्छति ।
हरिप्रियापितृवधू-प्रवाहप्रतिमं वचः
।। १२ ।।
अविमृष्टविधेयांशः समासपिहिते विधौ
।
विशन्ति विशिखप्रायाः कटाक्षाः
कामिनां हृदि ।। १३ ।।
अपराधीन इत्यादि विरुद्धमतिकृन्मतम्
।
अन्यसङ्गतं उत्तुङ्ग-हारशोभिपयोधरौ
।। १४ ।।
रसाद्यनुचिते वर्णे प्रतिकूलाक्षरं
विदुः ।
न मां अङ्गद जानासि रावणं रणदारुणम्
।। १५ ।।
यस्मिन्नुपहतो लुप्तो विसर्ग इह
तत्तथा ।
कुसन्धिः पटवागच्छ विसन्धिर्नृपती
इमौ ।। १६ ।।
हतवृत्तं अनुक्तोऽपि
छन्दोदोषश्चकास्ति चेत् ।
विशाललोचने! पश्याम्बरं
तारातरङ्गितम् ।। १७ ।।
न्यूनं त्वत्खड्गसंभूत-यशःपुष्पं
नभस्तटम् ।
अधिकं भवतः शत्रून्दशत्यसिलताफणी ।।
१८ ।।
कथितं पुनरुक्ता
वाक्श्यामाब्जश्यामलोचना ।
विकृतं दूरविवृतैरैयरुः कुञ्जराः
पुरम् ।। १९ ।।
पतत्प्रकर्षं हीनानु-प्रासादित्वे
यथोत्तरम् ।
गम्भीरारम्भदम्भोलि-पाणिरेषः समागतः
।। २० ।।
समाप्तपुनरात्तं स्यादेष
पीयूषभाजनम् ।
नेत्रानन्दी
तुषारांशुरुदेत्यम्बुधिबान्धवः ।। २१ ।।
अर्धान्तरपदापेक्षि क्रीडानृत्येषु
सस्मितम् ।
मोघारम्भं स्तुमः शम्भुं अर्धरम्भोरुविग्रहम्
।। २२ ।।
अभवन्मतयोगः स्यान्न चेदभिमतोऽन्वयः
।
येन बद्धोऽम्बुधिर्यस्य
रामस्यानुचरा वयम् ।। २३ ।।
द्विषां सम्पदं आच्छिद्य यः
शत्रून्समपूरयत् ।
अस्थानस्थसमासं न विद्वज्जनमनोरमम्
।। २४ ।।
मिथः पृथग्वाक्यपदैः संकीर्णं
यत्तदेव तत् ।
वक्त्रेण भ्राजते रात्रिः कान्ता
चन्द्रेण राजते ।। २५ ।।
ब्रह्माण्डं त्वद्यशःपूर-गर्भितं
भूमिभूषण ।
आकर्णय पयःपूर्ण-सुवर्णकलशायते ।।
२६ ।।
भग्नप्रक्रमं
आरब्ध-शब्दनिर्वाहहीनता ।
अक्रमः कृष्ण पूज्यन्ते त्वां
अनभ्यर्च्य देवताः ।। २७ ।।
अमतार्थान्तरं मुख्येऽमुख्येनार्थे
विरोधकृत् ।
त्यक्तहारं उरःकृत्वा
शोकेनालिङ्गिताङ्गना ।। २८ ।।
अपुष्टार्थो विशेष्ये चेन्न विशेषो
विशेषणात् ।
विशन्ति हृदयं कान्ता-कटाक्षाः
खञ्जनत्विषः ।। २९ ।।
कष्टः स्पष्टावबोधार्थं अक्षमो
वाच्यसन्निभः ।
व्याहतश्चेद्विरोधः स्यान्मिथः
पूर्वापरार्थयोः ।। ३०
।।
सहस्रपत्रमित्रं ते वक्त्रं
केनोपमीयते ।
कुतस्तत्रोपमा यत्र पुनरुक्तः
सुधाकरः ।। ३१ ।।
दुष्क्रमग्राम्यसन्दिग्धास्त्रयो
दोषाः क्रमादमी ।
त्वद्भक्तः कृष्ण! गच्छेयं नरकं
स्वर्गं एव वा ।। ३२ ।।
एकं मे चुम्बनं देहि तव दास्यामि
कञ्चुकम् ।
ब्रूत किं सेव्यतां चन्द्र-मुखीचन्द्रकिरीटयोः
।। ३३ ।।
अनौचित्यं कीर्तिलतां तरङ्गयति यः
सदा ।
प्रसिद्ध्या विद्यया वापि विरुद्धं
द्विविधं मतम् ।। ३४ ।।
न्यस्तेयं पश्य
कन्दर्प-प्रतापधवलद्युतिः ।
केतकी शेखरे शम्भोर्धत्ते
चन्द्रकलातुलाम् ।। ३५ ।।
सामान्यपरिवृत्तिः स्यात्कुण्डलच्छविविग्रहा
।
विशेषपरिवृत्तिः स्याद्वनिता मम
चेतसि ।। ३६ ।।
तथा सहचराचारु-विरुद्धान्योन्यसंगती
।
ध्वाङ्क्षाः सन्तश्च तनयं स्वं परं
च न जानते ।। ३७ ।।
सरोजनेत्र पुत्रस्य मुखेन्दुं
अवलोकय ।
पालयिष्यति ते गोत्रं असौ
नरपुरन्दरः ।। ३८ ।।
पदे तदंशे वाक्यांशे वाक्ये
वाक्यकदम्बके
यथानुसारं
अभ्यूहेद्दोषान्शब्दार्थसंभवान् ।। ३९ ।।
दोषं आपतितं स्वान्ते प्रसरन्तं
विशृङ्खलम् ।
निवारयति यस्त्रेधा दोषाङ्कुशं
उशन्ति तम् ।। ४० ।।
दोषे गुणत्वं तनुते दोषत्वं वा
निरस्यति ।
भवन्तं अथवा दोषं नयत्यत्याज्यतामसौ
।। ४१ ।।
मुखं चन्द्रश्रियं धत्ते
श्वेतश्मश्रुकराङ्कुरैः ।
अत्र हास्यरसोद्देशे ग्राम्यत्वं
गुणतां गतम् ।। ४२ ।।
तव दुग्धाब्धिसंभूतेः कथं जाता
कलाङ्किता ।
कवीनां समयाद्विद्या-विरुद्धोऽदोषतां
गतः ।। ४३ ।।
दधार गौरी हृदये देवं हिमकराङ्कितम्
।
अत्र श्लेषोदयान्नैव त्याज्यं हीति
निरर्थकम् ।। ४४ ।।
महादेवः सत्रप्रमुखमखविद्यैकचतुरः
सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
द्वितीयस्तेनासौ सुकविजयदेवेन रचिते
चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ।। ४५ ।।
तृतीयो मयूखः
अल्पाक्षरा
विचित्रार्थ-ख्यातिरक्षरसंहतिः ।
उषाकान्तेनानुगतः
शूरः शौरिरयं पुनः ।। १ ।।
शोभा ख्यातापि
यद्दोषो गुणकीर्त्या निषिध्यते ।
मुधा
निन्दन्ति संसारं कंसारिर्यत्र पूज्यते ।। २ ।।
अभिमानो
विचारश्चेदूहितार्थनिषेधकृत् ।
इन्दुर्यदि
कथं तीव्रः सूर्यो यदि कथं निशि ।। ३ ।।
हेतुस्त्यक्त्वा
बहून्पक्षान्युक्त्यैकस्यावधारणम् ।
नेन्दुर्नार्कोऽयं
और्वाग्निः सागरादुत्थितो दहन् ।। ४ ।।
प्रतिषेधः
प्रसिद्धानां कारणानां अनादरः ।
न युद्धेन
भ्रुवोः स्पन्देनैव वीरा निपातिताः ।। ५ ।।
निरुक्तं
स्यान्निर्वचनं नाम्नः सत्यं तथानृतम् ।
ईदृशैश्चरितै
राजन्सत्यं दोषाकरो भवान् ।। ६ ।।
स्यान्मिथ्याध्यवसायश्चेदसती
साध्यसाधने ।
चन्द्रांशुसूत्रग्रथितां
नभःपुष्पस्रजं वह ।। ७ ।।
सिद्धिः
ख्यातेषु चेन्नाम कीर्त्यते तुल्यतोक्तये ।
युवां एवेह
विख्यातौ त्वं बलैर्जलधिर्जलैः ।। ८ ।।
युक्तिर्विशेषसिद्धिश्चेद्विचित्रार्थान्तरान्वयात्
।
नवस्त्वं
नीरदः कोऽपि स्वर्णैर्वर्षसि यन्मुहुः ।। ९ ।।
कार्यं
फलोपलम्भश्चेद्व्यापाराद्वस्तुतोऽथ वा ।
असावुदेति
शीतांशुर्मानच्छेदाय सुभ्रुवाम् ।। १० ।।
इत्यादि
लक्षणं भूरि काव्यस्याहुर्महर्षयः ।
स्वर्णभ्राजिष्णुभालत्व-प्रभृतीव
महीभुजः ।। ११ ।।
महादेवः
सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
तृतीयस्तेनासौ
सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ।। १२ ।।
चतुर्थो मयूखः
श्लेषो
विघटमानार्थ-घटमानत्ववर्णनम् ।
स तु शाब्दः
सजातीयैः शब्दैर्बन्धः सुखावहः ।। १ ।।
उल्लसत्तनुतां
नीतेऽनन्ते पुलककण्टकैः ।
भीतया
मानवत्यैव श्रियाश्लिष्टं हरिं स्तुमः ।। २ ।।
यस्मादन्तःस्थितः
सर्वः स्वयं अर्थोऽवभासते ।
सलिलस्येव
सूक्तस्य स प्रसाद इति स्मृतः ।। ३ ।।
समताल्पसमासत्वं
वर्णाद्यैस्तुल्यताथ वा ।
श्यामला कोमला
बाला रमणं शरणं गता ।। ४ ।।
समाधिरर्थमहिमा
लसद्घनरसात्मना ।
स्यादन्तर्विशता
येन गात्रमङ्कुरितं सताम् ।। ५ ।।
माधुर्यं
पुनरुक्तस्य वैचित्र्यं चारुतावहम् ।
वयस्य पश्य
पश्यास्याश्चञ्चलं लोचनाञ्चलम् ।। ६ ।।
ओजः
स्यात्प्रौढिरर्थस्य संक्षेपो वातिभूयसः ।
रिपुं हत्वा
यशः कृत्वा त्वदसिः कोशं आविशत् ।। ७ ।।
सौकुमार्यं
अपारुष्यं पर्यायपरिवर्तनात् ।
स कथाशेषतां
यातः समालिङ्ग्य मरुत्सखम् ।। ८ ।।
उदारता तु
वैदग्ध्यं अग्राम्यत्वात्पृथङ्मता ।
मानं मुञ्च
प्रिये किंचिल्लोचनान्तं उदञ्चय ।। ९ ।।
शृङ्गारे च
प्रसादे च कान्त्यर्थव्यक्तिसंग्रहः ।
अमी दश गुणाः
काव्ये पुंसि शौर्यादयो यथा ।। १० ।।
तिलकाद्यं इव
स्त्रीणां विदग्धहृदयङ्गमम् ।
व्यतिरिक्तं
अलङ्कारं प्रकृतेर्भूषणं गिराम् ।। ११ ।।
विचित्रलक्षणो
न्यासो निर्वाहः प्रौढिरौचिती ।
शास्त्रान्तररहस्योक्तिः
संग्रहो दिक्प्रदर्शिता ।। १२ ।।
महादेवः
सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
चतुर्थस्तेनासौ
सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ।। १३ ।।
पञ्चमो मयूखः
शब्दार्थयोः
प्रसिद्ध्या वा कवेः प्रौढिवशेन वा ।
हारादिवदलङ्कारः
सन्निवेशो मनोहरः ।। १ ।।
स्वरव्यञ्जनसंदोह-व्यूहामन्दोहदोहदा
।
गौर्जगज्जाग्रदुत्सेका
छेकानुप्रासभासुरा ।। २ ।।
आवृत्तवर्णसम्पूर्णं
वृत्त्यनुप्रासवद्वचः ।
अमन्दानन्दसन्दोह-स्वच्छन्दास्पदमन्दिरम्
।। ३ ।।
लाटानुप्रासभूर्भिन्नाभिप्राया
पुनरुक्तता ।
यत्र स्यान्न
पुनः शत्रोर्गर्जितं तज्जितं जितम् ।। ४ ।।
श्लोकस्यार्धे
तदर्धे वा वर्णावृत्तिर्यदि ध्रुवा ।
तदा मता
मतिमतां स्फुटानुप्रासता सताम् ।। ५ ।।
उपमेयोपमानादावर्थानुप्रास
इष्यते ।
चन्दनं खलु
गोविन्द-चरणद्वन्द्ववन्दनम् ।। ६ ।।
पुनरुक्तप्रतीकाशं
पुनरुक्तार्थसन्निभम् ।
अंशुकान्तं
शशी कुर्वन्नम्बरान्तं उपैत्यसौ ।। ७ ।।
आवृत्तवर्णस्तबकं
स्तवकन्दाङ्कुरं कवेः ।
यमकं प्रथमा
धुर्य-माधुर्यवचसो विदुः ।। ८ ।।
काव्यवित्प्रवरैश्चित्रं
खड्गबन्धादि लक्ष्यते ।
तेष्वाद्यं
उच्यते श्लोक-द्वयीसज्जनरञ्जिका ।। ९ ।।
कामिनीव
भवेत्खड्ग-लेखा चारुकरालिका ।
काश्मीरसेका
रक्ताङ्गी शत्रुकण्ठान्तिकाश्रिता ।। १० ।।
उपमा यत्र
सादृश्य-लक्ष्मीरुल्लसति द्वयोः ।
हृदये
खेलतोरुच्चैस्तन्वङ्गीस्तनयोरिव ।। ११ ।।
उपमानोपमेयत्वे
यत्रैकस्यैव जागृतः ।
इन्दुरिन्दुरिवेत्यादौ
भवेदेवं अनन्वयः ।। १२ ।।
पर्यायेण
द्वयोस्तच्चेदुपमेयोपमा मता ।
धर्मोऽर्थ इव
पूर्णश्रीरर्थो धर्म इव त्वयि ।। १३ ।।
विख्यातस्योपमानस्य
यत्र स्यादुपमेयता ।
इन्दुर्मुखं
इवेत्यादौ स्यात्प्रतीपोपमा तदा ।। १४ ।।
उपमाने तु
लीलादि-पदाढ्ये ललितोपमा ।
त्वन्नेत्रयुगलं
धत्ते लीलां नीलाम्बुजन्मनोः ।। १५ ।।
अनेकस्यार्थयुग्मस्य
सादृश्यं स्तबकोपमा ।
श्रितोऽस्मि
चरणौ विष्णोर्भृङ्गस्तामरसं यथा ।। १६ ।।
स्यात्संपूर्णोपमा
यत्र द्वयोरपि विधेयता ।
पद्मानीव
विनिद्राणि नेत्राण्यासन्नहर्मुखे ।। १७ ।।
यत्रोपमानचित्रेण
सर्वथाप्युपरज्यते ।
उपमेयमयी
भित्तिस्तत्र रूपकं इष्यते ।। १८ ।।
समानधर्मयुक्साध्या-रोपात्सोपाधिरूपकम्
।
उत्सिक्तक्षितिभृल्लक्ष्य-पक्षच्छेदपुरन्दरः
।। १९ ।।
पृथक्कथितसादृश्यं
दृश्यं सादृश्यरूपकम् ।
उल्लसत्पञ्चशाखस्ते
राजते भुजभूरुहः ।। २० ।।
स्यादङ्गयष्टिरित्येवं-विधं
आभासरूपकम् ।
अङ्गयष्टिधनुर्वल्लीत्य्-आदि
रूपितरूपकम् ।। २१ ।।
परिणामोऽनयोर्यस्मिन्नभेदः
पर्यवस्यति ।
कान्तेन
पृष्टा रहसि मौनं एवोत्तरं ददौ ।। २२ ।।
बहुभिर्बहुधोल्लेखादेकस्योल्लेखिता
मता ।
स्त्रीभिः
कामः प्रियैश्चन्द्रः कालः शत्रुभिरैक्षि सः ।। २३ ।।
अतथ्यं
आरोपयितुं तथ्यापास्तिरपह्नुतिः ।
नायं सुधांशुः
किं तर्हि व्योमगङ्गासरोरुहम् ।। २४ ।।
पर्यस्तापह्नुतिर्यत्र
धर्ममात्रं निषिध्यते ।
नायं सुधांशुः
किं तर्हि सुधांशुः प्रेयसीमुखम् ।। २५ ।।
भ्रान्तापह्नुतिरन्यस्य
शङ्कया तथ्यनिर्णये ।
तापं तनोति
सोत्कम्पं ज्वरः किं न सखि स्मरः ।। २६ ।।
छेकापह्नुतिरन्यस्य
शङ्कया तथ्यनिह्नवे ।
प्रजल्पन्मत्पदे
लग्नः कान्तः किं न हि नूपुरः ।। २७ ।।
कैतवापह्नुतिर्व्यक्ते
व्याजाद्यैर्निह्नवे पदैः ।
निर्यान्ति
स्मरनाराचाः कान्तादृक्पातकैतवात् ।। २८ ।।
उत्प्रेक्षोन्नीयते
यत्र हेत्वादिर्निह्नुतिं विना ।
त्वन्मुखश्रीकृते
नूनं पद्मैर्वैरायते शशी ।। २९ ।।
इवादिकपदाभावे
गूढोत्प्रेक्षां प्रचक्षते ।
यत्कीर्तिर्विभ्रमश्रान्ता
विवेश स्वर्गनिम्नगाम् ।। ३० ।।
स्यात्स्मृतिभ्रान्तिसंदेहैस्तदेवालंकृतित्रयम्
।
पङ्कजं
पश्यतस्तस्या मुखं मे गाहते मनः ।। ३१ ।।
अयं
प्रमत्तमधुपस्त्वन्मुखं वेद पङ्कजम् ।
पङ्कजं वा
सुधांशुर्वेत्यस्माकं तु न निर्णयः ।। ३२ ।।
मीलितं
बहुसादृश्याद्भेदवच्चेन्न लक्ष्यते ।
रसो नालक्षि
लाक्षायाश्चरणे सहजारुणे ।। ३३ ।।
सामान्यं यदि
सादृश्याद्भेद एव न लक्ष्यते ।
पद्माकरप्रविष्टानां
मुखं नालक्षि सुभ्रुवाम् ।। ३४ ।।
हेतोः कुतोऽपि
वैशिष्ट्यात्स्फूर्तिरुन्मीलितं मतम् ।
लक्षितान्युदिते
चन्द्रे पद्मानि च मुखानि च ।। ३५ ।।
अनुमानं च
कार्यादेः कारणाद्यवधारणम् ।
अस्ति
किञ्चिद्यदनया मां विलोक्य स्मितं मनाक् ।। ३६ ।।
अर्थापत्तिः
स्वयं सिध्येत्पदार्थान्तरवर्णनम् ।
स
जितस्त्वन्मुखेनेन्दुः का वार्ता सरसीरुहाम् ।। ३७ ।।
स्यात्काव्यलिङ्गं
वागर्थो नूतनार्थसमर्थकः ।
जितोऽसि मन्द
कन्दर्प मच्चित्तेऽस्ति त्रिलोचनः ।। ३८ ।।
अलङ्कारः
परिकरः साभिप्राये विशेषणे ।
सुधांशुकलितोत्तंसस्तापं
हरतु वः शिवः ।। ३९ ।।
साभिप्राये
विशेष्ये तु भवेत्परिकराङ्कुरः ।
चतुर्णां
पुरुषार्थानां दाता देवश्चतुर्भुजः ।। ४० ।।
अक्रमातिशयोक्तिश्चेद्युगपत्कार्यकारणे
।
आलिङ्गन्ति
समं देव ज्यां शराश्च पराश्च ते ।। ४१ ।।
अत्यन्तातिशयोक्तिस्तत्-पौर्वापर्यव्यतिक्रमे
।
अग्रे मानो
गतः पश्चादनुनीता प्रियेण सा ।। ४२ ।।
चपलातिशयोक्तिस्तु
कार्ये हेतुप्रसक्तिजे ।
यामीति
प्रियपृष्टाया वलयोऽभवदूर्मिका ।। ४३ ।।
सम्बन्धातिशयोक्तिः
स्यात्तदभावेऽपि तद्वचः ।
पश्य
सौधाग्रसंसक्तं विभाति विधुमण्डलम् ।। ४४ ।।
भेदकातिशयोक्तिश्चेदेकस्यैवान्यतोच्यते
।
अहो अन्यैव
लावण्य-लीला बालाकुचस्थले ।। ४५ ।।
रूपकातिशयोक्तिश्चेद्रूप्यं
रूपकमध्यगम् ।
पश्य
नीलोत्पलद्वन्द्वान्निःसरन्ति शिताः शराः ।। ४६ ।।
प्रौढोक्तिस्तदशक्तस्य
तच्छक्तत्वावकल्पनम् ।
कलिन्दजातीररुहाः
श्यामलाः सरलद्रुमाः ।। ४७ ।।
सम्भावनं
यदीत्थं स्यादित्यूहोन्यप्रसिद्धये ।
सिक्तं
स्फटिककुम्भान्तः-स्थितिश्वेतीकृतैर्जलैः ।
मौक्तिकं
चेल्लतां सूते तत्पुष्पैस्ते समं यशः ।। ४८ ।।
वाञ्छितादधिकप्राप्तिरयत्नेन
प्रहर्षणम् ।
दीपं
उद्द्योतयेद्यावत्तावदभ्युदितो रविः ।। ४९ ।।
इष्यमाणविरुद्धार्थ-सम्प्राप्तिस्तु
विषादनम् ।
दीपं
उद्द्योतयेद्यावत्तावन्निर्वाण एव सः ।। ५० ।।
क्रियादिभिरनेकस्य
तुल्यता तुल्ययोगिता ।
सङ्कुचन्ति
सरोजानि स्वैरिणीवदनानि च ।
प्राचीनाचलचूडाग्र-चुम्बिबिम्बे
सुधाकरे ।। ५१ ।।
प्रस्तुताप्रस्तुतानां
च तुल्यत्वे दीपकं मतम् ।
मेधां बुधः
सुधां इन्दुर्बिभर्ति वसुधां भवान् ।। ५२ ।।
आवृत्ते
दीपकपदे भवेदावृत्तिदीपकम् ।
दीप्त्याग्निर्भाति
भातीन्दुः कान्त्या भाति रविस्त्विषा ।। ५३ ।।
वाक्ययोरर्थसामान्ये
प्रतिवस्तूपमा मता ।
तापेन भ्राजते
सूरः शूरश्चापेन राजते ।। ५४ ।।
चेद्बिम्बप्रतिबिम्बत्वं
दृष्टान्तस्तदलंकृतिः ।
स्यान्मल्लप्रतिमल्लत्वे
सङ्ग्रामोद्धामहुंकृतिः ।। ५५ ।।
दृष्टान्तश्चेद्भवन्मूर्तिस्तन्मृष्टा
दैवदुर्लिपिः ।
जाता
चेत्प्राक्प्रभा भानोस्तर्हि याता विभावरी ।। ५६ ।।
वाक्यार्थयोः
सदृशयोरैक्यारोपो निदर्शना ।
या दातुः
सौम्यता सेयं सुधांशोरकलङ्कता ।। ५७ ।।
व्यतिरेको
विशेषश्चेदुपमानोपमेययोः ।
शैला इवोन्नताः
सन्तः किं तु प्रकृतिकोमलाः ।। ५८ ।।
सहोक्तिः
सहभावश्चेद्भासते जनरञ्जनः ।
दिगन्तं
अगमद्यस्य कीर्तिः प्रत्यर्थिभिः सह ।। ५९ ।।
विनोक्तिश्चेद्विना
किंचित्प्रस्तुतं हीनं उच्यते ।
विद्या
हृद्यापि सावद्या बिना विनयसम्पदम् ।। ६० ।।
समासोक्तिः
परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् ।
अयं
ऐन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः ।। ६१ ।।
खण्डश्लेषः
पदानां चेदेकैकं पृथगर्थता ।
उच्छलद्भूरिकीलालः
शुशुभे वाहिनीपतिः ।। ६२ ।।
भङ्गश्लेषः
पदस्तोमस्यैव चेत्पृथगर्थता ।
अजरामरता कस्य
नायोध्येव पुरी प्रिया ।। ६३ ।।
अर्थश्लेषोऽर्थमात्रस्य
यद्यनेकार्थसंश्रयः ।
कुटिलाः
श्यामला दीर्घा कटाक्षाः कुन्तलाश्च ते ।। ६४ ।।
अप्रस्तुतप्रशंसा
स्यात्सा यत्र प्रस्तुतानुगा ।
कार्यकारणसामान्य-विशेषादेरसौ
मता ।। ६५ ।।
कमलैः
कमलावासैः किं किं नासादि सुन्दरम् ।
अप्यम्बुधेः
परं पारं प्रयान्ति व्यवसायिनः ।। ६६ ।।
भवेदर्थान्तरन्यसोऽनुषक्तार्थान्तराभिधा
।
हनूमानब्धिं
अतरद्दुष्करं किं महात्मनाम् ।। ६७ ।।
यस्मिन्विशेषसामान्य-विशेषाः
स विकस्वरः ।
स न जिग्ये
महान्तो हि दुर्धर्षाः क्ष्माधरा इव ।। ६८ ।।
कार्याद्यैः
प्रस्तुतैरुक्तैः पर्यायोक्तिं प्रचक्षते ।
तृणान्यङ्कुरयामास
विपक्षनृपसद्मसु ।। ६९ ।।
उक्तिर्व्याजस्तुतिर्निन्दा-स्तुतिभ्यां
स्तुतिनिन्दयोः ।
कस्ते विवेको
नयसि स्वर्गं पातकिनोऽपि यत् ।। ७० ।।
आक्षेपस्तु
प्रयुक्तस्य प्रतिषेधो विचारणात् ।
चन्द्र
संदर्शयात्मानं अथवास्ति प्रियामुखम् ।। ७१ ।।
गूढाक्षेपो
विधौ व्यक्ते निषेधे चास्फुटे सति ।
हर सीतां सुखं, किं तु चिन्तयान्तकढौकनम् ।। ७२ ।।
विरोधोऽनुपपत्तिश्चेद्गुणद्रव्यक्रियादिषु
।
अमन्दचन्दनस्यन्दः
स्वच्छन्दं दन्दहीति माम् ।। ७३ ।।
श्लेषादिभूर्विरोधश्चेद्विरोधाभासता
मता ।
अप्यन्धकारिणानेन
जगदेतत्प्रकाशते ।। ७४ ।।
असंभवोऽर्थनिष्पत्तावसंभाव्यत्ववर्णनम्
।
को वेद
गोपशिशुकः शैलं उत्पाटयिष्यति ।। ७५ ।।
विभावना
विनापि स्यात्कारणं कार्यजन्म चेत् ।
पश्य
लाक्षारसासिक्तं रक्तं त्वच्चरणद्वयम् ।। ७६ ।।
विशेषोक्तिरनुत्पत्तिः
कार्यस्य सति कारणे ।
नमन्तं अपि
धीमन्तं न लङ्घयति कश्चन ।। ७७ ।।
आख्याते
भिन्नदेशत्वे कार्यहेत्वोरसंगतिः ।
त्वद्भक्तानां
नमत्यङ्गं भङ्गं एति भवक्लमः ।। ७८ ।।
विषमं
यद्यनौचित्यादनेकान्वयकल्पनम् ।
क्वातितीव्रविषाः
सर्पाः क्वासौ चन्दनभूरुहः ।। ७९ ।।
समं औचित्यतोऽनेक-वस्तुसम्बन्धवर्णनम्
।
अनुरूपं कृतं
सद्म हारेण कुचमण्डलम् ।। ८० ।।
विचित्रं
चेत्प्रयत्नः स्याद्विपरीतफलप्रदः ।
नमन्ति
सन्तस्त्रैलोक्यादपि लब्धुं समुन्नतिम् ।। ८१ ।।
अधिकं बोध्यं
आधारादाधेयाधिकवर्णनम् ।
यया व्याप्तं
जगत्तस्यां वाचि मान्ति न ते गुणाः ।। ८२ ।।
अन्योन्यं नाम
यत्र स्यादुपकारः परस्परम् ।
त्रियामा शशिना
भाति शशी भाति त्रियामया ।। ८३ ।।
विशेषः ख्यातं
आधारं विनाप्याधेयवर्णनम् ।
गतेऽपि सूर्ये
दीपस्थास्तमश्छिन्दन्ति तत्कराः ।। ८४ ।।
स्याद्व्याघातोऽन्यथाकारि
वस्त्वन्यक्रियं उच्यते ।
यैर्जगत्प्रीयते
हन्ति तैरेव कुसुमायुधः ।। ८५ ।।
गुम्फः
कारणमाला स्याद्यथाप्राक्प्रान्तकारणैः ।
नयेन श्रीः
श्रिया त्यागस्त्यागेन विपुलं यशः ।। ८६ ।।
गृहीतमुक्तरीत्यर्थ-श्रेणिरेकावली
मता ।
नेत्रे
कर्णान्तविश्रान्ते कर्णौ दोर्मूलदोलिनौ ।। ८७ ।।
दीपकैकावलीयोगान्मालादीपकं
उच्यते ।
स्मरेण हृदये
तस्यास्तेन त्वयि कृता स्थितिः ।। ८८ ।।
सारो नाम
पदोत्कर्षः सारताया यथोत्तरम् ।
सारं सारस्वतं
तत्र काव्यं तत्र शिवस्तवः ।। ८९ ।।
उदारसारश्चेद्भाति
भिन्नोऽभिन्नतया गुणः ।
मधुरं मधु
पीयूषं तस्मात्तस्मात्कवेर्वचः ।। ९० ।।
यथासंख्यं
द्विधार्थाश्चेत्क्रमादेकैकमन्विताः ।
शत्रुं मित्रं
द्विषत्पक्षं जय रञ्जय भञ्जय ।। ९१ ।।
पर्यायश्चेदनेकत्र
स्यादेकस्य समन्वयः ।
पद्मं
मुक्त्वा गता चन्द्रं कामिनीवदनोपमा ।। ९२ ।।
परिवृत्तिर्विनिमयो
न्यूनाभ्यधिकयोर्मिथः ।
जग्राहैकं शरं
मुक्त्वा कटाक्षान्शत्रुयोषिताम् ।। ९३ ।।
परिसंख्या
निषिध्यैकं अन्यस्मिन्वस्तुयन्त्रणम् ।
स्नेहक्षयः
प्रदीपेषु स्वान्तेषु न नतभ्रुवाम् ।। ९४ ।।
विकल्पस्तुल्यबलयोर्विरोधश्चातुरीयुतः
।
कान्ताचित्तेऽधरे
वापि कुरु त्वं वीतरागताम् ।। ९५ ।।
भूयसां
एकसम्बन्ध-भाजां गुम्फः समुच्चयः ।
नश्यन्ति
पश्चात्पश्यन्ति भ्रश्यन्ति च तव द्विषः ।। ९६ ।।
समाधिः
कार्यसौकर्यं कारणान्तरसन्निधेः ।
उत्कण्ठितां च
कलयन्जगामास्तं च भानुमान् ।। ९७ ।।
प्रत्यनीकं
बलवतः शत्रोः पक्षे पराक्रमः ।
जैत्रनेत्रानुगौ
कर्णावुत्पलाभ्यां अधःकृतौ ।। ९८ ।।
प्रतीपं
उपमानस्य हीनत्वं उपमेयतः ।
दृष्टं
चेद्वदनं तस्याः किं पद्मेन किमिन्दुना ।। ९९ ।।
उल्लासोऽन्यमहिम्ना
चेद्दोषो ह्यन्यत्र वर्ण्यते ।
तदभाग्यं
धनस्यैव यन्नाश्रयति सज्जनम् ।। १०० ।।
तद्गुणः
स्वगुणत्यागादन्यतः स्वगुणोदयः ।
पद्मरागारुणं
नासा-मौक्तिकं तेऽधरश्रितम् ।। १०१ ।।
पुनः
स्वगुणसम्प्राप्तिर्विज्ञेया पूर्वरूपता ।
हरकण्ठांशुलिप्तोऽपि
शेषस्त्वद्यशसा सितः ।। १०२ ।।
यद्वस्तुनोऽन्यथा
रूपं तथा स्यात्पूर्वरूपता ।
दीपे
निर्वापिते ह्यासीत्काञ्चीरत्नैरहर्महः ।। १०३ ।।
सङ्गतान्यगुणानङ्गी-कारं
आहुरतद्गुणम् ।
विशन्नपि
रवेर्मध्यं शीत एव सदा शशी ।। १०४ ।।
प्राक्सिद्धस्वगुणोत्कर्षोऽनुगुणः
परसन्निधेः ।
कर्णोत्पलानि
दधते कटाक्षैरपि नीलताम् ।। १०५ ।।
अवज्ञा
वर्ण्यते वस्तु गुणदोषाक्षमं यदि ।
म्लायन्ति यदि
पद्मानि का हानिरमृतद्युतेः ।। १०६ ।।
प्रश्नोत्तरं
क्रमेणोक्तौ स्यूतं उत्तरं उत्तरम् ।
यत्रासौ वेतसी
पान्थ तत्रासौ सुतरा सरित् ।। १०७ ।।
पिहितं
परवृत्तान्त-ज्ञातुरन्यस्य चेष्टितम् ।
प्रिये
गृहागते प्रातः कान्ता तल्पं अकल्पयत् ।। १०८ ।।
व्याजोक्तिः
शङ्कमानस्य छद्मना वस्तुगोपनम् ।
सखि पश्य
गृहाराम-परागैरस्मि धूसरा ।। १०९ ।।
वक्रोक्तिः श्लेषकाकुभ्यां
वाच्यार्थान्तरकल्पनम् ।
मुञ्च मानं
दिनं प्राप्तं मन्द नन्दी हरान्तिके ।। ११० ।।
स्वाभावोक्तिः
स्वभावस्य जात्यादिषु च वर्णनम् ।
कुरङ्गैरुत्तरङ्गाक्षि
स्तब्धकर्णैरुदीक्ष्यते ।। १११ ।।
भाविकं
भूतभाव्यर्थ-साक्षाद्दर्शनवर्णनम् ।
अलं
विलोकयाद्यापि युद्ध्यन्तेऽत्र सुरासुराः ।। ११२ ।।
देशात्मविप्रकृष्टस्य
दर्शनं भाविकच्छविः ।
त्वं
वसन्हृदये तस्याः साक्षात्पञ्चेषुरीक्ष्यसे ।। ११३ ।।
उदात्तं
ऋद्धेश्चरितं श्लाघ्यं चान्योपलक्षणम् ।
सानौ यस्याभवद्युद्धं
तद्धूर्जटिकिरीटिनोः ।। ११४ ।।
अत्युक्तिरद्भुतातथ्य-शौर्यौदार्यादिवर्णनम्
।
त्वयि दातरि
राजेन्द्र याचकाः कल्पशाखिनः ।। ११५ ।।
रसभावतदाभास-भावशान्तिनिबन्धनाः
।
रसवत्प्रेयऊर्जस्वि-समाहितमयाभिधाः
।। ११६ ।।
भावानामुदयः
सन्धिः शबलत्वं इति त्रयः ।
अलङ्कारानिमान्सप्त
केचिदाहुर्मनीषिणः ।। ११७ ।।
शुद्धिरेकप्रधानत्वं
तथा संसृष्टिसंकरौ ।
एतेषां एव
विन्यासान्नालङ्कारान्तराण्यमी ।। ११८ ।।
सर्वेषां च
प्रतिद्वन्द्व-प्रतिच्छन्दभिदाभृताम् ।
उपाधिः
क्वचिदुद्भिन्नः स्यादन्यत्रापि संभवात् ।। ११९ ।।
माला परंपरा
चैषां भूयसां अनुकूलके ।
मनुष्ये भवतः
क्वापि ह्यलङ्काराङ्गतां गते ।। १२० ।।
शब्दे पदार्थे
वाक्यार्थे वाक्यार्थस्तबके तथा ।
एते भवन्ति
विन्यासाः स्वभावातिशयात्मकाः ।। १२१ ।।
कस्याप्यतिशयस्योक्तेरित्यन्वर्थविचारणात्
।
प्रायेणामी
ह्यलंकारा भिन्ना नातिशयोक्तितः ।। १२२ ।।
अलंकारप्रधानेषु
दधानेष्वपि साम्यताम् ।
वैलक्षण्यं प्रतिव्यक्ति
प्रतिभाति मुखेष्विव ।। १२३ ।।
अलंकारेषु
तथ्येषु यद्यनास्था मनीषिणाम् ।
तदर्वाचीनभेदेषु
नाम्नां नाम्नाय इष्यताम् ।। १२४ ।।
महादेवः
सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
चतुर्थः
सैकोयं सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ।। १२५ ।।
षष्ठो मयूखः
आलम्बनोद्दीपनात्मा
विभावः कारणं द्विधा ।
कार्योऽनुभावो
भावश्च सहायो व्यभिचार्यपि ।। १ ।।
गलद्वेद्यान्तरोद्भेदो
हृदयेष्वजडात्मनाम् ।
मिलन्मलयजालेप
इवाह्लादं विकासयन् ।। २ ।।
काव्ये नाट्ये
च कार्ये च विभावाद्यैर्विभावितः ।
आस्वाद्यमानैकतनुः
स्थायी भावो रसः स्मृतः ।। ३ ।।
रत्याख्यस्थायिभावात्मा
वल्लभादिविभावितः ।
आलस्येर्ष्याजुगुप्साभ्यो
विना संचारिभिर्युतः ।। ४ ।।
अनुभावैः
कटाक्षाद्यैरुन्मादाद्यैर्यथाक्रमम् ।
सम्भोगो
विप्रलम्भश्च शृङ्गारो द्विविधो मतः ।। ५ ।।
हासस्थायी रसो
हास्यो विभावद्यैर्यथाक्रमम् ।
वैरूप्यफुल्लगण्डत्वावहित्थाद्यैः
समन्वितः ।। ६ ।।
अभीष्टविप्रयोगाश्रु-पातग्लान्यादिभिः
क्रमात् ।
विभावाद्यैर्युतः
शोक-स्थायी स्यात्करुणो रसः ।। ७ ।।
क्रोधस्थायी
रसो रौद्रो विभावाद्यैः समन्वितः ।
मात्सर्यहस्तनिष्पेष-संमोहाद्यैर्यथाक्रमम्
।। ८ ।।
उत्साहाख्यस्थायिभावः
प्रभावादिविभावभूः ।
वीरोऽनुभावैः
स्थैर्याद्यैर्भावैर्गर्वादिभिर्युतः ।। ९ ।।
व्याघ्रादिभिर्विभावैस्तु
वेपिताद्यनुभावभृत् ।
भावैर्मोहादिभिर्युक्तो
भयस्थायी भयानकः ।। १० ।।
स्थायी
जुगुप्सा बीभत्सो विभावाद्या यथाक्रमम् ।
अनिष्टेक्षणनिष्ठीव-मोहाद्या
यत्र संमताः ।। ११ ।।
अद्भुतो
विस्मयस्थायी मायादिकविभावभूः ।
रोमाञ्चाद्यनुभावोऽयं
स्तम्भादिव्यभिचारिकः ।। १२ ।।
निर्वेदस्थायिकः
शान्तः सत्सङ्गादिविभावभूः ।
क्षमादिकानुभावोऽयं
स्तम्भादिव्यभिचारिकः ।। १३ ।।
रतिर्देवादिविषया
सन्ति च व्यभिचारिणः ।
वेद्यमाना
निगद्यन्ते भावाः साहित्यवेदिभिः ।। १४ ।।
निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः
।
आलस्यं चैव
दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ।। १५ ।।
व्रीडा चपलता
हर्ष आवेगो जडता तथा ।
गर्वो विषाद
औत्सुक्यं निद्रापस्मार एव च ।। १६ ।।
सुप्तं
प्रबोधोऽमर्षश्चाप्यवहित्थं अथोग्रता ।
मतिर्व्याधिस्तथोन्मादस्तथा
मरणं एव च ।। १७ ।।
त्रासश्चैव
वितर्कश्च विज्ञेया व्यभिचारिणः ।
त्रयस्त्रिंशदिमे
भावाः समाख्यातास्तु नामतः ।। १८ ।।
सर्वसाधारणप्रेम-प्रश्रयादिस्वरूपया
।
अनौचित्या
रसाभासा भावाभासाश्च कीर्तिताः ।। १९ ।।
भावस्य
शान्तिरुदयः सन्धिः शबलता तथा ।
काव्यस्य
काञ्चनस्येव कुङ्कुमं कान्तिसंपदे ।। २० ।।
आतुर्यं
आसप्तमं च यथेष्टैरष्टमादिभिः ।
समासः
स्यात्पदैर्न स्यात्समासः सर्वथापि च ।। २१ ।।
पाञ्चालिकी च
लाटीया गौडीया च यथारसम् ।
वैदर्भी च
यथासंख्यं चतस्रो रीतयः स्मृताः ।। २२ ।।
मधुरायां
समाक्रान्ता वर्गस्थाः पञ्चमैर्निजैः ।
लकारश्च
लसंयुक्तो ह्रस्वव्यवहितौ रणौ ।। २३ ।।
रेफाक्रान्ता
वर्ग्ययणाष्टवर्गात्पञ्चमादृते ।
कपाक्रान्तस्तवर्गः
स्यात्प्रौढायां च कमूर्धता ।। २४ ।।
सर्वैरूर्ध्वैः
सकारस्य सर्वै रेफस्य सर्वथा ।
रहोर्द्वेधा
तु संयोगः परुषायां शषौ स्वतः ।। २५ ।।
लकारोऽन्यैरसंयुक्तो
लघवो घभधा रसौ ।
ललितायां तथा
शेषा भद्रायां इति वृत्तयः ।। २६ ।।
अङ्गभङ्गोल्लसल्लीला
तरुणी स्मरतोरणम् ।
तर्ककर्कशपूर्णोक्ति-प्राप्तोत्कटधियां
वृथा ।। २७ ।।
वीप्सोत्सर्पन्मुखाग्रार्द्रं
बर्ही जह्रे कृशस्तृषम् ।
ललना रभसं
धत्ते घनाटोपे महीयसि ।। २८ ।।
महादेवः
सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
मयूखस्तेनासौ
सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु महति ऋतुसंख्यः ।। २९ ।।
सप्तमो मयूखः
वृत्तिभेदैस्त्रिभिर्युक्ता
स्रोतोभिरिव जाह्नवी ।
भारती भाति गम्भीरा
कुटिला सरला क्वचित् ।। १ ।।
सांमुख्यं
विदधानायाः स्फुटं अर्थान्तरे गिरः ।
कटाक्ष इव
लोलाक्ष्या व्यापारो व्यञ्जनात्मकः ।। २ ।।
अविवक्षितवाच्यस्य
द्वौ भेदौ वाच्यं एव चेत् ।
अर्थान्तिरे
संक्रमितं अत्यन्तं वा तिरस्कृतम् ।। ३ ।।
द्वौ
विवक्षितवाच्यस्य लक्ष्यालक्ष्यक्रमात्मकौ ।
चत्वारिंशद्युतैकेन
भेदाः षट्चानयोः क्रमात् ।। ४ ।।
त्रिधा
शब्दार्थतद्युग्म-शक्तिजन्मा स्फुटक्रमात् ।
रसभावतदाभास-प्रमुखस्त्वस्फुटक्रमात्
।। ५ ।।
वस्त्वलङ्कारयोर्व्यक्तेर्भेदौ
द्वौ शब्दशक्तिजौ ।
अर्थशक्तिसमुत्थस्य
भेदा द्वादश तद्यथा ।। ६ ।।
चत्वारो
वस्त्वलंकारं अलंकारस्तु वस्तु यत् ।
अलंकारं
अलंकारो वस्तु वस्तु व्यनक्ति तत् ।। ७ ।।
वक्तुः
कविनिबद्धस्य कवेर्वा प्रौढिनिर्मितः ।
स्वसिद्धो वा
व्यञ्जकोऽर्थश्चत्वारस्त्रिगुणास्ततः ।। ८ ।।
शब्दार्थोभयभूरेकः
स च वाक्यैकसंश्रयः ।
पदैकदेशे
रचना-वर्णवाक्यपदेष्वपि ।। ९ ।।
प्रबन्धे चेति
षोढासौ रसाद्याख्योऽस्फुटक्रमः ।
एषु
सप्तदशस्वेकं परित्यज्यास्फुटक्रमम् ।। १० ।।
ये षोडशाद्या
द्विगुणास्ते स्युर्वाक्यपदाश्रयात् ।
प्रबन्धेऽपि
द्वादश स्युरर्थशक्तिभुवो भिदः ।। ११ ।।
द्वात्रिंशद्द्वादशैकः
षट्सर्वसंकलितध्वनेः ।
भेदाः
स्युरेकपञ्चाशत्संभिन्नास्तु सहस्रशः ।। १२ ।।
वक्तृस्यूतं
बोधयितुं व्यङ्ग्यं वक्तुरभीप्सितम् ।
स्वाङ्कुरितं
अतद्रूपं स्वयं उल्लसितं गिरः ।। १३ ।।
कश्चित्साधारणः
कश्चिदामन्त्र्य प्रतिबोधितः ।
कश्चित्तटस्थः
कश्चिच्च बोधितप्रतिबोधितः ।। १४ ।।
इत्येवं
बोद्धृवैचित्र्याद्वक्तृस्यूतं चतुर्विधम् ।
उपेक्षानिह्नवाभ्यां
च द्विधा स्वाङ्कुरितं मतम् ।। १५ ।।
भूतादिकालभेदेन
निह्नवः स्यादनेकधा ।
अनेनापि
प्रभेदेन व्यक्तिवल्ली विजृम्भते ।। १६ ।।
नानाप्रभेदा
नियता क्वचित्प्रकरणादिना ।
अर्थेऽर्थं
अन्यं यं वक्ति तद्वाच्यव्यङ्ग्यं इष्यते ।। १७ ।।
महादेवः
सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
मयूखस्तेनासौ
सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु महति मुनिसंख्यः ।। १८ ।।
अष्टमो मयूखः
यद्व्यज्यमानं
मनसः स्तैमित्याय स नो ध्वनिः ।
अन्यथा तु
गुणीभूत-व्यङ्ग्यं आपतितं त्रिधा ।। १ ।।
व्यक्तिरेव
क्वचिद्व्यङ्ग्यः क्वचिदर्थस्वभावतः ।
क्वचिच्चारुतरस्याग्रे
स विमुञ्चति चारुताम् ।। २ ।।
अगूढं कलयेदर्थान्तरसंक्रमितादिकम्
।
विस्मृतः किं
अपांनाथ स त्वया कुम्भसंभवः ।। ३ ।।
अपरस्य
रसादेश्चेदङ्गमन्यद्रसादिकम् ।
हा हा!
मत्कुचकाश्मीर-लिप्तं भिन्नं उरः शरैः ।। ४ ।।
तथा वाच्यस्य
सिद्ध्यङ्गं नौरर्थो वारिधेर्यथा ।
संश्रित्य
तरणिं धीरास्तरन्ति व्याधिवारिधीन् ।। ५ ।।
अस्फुटं
स्तनयोरत्र कोकसादृश्यवन्मतम् ।
कुङ्कुमाक्तं
स्तनद्वन्द्वं मानसं मम गाहते ।। ६ ।।
संदिग्धं यदि
संदेहो दैर्घ्याद्युत्पलयोरिव ।
संप्राप्ते
नयने तस्याः श्रवणोत्तंसभूमिकाम् ।। ७ ।।
तुल्यप्राधान्यं
इन्दुत्वं इव वाच्येन साम्यभृत् ।
कान्ते
त्वदाननरुचा ग्लानिं एति सरोरुहम् ।। ८ ।।
असुन्दरं यदि
व्यङ्ग्यं स्याद्वाच्यादमनोहरम् ।
सरस्यामीलदम्भोजे
चक्रः कान्तां विलोकते ।। ९ ।।
काकुस्थं
प्रणतोऽम्भोधिरद्य माद्यतु रावणः ।
इत्यष्टधा
गुणीभूत-व्यङ्ग्यं अङ्गीकृतं बुधैः ।। १० ।।
महादेवः
सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
मयूखस्तेनासौ
सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति वसुसंख्यः सुखयतु ।। ११ ।।
नवमो मयूखः
मुख्यार्थस्याविवक्षायां
पूर्वार्वाची च रूढितः ।
प्रयोजनाच्च
संबद्धं वदन्ती लक्षणा मता ।। १ ।।
लक्षणीयस्वशब्दस्य
मीलनामीलनाद्द्विधा ।
लक्षणा सा
त्रिधा सिद्ध-साध्यसाध्याङ्गभेदतः ।। २ ।।
स्फुटास्फुटप्रभेदेन
प्रयोजनं अपि द्विधा ।
विदुः स्फुटं
तटस्थत्वादर्थगत्वाद्द्विधा बुधाः ।। ३ ।।
अस्फुटं
चार्थनिष्ठत्वात्तटस्थत्वादपि द्विधा ।
लक्ष्यलक्षकनिष्ठत्वादर्थसंस्थं
अपि द्विधा ।। ४ ।।
लक्षकस्थं
स्फुटं यत्र सा विचक्षणलक्षणा ।
अस्फुटत्वं
तटस्थत्वं लक्ष्यस्थत्वं अमुष्य च ।। ५ ।।
अन्यास्तिस्र
इति व्यक्ता शक्तितः सा चतुर्विधा ।
इन्दुरेवैष
तद्वक्त्रं उत्कर्षो लक्ष्यते मुखे ।। ६ ।।
प्रदीपं
वर्धयेत्यत्र तटस्थं मङ्गलोदयः ।
पटोऽयं दग्ध
इत्यादौ स्फुटं नास्ति प्रयोजनम् ।। ७ ।।
अमृतं सूक्तं
इत्यादौ लक्ष्यस्थं अतिहृद्यता ।
आभिमुख्यात्संनिधानात्तथाकारप्रतीतितः
।। ८ ।।
कार्यकारणभावात्सा
वाच्यवाचकभावतः ।
इत्येवमादेः
संबन्धात्किंचान्यस्माच्चतुष्टयात् ।। ९ ।।
सादृश्यात्समवायात्सा
वैपरीत्यात्क्रियान्वयात् ।
सारोपाध्यवसानाख्ये
गौणशुद्धे पृथक्पृथक् ।। १० ।।
गौणं सारोपं
उद्दिष्टं इन्दुर्मुखं इतीदृशम् ।
गौणं
साध्यवसानं स्यादिन्दुरेवेदं ईदृशम् ।। ११ ।।
शुद्धं सारोपं
उद्दिष्टं आयुर्घृतं इतीदृशम् ।
शुद्धं
साध्यवसानं स्यादायुरेवेदं ईदृशम् ।। १२ ।।
उपादानार्पणद्वारे
द्वे चान्ये इति षड्विधा ।
कुन्ता
विशन्ति गङ्गायां घोषो निवसतीति च ।। १३ ।।
लक्ष्यलक्षकवैशिष्ट्य-वैशिष्ट्याद्द्विविधा
पुनः ।
सरसं काव्यं
अमृतं विद्या स्थिरतरं धनम् ।। १४ ।।
तथा
सहेतुरतथाभेदभिन्ना च कुत्रचित् ।
सौन्दर्येणैष
कन्दर्पः सा च मूर्तिमती रतिः ।। १५ ।।
शब्दे पदार्थे
वाक्यार्थे संख्यायां कारके तथा ।
लिङ्गे चेयं
अलङ्काराङ्कुरबीजतया स्थिता ।। १६ ।।
महादेवः
सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
मयूखस्तेनासौ
सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति नवसंख्यः सुखयतु ।। १७ ।।
दशमो मयूखः
धर्मं
कंचित्पुरस्कृत्य प्रायः शब्दः प्रवर्तते ।
ययार्थं
स्पष्टं आचष्टे शब्दस्तां अभिधां विदुः ।। १ ।।
जात्या गुणेन
क्रियया वस्तुयोगेन संज्ञया ।
निर्देशेन तथा
प्राहुः षड्विधां अभिधां बुधाः ।। २ ।।
गौर्नीलः
पाचको दण्डी डित्थः कंस इति क्रमात् ।
कं संहिनस्ति
कंसारिर्नरं च कं समाश्रितम् ।। ३ ।।
न
योगादेरायतनं न सङ्केतनिकेतनम् ।
वृत्त्या
निर्देशशब्दोऽयं मुख्यया स्वाभिधेयया ।। ४ ।।
पीयूषवर्षप्रभवं
चन्द्रालोकमनोहरम् ।
सुधानिधानं
आसाद्य श्रयध्वं विबुधा मुदम् ।। ५ ।।
जयन्ति याज्ञिकश्रीमन्-महादेवाङ्गजन्मनः
।
सूक्तिपीयूषवर्षस्य
जयदेवकवेर्गिरः ।। ६ ।।
महादेवः
सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
मयूखस्तेनासौ
सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति दशसंख्यः सुखयतु ।। ७ ।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें