श्रीमहाकविभासप्रणीतम्
स्वप्नवासवदत्तम्
प्रथमोऽङ्कः
(नान्द्यन्ते ततः प्रविशति सूत्रधारः।)
सूत्रधारः -
उदयनवेन्दुसवर्णावासवदत्ताबलौ बलस्य त्वाम् ।
पद्मावतीर्णपूर्णौ वसन्तकम्रौ भुजौ पाताम् ।। 1 ।।
एवमार्यमिश्रान् विज्ञापयामि । अये । किं नु खलु मयि विज्ञापनव्यग्रे
शब्द इव श्रूयते । अङ्ग । पश्यामि ।
(नेपथ्ये)
उस्सरह उस्सरह अय्या ! उस्सरह । (उत्सरतोत्सरतार्या ! उत्सरत ।)
सूत्रधारः - भवतु, विज्ञातम् ।
भृत्यैर्मगधराजस्य स्निग्धैः
कन्यानुगामिभिः ।
घृष्टमुत्सार्यते सर्वस्तपोवनगतो जनः ।। 2 ।। (निष्क्रान्तः)
।। इति स्थापना ।।
(प्रविश्य)
भटौ - उस्सरह उस्सरह अय्या ! उस्सरह । (उत्सरतोत्सरतार्याः उत्सरत ।)
(ततः प्रविशति परिव्राजकवेषो यौगन्धरायणः, आवन्तिकावेषधारिणी
वासवदत्ता च।)
यौगन्धरायणः - (कर्णं दत्त्वा) कथमिहाप्युत्सार्यते । कुतः,
धीरस्याश्रमसंश्रितस्य वसतस्तुष्टस्य
वन्यैः फलै-
र्मानार्हस्य जनस्य वल्कलवतस्त्रासः समुत्पाद्यते ।
उत्सिक्तो विनयादपेतपुरुषो भाग्यैश्चलैर्विस्मितः
कोऽयं भो! निभृतं तपोवनमिदं ग्रामीकरोत्याज्ञया ।। 3 ।।
वासवदत्ता - अय्य! को एसो
उस्सारेदि । (आर्य! क एष उत्सारयति?)
यौगन्धरायणः - भवति! यो धर्मादात्मानमुत्सारयति ।
वासवदत्ता - अय्य। ण हि एव्वं वत्तुकामा, अहं
वि णाम उस्सारइदव्वा होमि त्ति। (आर्य! न ह्येवं वक्तुकामा । अहमपि
नामोत्सारयितव्या भवामीति ।)
यौगन्धरायणः – भवति ! एवमनिज्र्ञातानि दैवतान्यवधूयन्ते ।
वासवदत्ता - अय्य! तह परिस्समो परिखेदं ण उप्पादेदि, जह अअं परिभवो । (आर्य! तथा परिश्रमः परिखेदं नोत्पादयति, यथायं परिभवः । )
यौगन्धरायणः - भुक्तोज्झित एष विषयोऽत्रभवत्या । नात्र चिन्ता
कार्या । कुतः,
पूर्वं
त्वयाप्यभिमतं गतमेवमासी-
च्छ्लाध्यं
गमिष्यसि पुनर्विजयेन भर्तुः ।
कालक्रमेण
जगतः परिवर्तमाना
चक्रारपंक्तिरिव
गच्छति भाग्यपंक्तिः ।। 4 ।।
भटौ - उस्सरह अय्या ! उस्सरह । (उत्सरतार्याः उत्सरत ।) (ततः प्रविशिति
काञ्चुकीयः)
काञ्चुकीयः – सम्भषक ! न खलु न खलूत्सारणा कार्या । पश्य –
परिहरतु भवान् नृपापवादं न
परुषमाश्रमवासिषु प्रयोज्यम् ।
नगरपरिभवान् विमोक्तुमेते वनमभिगम्य मनस्विनो वसन्ति ।। 5 ।।
भटौ- अय्य! तह (आर्य! तथा।) (इति
निष्क्रान्तौ)
उभौ - अय्य! तह (आर्य! तथा।) (निष्क्रान्तौ)
यौगन्धरायणः - हन्त सविज्ञानमस्य दर्शनम् । वत्से ! उपसर्पावस्तावदेनम् ।
वासवदत्ता - अय्य ! तह । (आर्य !
तथा ।)
यौगन्धरायणः - (उपसृत्य) भोः किंकृतेयमुत्सारणा ।
काञ्चुकीयः - भोस्तपस्विन् !
यौगन्धरायणः - (आत्मगतम्) तपस्विन्निति गुणवान् खल्वयमालापः ।
अपरिचयात्तु न शिल्ष्यते मे मनसि ।
काञ्चुकीयः - भोः ! श्रूयताम् । एषा खलु
गुरुभिरभिहितनामधेयस्यास्माकं महाराजदर्शकस्य भगिनी पद्मावती नाम । सैषा नो
महाराजमातरं महादेवीमाश्रमस्थामभिगम्यानुज्ञाता तत्रभवत्या राजगृहमेव यास्यति ।
दद्यास्मि-न्नाश्रमपदे वासोऽभिप्रेतोऽस्याः । तद् भवन्तः –
तीर्थोदकानि
समिधः कुसुमानि दर्भान्
स्वैरं
वनादुपनयन्तु तपोधनानि ।
धर्मप्रिया
नृपसुता न हि धर्मपीडा-
मिच्छेत्
तपस्विषु कुलव्रतमेतदस्याः ।। 6 ।।
यौगन्धरायणः - (स्वगतम्) एवम् ।
एषा सा मगधराजपुत्री पद्मावती नाम, या पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वामिनो देवी
भविष्यतीति । ततः, -
प्रद्वेषो बहुमानो वा
संकल्पादुपजायते ।
भर्तृदाराभिलाषित्वादस्यां मे महती स्वता ।। 7 ।।
वासवदत्ता - (स्वगतम्)
राअदारिअत्ति सुणिअ भइणिआसिणेहो वि मे एत्थ सम्पज्जइ । (राजदारिकेति श्रुत्वा
भगिनिकास्नेहोऽपि मेऽत्र संपद्यते ।)
(ततः प्रविशति पद्मावती सपरिवारा चेटी च)
चेटी - एदु एदु भट्टिदारिआ, इदं अस्समपदं,
पविसदु।। (एत्वेतु भर्तृदारिका, इदमाश्रमपदम्!
प्रविशतु।)
(ततः प्रविशत्युपविष्टा तापसी)
तापसी - साअदं राअदारिआए ।। (स्वागतं राजदारिकायाः।)
वासवदत्ता - (स्वगतम्) इअं सा राअदारिआ। अभिजणाणुरूवं खु से रूवं
(इयं सा राजदारिका। अभिजनानुरूपं खल्वस्या रूपम्।)
पद्मावती - अय्ये ! वन्दामि । (आर्ये !
वन्दे ।)
तापसी - चिरं जीव । पविस । जादे ! पविस ।
तवोवणाणि णाम अदिहिजणस्स सअगेहं । (चिरं जीव। प्रविश जाते ! प्रविश । तपोवनानि नामातिथिजनस्य स्वगेहम् ।)
पद्मावती - भोदु भोदु । अय्ये ! विस्सत्थम्हि
। इमिणा बहुमाणवअणेण अणुग्गहिदम्हि ।। (भवतु, भवतु । आर्ये !
विश्वस्तास्मि । अनेन बहुमानवचनेनानुगृहीतास्मि ।)
वासवदत्ता - (स्वगतम्) ण हि रूवं एव्व, वाआ वि
खु से महुरा । (न हि रूपमेव, वागपि खल्वस्या मधुरा ।)
तापसी - भद्दे ! इमं दाव भद्दमुहस्स
भइणिअं कोच्चि राआ ण वरेदि । (भद्रे! इमां तावद् भद्रमुखस्य भगिनिकां कश्चिद् राजा
न वरयति ?)
चेटी - अत्थि राआ पज्जोदो णाम उज्जइणीए । सो दारअस्स कारणादो
दूदसंपादं करेदि । (अस्ति राजा प्रद्योतो नामोज्जयिन्याः । स दारकस्य कारणाद्
दूतसंपातं करोति ।)
वासवदत्ता - (आत्मगतम्) भोदु भोदु । एसा अ अत्तणीआ दाणिं संवुत्ता ।
(भवतु भवतु । एषा चात्मीयेदानीं संवृत्ता ।)
तापसी - अरिहा खु इअं आइदी इमस्स बहुमाणस्स । उभआणि राअउलाणि
महत्तराणि त्ति सुणीअदि। (अर्हा खल्वियमाकृतिरस्य बहुमानस्य । उभे राजकुले महत्तरे
इति श्रूयते ।)
पद्मावती - अय्य! किं दिट्ठो मुणिजणो उत्ताणं अणुग्गहीदुं ?
अभिप्पेदप्पदाणेण तवस्सिजणो उवणिमन्तीअदु दाव को किं एत्थ इच्छदि
त्ति । (आर्य! किं दृष्टो मुनिजन आत्मानमनुग्रहीतुम्?
अभिप्रेतप्रदानेन तपस्विजन उपनिम-न्त्र्यतां तावत् कः
किमत्रेच्छतीति?)
काञ्चुकीयः - यदभिप्रेतं भवत्या । भो भो आश्रमवासिनस्तपस्विनः।
श्रृण्वन्तु श्रृण्वन्तु भवन्तः। इहात्रभवती मगधराजपुत्री अनेन विस्रम्भेणोत्पादितविस्रम्भा
धर्मार्थमर्थेनोपनिमन्त्रयते ।
कस्यार्थः कलशेन को मृगयते वासो
यथानिश्चितं
दीक्षां पारितवान् किमिच्छति पुनर्देयं गुरोर्यद् भवेत् ।
आत्मानुग्रहमिच्छतीह नृपजा धर्माभिरामप्रिया
यद् यस्यास्ति समीप्सितं वदतु तत् कस्याद्य किं दीयताम् ।। 8
।।
यौगन्धरायण: - हन्त! दृष्ट उपायः
(प्रकाशम्) भोः अहमर्थी ।
पद्मावती - दिट्ठिआ सहलं मे तवोवणाभिगमणं । (दिष्टया सफलं मे
तपोवनाभिगमनम् ।)
तापसी - संतुट्ठतपस्सिजणं इदं अस्समपदं । आअन्तुएण इमिणा होदव्वं । (सन्तुष्टतपस्विजनमिदमाश्रमपदम् । आगन्तुकेनानेन भवितव्यम् ।)
काञ्चुकीय: - भोः किं क्रियताम् ।
यौगन्धरायण: - इयं मे स्वसा । प्रोषितभर्तृकामिमामिच्छाम्यत्रभवत्या
कञ्चित् कालं परिपाल्यमानाम्। कुतः –
कार्यं नैवार्थैर्नापि भोगैर्न
वस्त्रैर्नाहं काषायं वृत्तिहेतोः प्रपन्नः ।
धीरा कन्येयं दृष्टधर्मप्रचारा शक्ता चारित्रं रक्षितुं मे भगिन्याः
।। 9 ।।
वासवदत्ता - (आत्मगतम्) हं, इह मं णिक्खिविदुकामो अय्ययोगेन्धराअणो । होदु, अविआरिअ कमं ण करिस्सदि। (हम्। इह मां निक्षेप्तुकाम आर्ययौगन्धरायणः ।
भवतु, अविचार्य क्रमं न करिष्यति।)
काञ्चुकीय – भवति ! महतो खल्वस्य व्यपाश्रयणा। कथं प्रतिजानीमः कुतः
–
सुखमर्थो भवेद्दातुं सुखं प्राणाः
सुखं तपः।
सुखमन्यद् भवेत् सर्वं दुःखं न्यासस्य रक्षणम्।। 10 ।।
पद्मावती - अस्य! पढमं उग्घोसिअ
को कि इच्छदित्ति अजुतं दाणिं विआरिदुं । जं एसो भणादि, तं अणुचिट्ठदु अय्यो । (आर्य ! प्रथममुद्धोष्य
कः किमिच्छतीत्ययुक्तमिदानीं विचारयितुम् । यदेष भणति तदनुतिष्ठत्वार्यः ।
काञ्चुकीय: - अनुरूपमेतद्भवत्याभिहितम् ।
चेटी - चिरं जीवदु भट्टिदारिआ एवं सच्चवादिणी । (चिरं जीवतु
भर्र्तृदारिकैवं सत्यवादिनी ।)
तापसी - चिरं जीवदु भद्दे! (चिरं जीवतु भद्रे !)
काञ्चुकीय: - भवति! तथा । (उपागम्य) भो ! अभ्युपगतमत्रभवतो भगिन्याः परिपालनमत्रभवत्या।
यौगन्धरायणः - अनुगृहीतोऽस्मि तत्रभवत्या। वत्से ! उपसर्पात्रभवतीम् ।
वासवदत्ता - (आत्मगतम्) का गई । एसा गच्छामि मन्दभाआ । (का गतिः ।
एषा गच्छामि मन्दभागा ।)
पद्मावती - भोदु, भोदु । अत्तणीआ दाणिं
संवुत्ता । (भवतु, भवतु । आत्मीयेदानीं संवृत्ता ।)
तापसी - जा ईदिसी से आइदी, इयं वि
राअदारिअत्ति तक्केमि । (या ईदृश्यस्या आकृतिः, इयमपि राजदारिकेति तर्कयामि ।)
चेटी - सुट्ठु अय्या भणादि । अहं वि अणुहूदसुहत्ति पेवखामि ।
(सुष्ठु आर्या भणति । अहमप्यनुभूतसुखेति पश्यामि ।)
यौगन्धरायणः - (आत्मगतम्) हन्त भोः ! अर्धमवसितं
भारस्य । यथा मन्त्रिभिः सह समर्थितं, तथा परिणमति । ततः
प्रतिष्ठिते स्वामिनि तत्रभवतीमुपनयतो मे इहात्रभवती मगधराजपुत्री विश्वासस्थानं
भविष्यति । कुतः –
पद्मावती
नरपतेर्महिषी भवित्री
दृष्टा
विपत्तिरथ यैः प्रथमं प्रदिष्टा ।
तत्प्रत्ययात् कृतमिदं न हि सिद्धवाक्या-
न्युत्क्रम्य
गच्छति विधिः सुपरीक्षितानि ।। 11।।
(ततः प्रविशति ब्रह्मचारी)
ब्रह्मचारी - (ऊर्ध्वमवलोक्य)
स्थितो मध्याह्नः । दृढमस्मि परिश्रान्तः । अथ कस्मिन् प्रदेशे विश्रमयिष्ये । (परिक्रम्य) भवतु, दृष्टम् । अभितस्तपोवनेन
भवितव्यम् । तथाहि –
विस्रब्धं हरिणाश्चरन्त्यचकिता
देशागतप्रत्यया
वृक्षाः पुष्पफलैः समृद्धविटपाः सर्वे दयारक्षिताः ।
भूयिष्ठं कपिलानि गोकुलधनान्यक्षेत्रवत्यो दिशो
निःसंदिग्धमिदं तपोवनमयं धूमो हि बह्वाश्रयः ।। 12 ।।
यावत् प्रविशामि । (प्रविश्य) अये
आश्रमविरुद्धः खल्वेष जनः । (अन्यतो विलोक्य) अथवा तपस्विजनोऽप्यत्र ।
निर्दोषमुपसर्पणम् । अये स्त्रीजनः ।
काञ्चुकीयः - स्वैरं स्वैरं प्रविशतु भवान् । सर्वजनसाधारणमाश्रमपदं
नाम।
वासवदत्ता - हम् ।
पद्मावती - अम्मो परपुरुसदंसणं परिहरदि अय्या । भोदु सुपरिपालणीओ
खुमण्णासो । (अम्मो परपुरुषदर्शनं परिहरत्यार्या । भवतु सुपरिपालनीयः खलु
मन्न्यासः)
काञ्चुकीय: - भोः! पूर्वं प्रविष्टाः स्मः । प्रतिगृह्यतामतिथिसत्कारः
।
ब्रह्मचारी - (आचम्य) भवतु, भवतु ।
निवृत्तपरिश्रमोऽस्मि ।
यौगन्धरायणः – भोः ! कुत आगम्यते, क्व
गन्तव्यं क्वाधिष्ठानमार्यस्य ?
ब्रह्मचारी – भोः ! श्रूयताम् । राजगृहतोऽस्मि । श्रुतिविशेषणार्थं
वत्सभूमौ लावाणकं नाम ग्रामः । तत्रोषितवानस्मि ।
वासवदत्ता - (आत्मगतम्) हा लावाणअं णाम । लावाणअसंकित्तणेण पुणो
णवीकिदो विअ मे सन्दावो। (हा लावाणकं नाम । लावाणकसंकीर्तनेन पुनर्नवीकृत इव मे
संतापः)
यौगन्धरायणः - अथ परिसमाप्ता विद्या ?
ब्रह्मचारी - न खलु तावत् ।
यौगन्धरायणः - यद्यनवसिता विद्या, किमागमनप्रयोजनम्
।
ब्रह्मचारी - तत्र खल्वतिदारुणं व्यसनं संवृत्तम् ।
यौगन्धरायणः - कथमिव ।
ब्रह्मचारी - तत्रोदयनो नाम राजा प्रतिवसति ।
यौगन्धरायणः - श्रूयते तत्रभवानुदयनः किं सः ।
ब्रह्मचारी - तस्यावन्तिराजपुत्री वासवदत्ता नाम पत्नी हढमभिप्रेता
किल ।
यौगन्धरायणः - भवितव्यम् । ततस्ततः ।
ब्रह्मचारी - ततस्तस्मिन् मृगयानिष्क्रान्ते राजनि ग्रामदाहेन सा
दग्धा ।
वासवदत्ता - (आत्मगतम्) अलिअं अलिअं खु एदं । जीवामि मन्दभाआ ।
(अलीकमलीकं खल्वेतत् । जीवामि मन्दभागा ।)
यौगन्धरायणः - ततस्ततः ।
ब्रह्मचारी - ततस्तामभ्यवपत्तुकामो यौगन्धरायणो नाम
सचिवस्तस्मिन्नेवाग्नौ पतितः ।
यौगन्धरायण: - सत्यं पतित इति । ततस्ततः ।
ब्रह्मचारी - ततः प्रतिनिवृत्तो राजा तद्वृत्तान्तं श्रुत्वा
तयोर्वियोगजनितसंतापस्तस्मिन्नेवाग्नौ प्राणान् परित्यक्तु-कामोऽमात्यैर्महता यत्नेन वारितः ।
वासवदत्ता - (आत्मगतम्) जाणामि जाणामि अय्यउत्तस्स मइ
साणुक्कोसत्तणं । (जानामि जानाम्यार्यपुत्रस्य मयि सानुकोशत्वम् ।)
यौगन्धरायणः - ततस्ततः ।
ब्रह्मचारी - ततस्तस्याः शरीरोपभुक्तानि दग्धशेषाण्याभरणानि
परिष्वज्य राजा मोहमुपगतः ।
सर्वे - हा ।
वासवदत्ता - (स्वगतम्) सकामो दाणिं अय्यजोअन्धराअणो होदु । (सकाम
इदानीमार्ययौगान्धरायणो भवतु)
चेटी - भट्टिदारिए ! रोदिदि खु इअं अय्या
। (भर्तृदारिके! रोदिति खल्वियमार्या ।)
पद्मावती - साणुक्कोसाए होदव्वं । (सानुक्रोशया भवितव्यम्।)
यौगन्धरायणः - अथ किमथ किम् । प्रकृत्या सानुक्रोशा मे भगिनी । ततस्ततः
।
ब्रह्मचारी - ततः शनैः प्रतिलब्धसंज्ञः संवृत्तः ।
पद्मावती - दिट्टिआ धरइ। मोहं गतो त्ति सुणिअ सुण्णं विअ मे हिअअं ।
(दिष्ट्या ध्रियते । मोहं गत इति श्रुत्वा शून्यमिव मे ह्रदयम् ।)
यौगन्धरायण: - ततस्ततः ।
ब्रह्मचारी - ततः स राजा महीतलपरिसर्पणपांसुपाटलशरीरः सहसोत्थाय हा
वासवदत्ते ! हा अवन्तिराजपुत्रि! हा प्रिये ! हा
प्रियशिष्ये ! इति किमपि बहु प्रलपितवान् । कि बहुना –
नैवेदानीं तादृशाश्चक्रवाका नैवाप्यन्ये
स्त्रीविशेषैर्वियुक्ताः ।
धन्या सा स्त्री यां तथा वेत्ति भर्ता भर्तृस्नेहात् सा हि
दग्धाप्यदग्धा ।। 13 ।।
यौगन्धरायणः - अथ भोः ! तं तु पर्यवस्थापयितुं न कशिचद्यत्नवानमात्यः ।
ब्रह्मचारी - अस्ति रुमण्वान्नामामात्यो दृढं
प्रयत्नवांस्तत्रभवन्तं पर्यवस्थापयितुम् । स हि –
अनाहारे
तुल्य: प्रततरुदितक्षामवदनः
शरीरे
संस्कारं नृपतिसमदुःखं परिवहन् ।
दिवा वा
रात्रौ वा परिचरति यत्नैर्नरपतिं
नृपः प्राणान्
सद्यस्त्यजति यदि तस्याप्युपरमः ।। 14 ।।
वासवदत्ता - (स्वगतम्) दिट्टिआ
सुणिक्खित्तो दाणिं अय्यउत्तो । (दिष्ट््या सुनिक्षिप्त इदानीमार्यपुत्रः)
यौगन्धरायणः - (आत्मगतम्) अहो महद्भारमुद्वहति रुमण्वान् । कुतः –
सविश्रमो ह्ययं भारः
प्रसक्तस्तस्य तु श्रमः ।
तस्मिन् सर्वमधीनं हि यत्राधीनो नराधिपः ।। 15 ।।
(प्रकाशम्) अथ भोः ! पर्यवस्थापित
इदानीं स राजा ।
ब्रह्मचारी - तदिदानीं न जाने। इह तया सह हसितम्, इह तया सह कथितम्, इह तया सह पर्युषितम्, इह तया सह कुपितम्, इह तया सह शयितम्, इत्येवं तं विलपन्तं राजानममात्यैर्महता यत्नेन तस्माद् ग्रामाद् गृहीत्वाप-क्रान्तम् । ततो निष्क्रान्ते राजनि
प्रोषितनक्षत्रचन्द्रमिव नभोऽरमणीयः संवृतः स ग्रामः। ततोऽहमपि निर्गतोऽस्मि।
तापसी - सो खु गुणवन्तो णाम राआ, जो आअन्तुएण
वि इमिणा एव्वं पसंसीअदि । (स खलु गुणवान् नाम राजा य आगन्तुकेनाप्यनेनैवं प्रशस्यते
।)
चेटी - भट्टिदारिए! किं णु खु अवरा इत्थिआ तस्स हत्थं गमिस्सदि ।
(भर्तृंदारिके ! किं नु खल्वपरा स्त्री तस्य हस्तं
गमिष्यति ।)
पद्मावती - (आत्मगतम्) मम हिअएण एव्व सह मन्तिदं । (मम हृदयेनैव सह
मन्त्रितम् ।)
ब्रह्मचारी - आपृच्छामि भवन्तौ । गच्छामस्तावत् ।
उभौ - गम्यतामर्थसिद्धये ।
ब्रह्मचारी - तथास्तु ।
(निष्क्रान्तः)
यौगन्धरायण: - साधु, अहमपि
तत्रभवत्याभ्यनुज्ञातो गन्तुमिच्छामि ।
काञ्चुकीयः - तत्रभवत्याभ्यनुज्ञातो गन्तुमिच्छति किल ।
पद्मावती - अय्यस्स भइणिआ अय्येण विना उक्कण्ठिस्सिदि । (आर्यस्य
भगिनीआर्येण विनोत्कण्ठिष्यते।)
यौगन्धरायणः - साधुजनहस्तगतैषा नोत्कण्ठिष्यति । (काञ्चुकीयमवलोक्य)
गच्छामस्तावत् ।
काञ्चुकीय: - गच्छतु भवान् पुनर्दर्शनाय ।
यौगन्धरायणः - तथास्तु । (निष्क्रान्तः)
काञ्चुकीयः - समय इदानीमभ्यन्तरं प्रवेष्टुम् ।
पद्मावती - अय्ये! वन्दामि (आर्ये ! वन्दे
।)
तापसी - जादे! तव सदिसं भत्तारं ळभेहि । (जाते! तव सदृशं भर्तारं
लभस्व ।)
वासवदत्ता - अय्ये ! वन्दामि दाव अहं ।
(आर्ये ! वन्दे तावदहम्)
तापसी - तुवं पि अइरेण भत्तारं समासादेहि ।। (त्वमप्यचिरेण भर्तारं
समासादय ।)
वासवदत्ता - अणुग्गहीदम्हि ।। (अनुगृहीतास्मि ।)
काञ्चुकीय: - तदागम्यताम् । इत इतो भवति ! संप्रति हि –
खगा
वासोपेता: सलिलमवगाढो मुनिजनः
प्रदीप्तोऽग्निर्भाति
प्रविचरति धूमो मुनिवनम् ।
परिभ्रष्टो
दूराद्रविरपि च संक्षिप्तकिरणो
रथं
व्यावत्र्यासौ प्रविशति शनैरस्तशिखरम् ।। 16 ।।
(निष्क्रान्ताः सर्वे)
इति
प्रथमोऽङ्कः ।
अथ द्वितीयोऽङकः
(ततः प्रविशति चेटी)
चेटी – कुञ्जरिए ! कुञ्जरिए ! कहिं कहिं भट्टिदारिआ
पदुमावदी किं भणासि, एसा भट्टिदारिआ माहवीलदामण्ड-वस्स पस्सदो कन्दुएण कीलदिति ।
जाव भट्टिदारिअं उवसप्पामि । (परिक्रम्यावलोक्य) अम्मो इअं भट्टिदारिआ
उक्करिदकण्णचूलिएण वाआमसञ्जादसेदविन्दुविइत्तिदेण परिस्सन्तरमणीअदंसणेण मुहेण
कन्दुएण कीलन्दी इदो एव्व आअच्छदि । जाव उवसप्पिस्स । (कुञ्जरिके ! कुञ्जरिके !
कुत्र कुत्र भर्तृ दारिका पद्मावती ? किं भणसि एषा भर्तृदारिकामुपसर्पामि । अम्मो
! इयं भर्तृ दारिका उत्कृतकर्णचूलिकेन व्यायामसञ्जातस्वेदबिन्दुविचित्रितेन
परि-श्रान्तरमणीयदर्शनेन मुखेन कन्दुकेन क्रीडन्तीत एवागच्छति । यावदुपसर्प्पामि ।
(निष्क्रान्ता)
प्रवेशकः
(ततः प्रविशति कन्दुकेन क्रीडन्ती पद्मावती सपरिवारा
वासवदत्तया सह)
वासवदत्ता –
हला ! एसो दे कन्दुओ । (हला ! एष ते कन्दुकः) ।
पद्मावती -
अय्ये । भोदु दाणिं एत्तअं । (आर्ये ! भवत्विदानीमेतावत्)
वासवदत्ता – हला ! अदिचिरं कन्दुएण कीलिअ अहिअसञ्जादराआ परकेरआ विअ दे हत्था
संवुत्ता। (हला ! तिचिरं कन्दुकेन क्रीडित्वाधिकसंजातरागौ परकीयाविव ते हस्तौ
संवुतौ ।)
चेटी - कीळदु कीलदु दाव भट्टिदारिआ । णिव्वत्तीअदु दाव अअं कण्णाभावरमणीओ काळो
। (क्रीडतु क्रीडतु तावद् भतृर्दारिका । निर्वत्र्यतां तावदयं कन्याभावरमणीयः कालः
।)
पद्मावती -
अय्ये! किं दाणिं मं ओहसिदुं विअ णिज्झाअसि । (आर्ये! किमिदानीं मामपहसितुमिव
निध्यायसि ।)
वासवदत्ता - णहि णहि । हळा! अधिअं अज्ज सोहदि । अभिदो विअ दे अज्ज वरमुहं
पेक्खामि । (नहि नहि । हला ! अधिकमद्य शोभते । अभित इव तेऽद्य वरमुखं पश्यामि ।)
पद्मावती -
अवेहि । मा दाणिं मं ओहस । (अपेहि । मेदानीं मामुपहस ।)
वासवदत्ता -
एसम्हि तुह्णिआ भविस्सम्महासेणवहू! ।(एषास्मि तूष्णीका भविष्यन्महासेनवधु!
द्मावती - को
एसो महासेणो णाम । (क एष महासेनो नाम ।)
वासवदत्ता -
अत्थि उज्जइणीओ राआ पज्जोदो णाम । तस्स बळपरिमाणणिव्युत्तं णामधेअं महासेणो त्ति।।
(अस्त्युज्जयिनीयो राजा प्रद्योतो नाम । तस्य बलपरिमाणनिर्वृत्तं नामधेयं महासेन
इति ।)
चेटी -
भट्टिदारिआ तेण राञ्ञा सह संबंधं णेच्छदि । (भतृर्दारिका तेन राज्ञा सह संबन्धं
नेच्छति।)
वासवदत्ता -
अह केण खु दाणिं अभिळसदि । (अथ केन खल्विदानीमभिलषति ।)
चेटी - अत्थि
वच्छराओ उदअणो णाम । तस्स गुणाणि भट्टिदारिआ अभिळसदि। (अस्ति वत्सराज उदयनो नाम ।
तस्य गुणान् भर्तृदारिकाभिलषति ।)
वासवदत्ता -
(आत्मगतम्) अय्यउत्तं भत्तारं अभिळसदि । (प्रकाशम्) केण कारणेण । (आर्यपुत्रं
भर्तारमभिलषति। केन कारणेन ।)
चेटी -
साणुक्कोसो त्ति ।। (सानुक्रोश इति ।)
वासवदत्ता -
(आत्मगतम्) जाणामि जाणामि । अअं वि जणो एव्वं उम्मादिदो । (जानामि जानामि। अयमपि
जन एवमुन्मादितः।)
चेटी -
भट्टिदारिए! जदि सो राआ विरूवो भवे । (भर्तृ दारिके! यदि स राजा विरूपो भवेत्।)
वासवदत्ता -
णहि णहि । दंसणीओ एव्व। (नहि नहि। दर्शनीय एव ।)
पद्मावती -
अय्ये! कहं तुवं जाणासि । (आर्ये! कथं त्वं जानासि।)
वासवदत्ता - (आत्मगतम्) अय्यउत्तपक्खवादेण अदिक्कन्दो समुदाआरो। किं दाणिं
करिस्सं । होदु, दिट्ठं। (प्रकाशम्) हळा! एव्वं उज्जइणीओ जणो मन्तेदि।
(आर्यपुत्रपक्षपातेनातिक्रान्तः समुदाचारः। किमिदानीं करिष्यामि । भवतु,
दृष्टम्। हला! एवमुज्जयिनीयो जनो मन्त्रयते।)
पद्मावती - जुज्जइ। ण खु एसो उज्जइणीदुल्लहो। सव्वजणमणोभिरामं खु सोभग्गं णाम।
(युज्यते। न खल्वेष उज्जयिनीदुर्लभः। सर्वजनमनोभिरामं खलु सौभाग्यं नाम।)
(ततः प्रविशति धात्री)
धात्री - जेदु
भट्टिदारिआ। भट्टिदारिए! दिण्णासि। (जयतु भर्तृदारिका। भर्तृदारिके। दत्तासि।)
वासवदत्ता -
अय्ये! कस्स? (आर्ये! कस्मै?)
धात्री -
वच्छराअस्स उदअणस्स । (वत्सराजायोदयनाय।)
वासवदत्ता -
अह कुसळी सो राआ। (अथ कुशली स राजा।)
धात्री -
कुसळी सो आअदो। तस्स भट्टिदारिआ पडिच्छिदा अ । (कुशली स आगतः। तस्य भर्तृ दारिका
प्रतीष्टा च)
वासवदत्ता -
अच्चाहिदं । (अत्याहितम्।)
धात्री - किं
एत्थ अच्चाहिदं? (किमत्रात्याहितम्?)
वासवदत्ता - ण हु किंञ्चि। तह णाम सन्तप्पिअ उदासीणो होदि त्ति। (न खलु
किंचित्। तथा नाम संतप्योदासीनो भवतीति।)
धात्री - अय्ये! आअमप्पहाणाणि सुळहपय्यवत्थाणाणि महापुरुसहिअआणि होन्ति।
(आर्ये! आगमप्रधानानि सुलभपर्यवस्थानानि महापुरुषहृदयानि भवन्ति।)
वासवदत्ता -
अय्ये! सअं एव्व तेण वरिदा? (आर्ये! स्वयमेव तेन वृत्ता?)
धात्री - णही णहि। अण्णप्पओअणेण इह आअदस्स अभिजणविञ्जाणवओरूवं पेक्खिअ सअं
एव्व महाराएण दिण्णा। (नहि नहि अन्यप्रयोजनेनेहागतस्याभिजनविज्ञानवयोरूपं दृष्ट्वा
स्वयमेव महाराजेन दत्ता ।)
वासवदत्ता - (आत्मगतम्) एव्वं। अणवरद्धो दाणिं एत्थ अय्य उत्तो ।। (एवम्।
अनपराद्ध इदानीमत्रार्यपुत्रः।) (प्रविश्यापरा)
चेटी - तुवरदु तुवरदु दाव अय्या । अज्ज एव्व किळ सोभणं णक्खत्तं। अज्ज एव्व
कोदुअमङगळं कादव्वं त्ति अम्हाणं भट्टिणी भणादि।। (त्वरतां त्वरतां तावदार्या।
अद्यैव किल शोभनं नक्षत्रम् । अद्यैव कौतुकमङ्गलं कर्तव्यमित्यस्माकं भट्टिनी
भणति।)
वासवदत्ता -
(आत्मगतम्) जह जह तुवरदि, तह तह अन्धीकरेदि मे हिअअं। (यथा यथा त्वरते,
तथा तथा अन्धीकरोति मे हृदयम्।)
धात्री - एदु
एदु भट्टिदारिआ। (एत्वेतु भर्तृदारिका।) (निष्क्रान्ताः सर्वे)
इति द्वितीयोऽङ्कः
अथ तृतीयोऽङ्कः
(ततः प्रविशति विचिन्तयन्ती वासवदत्ता)
वासवदत्ता - विवाहामोदसंकुले अन्तेउरचउस्साले परित्तजिअ पदुमावदिं आअदम्हि पमदवणं। जाव
दाणिं भाअधेअणिव्वुत्तं दुक्खं विणोदेमि। (परिक्रम्य)
अहो
अच्चाहिदं। अय्यउत्तो वि णाम परकेरओ संवुत्तो। जाव उवविसामि। (उपविश्य) धण्णा खु चक्कवाअवहू, जा
अण्णोण्णविरहिदा ण जीवइ। ण खु अहं पाणाणि परित्तजामि। अय्यउत्तं पेक्खामि ति एदिणा
मणोरहेण जीवामि मन्दभाआ ।। (विवाहामोदसङ्कुले अन्तःपुरचतुःशाले परित्यज्य पद्मावतीमिहागतास्मि प्रमदवनम्।
यावदिदानीं भागधेयनिर्वृत्तं दुःखं विनोदयामि । अहो अत्याहितम्। आर्यपुत्रोऽपि नाम परकीयः संवृत्तः।
यावदुपविशामि। धन्या खलु चक्रवाकवधूः यान्योन्यविरहिता न जीवति। न खल्वहं प्राणान्
परित्यजामि। आर्यपुत्रं प्रेक्षे इत्यनेन मनोरथेन जीवामि मन्दभागा ।
(ततः प्रविशति पुष्पाणि गृहीत्वा चेटी)
चेटी - कहिं णु खु गदा अय्या आवन्तिआ। (परिक्रम्यावलोक्य) अम्मो इअं
चिन्तासुञ्जहिअआ णीहारपडिहदचंदलेहा विअ अमंडिदभद्दअं वेसं धारअन्दी
पिअंगुसिलापट्टए उवविट्ठा। जाव उवसप्पामि। (उपसृत्य) अय्ये! आवन्तिए! को कालो,
तुमं अण्णेसामि। (क्व नु खलु गता आर्यावन्तिका?
अम्मो इयं चिन्ताशून्यहृदया
नीहारप्रतिहतचन्द्रलेखेवामण्डितभद्रकं वेषं धारयन्ती प्रियङगु शिलापट्टके उपविष्टा
। यावदुपसर्पामि। आर्ये! आवन्तिके! कः कालः, त्वामन्विष्यामि।)
वासवदत्ता - किण्णिमित्तं। (किंनिमित्तम्?)
चेटी - अम्हाअं भट्टिणी भणादि महाकुलप्पसूदा सिणिद्धा णिउणा त्ति । इमं दाव
कोदुअमालिअं गुम्हदु अय्या । (अस्माकं भट्टिनी भणति महाकुलप्रसूता स्निग्धा
निपुणेति । इमां तावत् कौतुकमालिकां गुम्फत्वार्या ।)
वासवदत्ता - अह कस्स किल गुम्हिदव्वं? (अथ कस्मै किल गुम्फितव्यम्?)
चेटी - अम्हाअं भट्टिदारिआए । (अस्माकं भर्तृदारिकायै ।)
वासवदत्ता - (आत्मगतम्) एदं पि मए कत्तव्वं आसी । अहो अकरुणा खु इस्सरा ।
(एतदपि मया कर्तव्यमासीत् । अहो अकरुणाः खल्वीश्वराः ।)
चेटी - अय्ये! मा दाणिं अञ्ञं चिन्तिअ । एसो जामादुओ मणिभूमीए ण्हाअदि। सिग्घं
दाव गुम्हदु अय्या । (आर्ये! मेदानीमन्यच्चिन्तयित्वा । एष जामातृकः मणिभूमौ
स्नाति । शीघ्रं तावद् गुम्फत्वार्या ।)
वासवदत्ता - (आत्मगतम्) ण सक्कुणोमि अण्णं चिन्तेदुं । (प्रकाशम्) हला! किं
दिट्ठो जामादुओ । (न शक्नोम्यन्यच्चिन्तयितुम्। हला किं दृष्टो जामाता?)
चेटी - आम दिट्ठो भट्टिदारिआए सिणेहेण अम्हाअं कोदूहलेण अ । (आम् दृष्टो
भर्तृदारिकायाः स्नेहेनास्माकं कौतूहलेन च ।)
वासवदत्ता - कीदिसो जामादुओ । (कीदृशो जामाता?)
चेटी - अय्ये ! भणामि दाव, ण ईरिसो दिट्ठपुव्वो । (आर्ये! भणामि तावद्,
नेदृशो दृष्टपूर्वः।)
वासवदत्ता - हला भणाहि, भणाहि किं दंसणीओ ? (हला! भण भण, किं दर्शनीयः?)
चेटी - सक्कं भणिदुं सरचावहीणे खामदेवो त्ति । (शक्यं भणितुं शरचापहीनः कामदेव
इति ।)
वासवदत्ता - होदु एत्तअं ।। (भवत्वेतावत्।)
चेटी - किण्णिमित्तं वारेसि? ।। (किंनिमित्तं वारयसि?)
वासवदत्ता - अजुत्तं परपुरुससंकित्तणं सोदुं । (अयुक्तं परपुरुषसंकीर्तनं
श्रोतुम् ।)
चेटी - तेण हि गुम्हदु अय्या सिग्घं । (तेन हि गुम्फत्वार्या शीघ्रम् ।)
वासवदत्ता - इअं गुम्हामि । आणेहि दाव । (इयं गुम्फामि । आनय तावत् ।)
चेटी - गण्हदु अय्या । (गृह्णात्वार्या ।)
वासवदत्ता - आणेहि (आत्मगतं) इअं गुहममामि मन्तभाआ।। (वर्जयित्वा विलोक्य) इमं
दाव ओसहं किं णाम (आनय।। इमं गुंफामि मन्दभागा।। (इदं तावदौषधं किं नाम?)
चेटी - अविहवाकरणं णाम । (अविधवाकरणं नाम ।)
वासवदत्ता - (आत्मगतम्) इदं बहुसो गुम्हितव्वं मम अ पदुमावदीए अ। (प्रकाशम्)
इदं दाव ओसहं किं णाम?।। (इदं बहुशो गुम्फिव्यं मम च पद्मावत्याश्च । इदं
तावदौषधं किं नाम?)
चेटी - सवत्तिमद्दणं णाम । (सपत्नीमर्दनं नाम ।)
वासवदत्ता - इदं ण गुम्हिदव्वं । (इदं न गुम्फितव्यम् ।)
चेटी - कीस? (कस्मात्) ?
वासवदत्ता - उवरदा तस्य भय्या । तं णिप्पओअणं त्ति । (उपरता तस्य भार्या। तन्निष्प्रयोजनमिति।)
(प्रविश्यापरा)
चेटी - तुवरदु तुवरदु अय्या । एसो जामादुओ अविहवाहि अब्भन्तरचउस्साळं पवेसीअदि
। (त्वरतां त्वरतामार्या । एष जामाता अविधवाभिरभ्यन्तरचतुःशालं प्रवेश्यते ।)
वासवदत्ता - अइ! वदामि, गण्ह एदं । (अयि! वदामि गृहाणैतत् ।)
चेटी - सोहणं । अय्ये! गच्छामि दाव अहं । (शोभनम् । आर्ये! गच्छामि तावदहम् ।)
(उभे निष्क्रान्ते)
वासवदत्ता - गदा एसा । अहो अच्चाहिदं । अय्यउत्तो वि णाम परकेरओ संवुत्तो ।
अवि दाव सय्याए मम दुक्खं विणोदेमि, जदि णिद्दं ऴभाणइ । (गतैषा । अहो अत्याहितम् ।
आर्यपुत्रोऽपि नाम परकीयः संवृतः। अपि तावद् शय्यायां मम दुःखं विनोदयामि,
यदि निद्रां लभे।) (निष्क्रान्ता)
इति तृतीयोऽङ्कः ॥
अथ चतुर्थोऽङ्कः
(ततः प्रविशति विदूषकः)
विदूषकः - (सहर्षम्) भो! दिट्ठिआ तत्तहोदो वच्छराअस्स
अभिप्पेदविवाहमङ्गलरमणिज्जो कालो दिट्ठो । भो! को णाम एदं जाणादि तादिसे वयं
अणत्थसलिलावत्ते पक्खित्ता उण उम्मज्जिस्मामो त्ति । इदाणिं पासादेसु वसिअदि,
अन्देउरदिगिघआसु ह्णहाईअदि पकिदिमहुरसु उमाराणि मोदअखज्जआणि
खज्झीअन्ति त्ति अणच्छरसंवासो उत्तरकुरुवासो मए अणुभवीअदि। एक्को खु महन्तो दोसो,
मम आहारो सुट्ठ ण परिणमदि । सुपप्पच्छदणाए सय्याए णिद्दं ण
ऴभामि,
जह वादसोणिदं अभिदो विअ वत्तदि त्ति पेक्खामि!। भो! सुहं
णामअपरिभूदं अकल्लवत्तं च ।
(भो! दिष्ट्या तत्रभवतो वत्सराजस्याभिप्रेतविवाहमङ्गलरमणीयः
कालो दृष्टः । भो! को नामैतज्जानाति तादृशे वयमनर्थसलिलावर्ते प्रक्षिप्ताः पुनरुन्मङ्क्ष्याम
इति। इदानीं प्रासादेषूष्यते, अन्तःपुरदीर्घिकासु स्नायते, प्रकृतिमधुरसुकुमाराणि मोदकखाद्यकानि खाद्यन्त
इत्यनप्सरस्संवास उत्तरकुरुवासो मयानुभूयते । एकः खलु महान् दोषः । ममाहारः सुष्ठु
परिणमति । सुप्रच्छदनायां शय्यायां निद्रां न लभे । यथा वातशोणितमभित इव वर्तत इति
पश्यामि। भोः! सुखं नामयपरिभूतमकल्यवर्तं च ।)
(ततः प्रविशति चेटी)
चेटी - कहिं णु खु गदो अय्यवसन्तओ? (परिक्रम्यावलोक्य) अम्हो एसो अय्यवसन्तओ । (उपगम्य) अय्य
वसन्तअ! को कालो तुमं अण्णेसामि । (कुत्र नु खलु गत आर्यवसन्तकः?
अहो एष आर्यवसन्तकः! क कालः त्वामन्विष्यामि ।
विदूषकः - (दृष्ट्वा) किंणिमित्तं भद्दे! मं अण्णेससि। (किंनिमित्तं भद्रे।
मामन्विष्यसि।)
चेटी - अम्हाणं भट्टिणी भणादि अवि ण्हादो जामादुओ त्ति। (अस्माकं भट्टिनी भणति
अपि स्नातो जामातृक इति।)
विदूषक - किंणिमित्तं भोदी! पुच्छदि। (किंनिमित्तं भवति! पृच्छति।)
चेटी - किमण्णं। सुमणावण्णअं आणेमि त्ति। (किमन्यत्। सुमनोवर्णकमानयामीति।)
विदूषकः - ण्हादो तत्तभवं। सव्वं आणेदु भोदी वज्जिअ भोअणं। (स्नातस्तत्रभवान्।
सर्वमानयतु भवती वर्जयित्वा भोजनम्।)
चेटी - किंणिमित्तं वारेसि भोअणं। (किंनिमित्तं वारयसि भोजनम् ।)
विदूषकः - अधण्णस्स मम कोइलाणं अक्खिपरिवट्टो विअ कुक्खिपरिवट्टो संवुत्तो।
(अधन्यस्य मम कोकिलानामक्षिपरिवर्त इव कुक्षिपरिवर्तः संवृत्तः ।)
चेटी - ईदिसो एव्व होहि। (ईदृश एव भव ।)
विदूषकः - गच्छदु भोदी। जाव अहं वि तत्तहोदो सआसं गच्छामि। (गच्छतु भवती।
यावदहमपि तत्रभवतः सकाशं गच्छामि।) (निष्क्रान्तौ) इति प्रवेशकः ।
(ततः प्रविशति सपरिवारा पद्मावती,
आवन्तिकावेषधारिणी वासवदत्ता च)
चेटी - किं णिमित्तं भट्टिदारिआ पमदवणं आअदा। (किं निमित्तं भर्तृदारिका
प्रमदवनमागता।)
पद्मावती - हळा! ताणि दाव सेहालिआगुम्हआणि पेक्खामि कुसुमिदाणि वा णवेत्ति।
(हला! तानि तावच्छेफालिकागुल्मकाः प्रेक्षे कुसुमिता वा न वेति।)
चेटी - भट्टिदारिए! ताणि कुसुमिदाणि णाम, पवालन्तरिदेहिं विअ मोत्तिआलम्बएहिं आइदाणि कुसुमेहिं।
(भर्तृदारिके ! तामि कुसुमितानि नाम, प्रवालान्तरितैरिव मौक्तिकलम्बकैराचिताः कुसुमैः।
पद्मावती – हला ! जदि एव्वं, किं दाणिं विलम्बेसि। (हला! यद्येवं किमिदानीं विलम्बसे।)
चेटी - तेण हि इमस्सि सिलावट्टए, मुहुत्तअं उपविसदु भट्टिदारिआ जाव अहं वि कुसुमावचअं करेमि।
(तेन ह्यस्मिन् शिलापट्टके मुहूर्तकमुपविशतु भर्तृदारिका । यावदहमपि कुसुमावचयं
करोमि ।)
पद्मावती – अय्ये ! किं एत्य उपविसामो। (आर्ये । किमत्रोपविशावः ।)
वासवदत्ता - एव्वं होदु। (एवं भवतु।) (उभे उपविशतः)
चेटी - (तथा कृत्वा) पेक्खदु पेक्खदु भट्टिदारिया अद्धा मणसिला-वट्टाएहिं विअ
सेहालिआकुसुमेहिं पूरिअं मे अञ्जलि। (प्रेक्षतां प्रेक्षतां भर्तृदारिका अर्ध मनः
शिलापट्टकैरिव शेफालिकाकुसुमैः पूरितं मेऽञ्जलिम्।)
पद्मावती - (दृष्ट्वा) अहो विइत्तदा कुसुमाणं। पेक्खदु पेक्खदु अय्या। (अहो
विचित्रता कुसुमानाम्। प्रेक्षतां प्रेक्षतामार्या।)
वासवदत्ता - अहो दंसणीअदा कुसुमाणं। (अहो दर्शनीयता कुसुमानाम्)
चेटी - भट्टिदारिए! किं भूयो अवइणुस्सं। (भर्तृदारिके! किं भूयोऽवचेष्यामि।)
पद्मावती - हला! मा मा भूयो अवइणिअ (हला मा मा भूयोऽवचित्य।)
वासवदत्ता - हला! किंणिमित्तं वारेसि । (हला! किनिमित्तं वारयसि ।)
पद्मावती - अय्यउत्तो इह आअच्छिअ इमं कुसुमसमिदिंध पेक्खिअ सम्माणिदा भवेअं।
(आर्यपुत्र इहागत्येमां कुसुमसमृद्धिं प्रेक्ष्य संमानिता भवेयम्।)
वासवदत्ता – हला ! पिओ दे भत्ता। (हला प्रियस्ते भर्ता ।)
पद्मावती – अय्ये ! ण आणामि, अय्यउत्तेण विरहिदा उक्कण्ठिदा होमि। (आर्ये! न जानामि,
आर्यपुत्रेण विरहितोत्कण्ठिता भवामि)
वासवदत्ता - (आत्मगतम्) दुक्खरं खु अहं करेमि। इअं वि णामएव्वं मन्तेदि।
(दुष्करं खल्वहं करोमि, इयमपि नामैवं मन्त्रयति ।)
चेटी - अभिजादं खु भट्टिदाइआए मन्दिदं पिओ मे भत्त त्ति। (अभिजातं खलु
भर्तृदारिकया मन्त्रितं प्रियो मे भर्तेति।)
पद्मावती - एक्को खु मे सन्देहो । (एकः खलु मे सन्देहः।)
वासवदत्ता - किं किं। (किं किम्।) पद्मावती - जह मम अय्यउत्तो,
तह एव्व अय्याए वासवदत्ताए त्ति। यथा ममार्यपुत्रस्तथैवार्याया
वासवदत्ताया इति।)
वासवदत्ता - अदो वि अहिअं। (अतोऽप्यधिकम् ।)
पद्मावती - कहं तुवं जाणासि। (कथं त्वं जानासि।)
वासवदत्ता - (आत्मगतम्) हं, अय्यउत्तपक्खवादेण अदिक्कन्दो समुदाआरो। एव्वं दाव भणिस्सं।
(प्रकाशम्) जइ अप्पो सिणेहो, सा सजणं ण परित्तजदि। (हम् आर्यपुत्रपक्षपातेनातिक्रान्तः
समुदाचारः। एवं तावद् भणिष्यामि। यद्यल्पः स्नेहः, सा स्वजनं न परित्यजति ।)
पद्मावती - होदव्वं। (भवितव्यम्।) चेटी - भट्टिदारिए! साहु भट्टारं भणाहि अहं
पि वीणं सिक्खिस्सामित्ति। (भर्तृदारिके! साधु भर्तारं भण,
अहमपि वीणां शिक्षिष्य इति ।)
पद्मावती - उत्तो मए अय्यउत्तो (उक्तो मयार्यपुत्रः ।)
वासवदत्ता - तदो कि भणिदं (ततः कि भणितम् ।)
पद्मावती - अभणिअ किञ्चि दिग्घं णिस्ससिअ तुण्हीओ संवुत्तो। (अभणित्वा किंचिद्
दीर्घं निःश्वस्य तूष्णीकः संवृत्तः।)
वासवदत्ता - तदो तुवं किं विअ तक्केसि। (ततस्त्वं किमिव तर्कयसि ।)
पद्मावती - तक्केमि अय्याए वासवदत्ताए गुणाणि सुमरिअ दक्खिण्णदाए मम अग्गदो ण
रोदिदि त्ति। (तर्कयाम्यार्याया वासवदत्ताया गुणान् स्मृत्वा दक्षिणतया ममाग्रतो न
रोदितीति ।)
वासवदत्ता - (आत्मगतम्) धञ्जा खु म्हि, जदि एव्वं सच्चं भवे। (धन्या खल्वस्मि,
यद्येवं सत्यं भवेत् ।)
(ततः प्रविशति राजा विदूषकश्च)
विदूषकः - ही ही! पचिअपडिअबन्धुजीवकुसुमविरलवादरमणिज्जं पमदवणं। इदो दाव भवं।
(ही ही! प्रचितपतितबन्धुजीवकुसुमविरलवातरमणीयं प्रमदवनम्। इतस्तावद् भवान् ।)
राजा - वयस्य वसन्तक! अयमहमागच्छामि ।
कामेनोज्जयिनीं गते मयि तदा कामप्यवस्थां गते
दृष्ट्वा स्वैरमवन्तिराजतनयां पञ्चेषवः पातिताः ।
तैरद्यापि सशल्यमेव हृदयं भूयश्च विद्धा वयं
पञ्चेषुर्मदनो यदा कथमयं षष्ठः शरः पातितः ।। 1 ।।
विदूषकः - कहिं णु खु गता तत्तहोदी पदुमावदी। लदामण्डवं गदा भवे। उदाहो
असणकुसुमसञ्चिदं वग्घचम्मावगुण्ठिदं विअ पव्वदतिलअं णाम सिलाण्ट्टअं गदा भवे। आदु अधिअकडुअगन्धसत्तच्छदवणं
पविट्ठा भवे, अहव आलिहिदमिअपक्खिसङ्कुलं दारुपव्वदअं गदा भवे । (ऊर्ध्वमवलोक्य) ही ही
सरअकालणिम्मले अन्तरिक्खे पसादिअबलदेवबाहुदंसणीअं सारसपÏन्त जाव समाहिदं गच्छन्ति पेक्खदु दाव भवं। (कुत्र नु खलु
गता तत्रभवती पद्मावती। लतामण्डपं गता भवेद्। उताहो असनकुसुमसंचितं
व्याघ्रचर्मावगुण्ठितमिव पर्वततिलकं नाम शिलापट्टकं गता भवेत्। अथवा
अधिककटुकगन्धसप्तच्छदवनं प्रविष्टा भवेद्, अथवालिखितमृगपक्षिसंकुलं दारुपर्वतकं गता भवेत्। ही ही
शरत्कालनिर्मलेऽन्तरिक्षे प्रसादितबलदेवबाहुदर्शनीयां सारसपंक्ति यावत् समाहितं
गच्छन्तीं प्रेक्षतां तावद् भवान् ।)
राजा - वयस्य! पश्याम्येनाम् ऋज्वायतां च विरलां च नतोन्नतां च
सप्तर्षिवंशकुटिलां च निवर्तनेषु । निर्मुच्यमानभुजगोदरनिर्मलस्य
सीमामिवाम्बरतलस्य विभज्यमानाम् ।
चेटी - पेक्खदु पेक्खदु भट्टिदारिआ एदं कोकणदमालापण्डुररमणीअं सारसपÏन्त जाव समाहिदं गच्छÏन्त । अंहो भट्टा। (प्रेक्षतां प्रेक्षतां भर्तृदारिका एतां
कोकनदमालापाण्डुररमणीयां सारसपंक्ति यावत् समाहितं गच्छन्तीम्। अहो भर्ता ।)
पद्मावती - हं अय्यउत्तो। अय्ये! तव कारणादो अय्यउत्तदंसणं परिहरामि। ता इमं
दाव माहवीलदामण्डवं पविसामो। (हम्, आर्यपुत्रः । आर्ये! तव कारणादार्यपुत्रदर्शनं परिहरामि।
तदिमं तावन्माधवीलतामण्डपं प्रविशामः ।)
वासवदत्ता - एव्वं होदु। (एवं भवतु) (तथा कुर्वन्ति)
विदूषकः - तत्तहोदी पदुमावदी इह आअच्छिअ णिग्गदा भवे । (तत्रभवती
पद्मावतीहागत्य निर्गता भवेत् ।)
राजा - कथं भवान् जानाति ।
विदूषकः - इमाणि अवइदकुसुमाणि सेफलिआगुच्छआणि पेक्खदु दाव भवं।
(इमानपचितकुसुमान् शेफालिकागुच्छकान् प्रेक्षतां तावद् भवान् ।)
राजा - अहो विचित्रता कुसुमस्य, वसन्तक ।
वासवदत्ता - (आत्मगतम्) वसन्तअसंकित्तणेण अहं पुण जाणामि उज्जइणीए वत्तामि
त्ति। (वसन्तकसंकीर्तनेनाहं पुनर्जानामि उज्जयिन्यां वर्त इति ।)
राजा - वसन्तक! अस्मिन्नेवासीनौ शिलातले पद्मावतीं प्रतीक्षिष्यावहे।
विदूषकः - भो तह। (उपविश्योत्थाय) ही ही सरअकालतिक्खो दुस्सहो आदवो। ता इमं
दाव माहवीमण्डवं पविसामो (भोस्तथा। ही ही शरत्कालतीक्ष्णो दुःसह आतपः। तदिमं
तावन्माधवीमण्डपं प्रविशावः।)
राजा - बाढम्। गच्छाग्रतः। विदूषकः - एव्वं होदु । (एवं भवतु।) (उभौ
परिक्रामतः)
पद्मावती - सव्वं आउलं कत्तुकामो अय्यवसन्तओ। किं दाणिं करेम्ह। (सर्वमाकुलं
कर्तुकाम आर्यवसन्तकः। किमिदानीं कुर्मः ।
चेटी - भट्टिदारिए! एदं महुअरपरिणिलीणं ओलंबलदं ओधूय भट्टारं वारइस्सं
(भर्तृदारिके! एतां मधुकरपरिनिलीनामवलम्बलतामवधूय भर्तारं वारयिष्यामि ।
पद्मावती - एव्वं करेहि (एवं कुरु।) (चेटी तथा करोति)
विदूषकः - अविहा अविहा, चिट्ठदु चिट्ठदु दाव भवं। (अविधा अविधा,
तिष्ठतु तावद् भवान्।)
राजा – किमर्थम् । विदूषकः - दासीए पुत्तेहि महुअरेहि पीडिदो म्हि। (दास्याः
पुत्रैर्मधुकरैः पीडितोऽस्मि।)
राजा - मा मा भवानेवम्। मधुकरसंत्रासः परिहार्यः। पश्य –
मधुमदकला मधुकरा मदनार्ताभिः प्रियाभिरुपगूढाः ।
पादन्यासविषण्णा वयमिव कान्तावियुक्ताः स्युः ॥ 3 ॥
तस्मादिहैवासिष्यावहे ।
विदूषकः - एव्वं होदु।। (एवं भवतु।) (उभावुपविशतः)
राजा – (अवलोक्य)
पादाक्रान्तानि पुष्पाणि सोप्म
चेदं शिलातलम् ।
नूनं
काचिदिहासीना मां दृष्ट्या सहसा गता ॥4॥
चेटी - भर्तृदारिके! रुद्धा खु म्हवयं । (भर्तृदारिके! रुद्धाः खलु स्मो वयम् ।)
पद्मावती - दिट्टिआ उवविट्ठो अय्यउत्तो। (दिष्ट्योपविष्ट आर्यपुत्रः ।)
वासवदत्ता - (आत्मगतम्) दिट्ठिआ पकिदित्थसरीरो अय्यउत्तो। (दिष्ट्या
प्रकृतिस्थशरीर आर्यपुत्रः)
चेटी - भट्टिदारिए! सस्सुपादा खु अय्याए दिट्ठी। (भर्तृदारिके! साश्रुपाता
खल्वार्याया दृष्टिः ।)
वासवदत्ता - एसा खु महुअराणं अविणआदो कासकुसुमरेणुणा पडिदेणसोदआ मे दिठ्ठी।
(एषा खलु मधुकराणामविनयात् काशकुसुमरेणुना पतितेन सोदका मे दृष्टिः ।
पद्मावती - जुज्जइ । (युज्यते ।)
विदूषकः - भो सुण्णं खु इदं पमदवणं । पुच्छिदव्वं किञ्चि अत्थि। पुच्छामि
भवन्तं। (भोः! भोः! शून्यं खल्विदं प्रमदवनम् । प्रष्टव्यं किंचिदस्ति। पृच्छामि
भवन्तम्।)
राजा – छन्दतः ।
विदूषकः - का भवदो पिआ, तदाणिं तत्तहोदी वासवदत्ता इदाणिं पदुमावदी वा। (का भवतः
प्रिया। तदानीं तत्रभवती वासवदत्ता इदानीं पद्मावती वा।)
राजा - किमिदानीं भवान् महति बहुमानसङ्कटे मां न्यस्यति ।
पद्मावती - हला! ईदिसे सङ्कडे निक्खितो अय्यउत्तो। (हला! ईद्दशे सङ्कटे
निक्षिप्त आर्यपुत्रः।)
वासवदत्ता - (आत्मगतम्) अहं अ मन्दभाआ । (अहं च मन्दभागा ।)
विदूषकः - सेरं सेरं भणादु भवं। एक्का उवरदा, अवरा असण्णिहिदा। (स्वैरं स्वैरं भणतु भवान्। एकोपरता,
अपरासंनिहिता।)
राजा - वयस्य! न खलु न खलु ब्रूयाम्। भवांस्तु मुखरः।
पद्मावती - एत्तएण भणिदं अय्यउत्तेण। (एतावता भणितमार्यपुत्रेण।)
विदूषकः – भो ! सच्चेण सवामि, कस्स वि ण आचक्खिस्सं। एसा सन्दट्ठा मे जीहा। (भोः! सत्येन
शपामि,
कस्मा अपि नाख्यास्यामि! एषा संदष्टा मे जिह्वा।)
राजा - नोत्सहे, सखे ! वक्तुम् ।
पद्मावती - अहो इमस्स पुरोभाइदा। एत्तिएण हिअअं ण जाणादि। (अहो अस्य
पुरोभागिता। एतावता हृदयं न जानाति।)
विदूषकः - किं ण भणादि मम। अणाचक्किअ इमादो सिलावट्टआदौ ण सक्कं एक्कपदं वि
गमिदुं। एसो रुद्धो अत्तभवं। (किं न भणति मह्यम् । अनाख्यायास्माच्छिलापट्टकान्न
शक्यमेकपदमपि गन्तुम् । एष रुद्धोऽत्रभवान्।)
राजा - किं बलात्कारेण ।
विदूषकः - आम, बलक्कारेण। (आम् बलात्कारेण।)
राजा - तेन हि पश्यामस्तावत् ।
विदूषकः - पसीददु पसीददु भवं। वअस्सभावेण साविदो सि,
जइ सच्चं ण भणासि। (प्रसीदतु प्रसीदतु भवान्। वयस्यभावेन
शापितोऽसि, यदि सत्यं न भणसि।)
राजा - का गतिः। श्रूयताम् –
पद्मावती बहुमता मम यद्यपि रूपशीलमाधुर्यैः ।
वासवदत्ताबद्धं न तु तावन्मे मनो हरति ।। 4 ।।
वासवदत्ता - (आत्मगतम्) भोदु, भोदु। दिण्णं वेदणं इमस्स परिखेदस्स। अहो अञ्जादवासंपि एत्थ
बहुगुणं सम्पज्जइ। (भवतु भवतु। दत्तं वेतनमस्य परिखेदस्य। अहो अज्ञातवासोऽप्यत्र
बहुगुणः संपद्यते ।)
चेटी - भट्टिदारिए! अदक्खिञ्जो खु भट्टा। (भर्तृदारिके! अदाक्षिण्यः खलु भर्ता।)
पद्मावती - हला! मा मा एव्वं। सदक्खिञ्जो एव्वं अय्यउत्तो,
जो इदाणिं वि अय्याए वासवदत्ताए गुणाणि सुमरदि। (हला! मा
मैवम्। सदाक्षिण्य एवार्यपुत्रो, य इदानीमप्यार्याया वासवदत्ताया गुणान् स्मरति ।)
वासवदत्ता - भद्दे! अबिजणस्स सदिसं मन्तिदं। (भद्रे! अभिजनस्य सदृशं
मन्त्रितम् ।)
राजा - उक्तं मया। भवानिदानीं कथयतु। का भवतः प्रिया,
तदा वासवदत्ता, इदानीं पद्मावती वा ।
पद्मावती - अय्यउत्तो पि वसन्तओ संवुत्तो। (आर्यपुत्रोऽपि वसन्तकः संवृत्तः।)
विदूषकः - किं मे विप्पलविदेण । उभओ पि तत्तहोदीओ मे बहुमदाओ। (किं मे विप्रलपितेन।
उभे अपि तत्रभवत्यौ मे बहुमते।)
राजा - वैधेय! मामेवं बलाच्छ्रुत्वा किमिदानीं नाभिभाषसे ।
विदूषकः - किं मं पि बलक्कारेण। (किं मामपि बलात्कारेण ।)
राजा - अथ किं, बलात्कारेण ।
विदूषकः - तेण हि ण सक्कं सोदुं । (तेन हि न शक्यं श्रोतुम् ।)
राजा - प्रसीदतु प्रसीदतु महाब्राह्मणः। स्वैरं स्वैंरमभिधीयताम् ।
विदूषकः - इदाणिं सुणादु भवं। तत्तहोदी वासवदत्ता मे बहुमदा। तत्तहोदी
पदुमावदी तरुणी दंसणीआ अकोवणा अणाहङ्कारा महुरवाआ सदक्खिञ्जा। अअं च अवरो महन्तो
गुणो,
सिणिद्धेण भाअणेण मं पच्चुगच्छइ कहिं णु खु गदो अय्यवसन्तओत्ति।
(इदानीं श्रृणोतु भवान्। तत्रभवती वासवदत्ता मे बहुमता। तत्रभवती पद्मावती तरुणी
दर्शनीया अकोपना अनहंकारा मधुरवाक् सदाक्षिण्या। अयं चापरो महान् गुणः। स्निग्धेन
भोजनेन मां प्रत्युद्गच्छति- कुत्र न खलु गत आर्यवसन्तक इति ।)
वासवदत्ता - भोदु भोदु, वसन्तअ! सुमरेहि दाणिं एदं । (भवतु भवतु,
वसन्तक! स्मरेदानीमेतत् ।)
राजा - भवतु भवतु, वसन्तक! सर्वमेतत् कथयिष्ये देव्यै वासवदत्तायै ।
विदूषकः - अविहा वासवदत्ता। कहिं वासवदत्ता। चिरा खु उवरदा वासवदत्ता। (अविधा
वासवदत्ता। कुत्र वासवदत्ता। चिरात् खलूपरता वासवदत्ता।)
राजा - (सविषादम्) एवम्। उपरता वासवदत्ता। अनेन परिहासेन व्याक्षिप्तं मे
मनस्त्वया।। ततो वाणी तथैवेयं पूर्वाभ्यासेन निस्सृता ।
पद्मावती - रमणीओ खु कहाजोओ णिसंसेण विसंवादिओ। (रमणीयः खलु कथायोगो नृशंसेन
विसंवादितः।)
वासवदत्ता - (आत्मगतम्) भोदु भोदु, विस्सत्थम्हि। अहो पिअं णाम, ईदिसं वअणं अपच्चक्खं सुणीअदि। (भवतु भवतु,
विश्वस्तास्मि। अहो प्रियं नाम,
ईदृशं वचनमप्रत्यक्षं श्रूयते।)
विदूषकः - धारेदु धारेदु भवं। अणदिक्खमणीओ हि विही। ईदिसं दाणिं एदं। (धारयतु
धारयतु भवान्। अनतिक्रमणीयो हि विधिः। ईदृशमिदानीमेतत् ।)
राजा - वयस्य! न जानाति भवानवस्थाम् । कुतः –
दुःखं त्यक्तुं बद्धमूलोऽनुरागः स्मृत्वा स्मृत्वा याति
दुःखं नवत्वम् ।
यात्रा त्वेषा यद् विमुच्येह बाष्पं प्राप्तानृण्या याति
बुद्धिः प्रसादम् ।। 6 ।।
विदूषक: - अस्सुपादकिलिण्णं खु तत्तहोदो मुहं । जाव मुहोदअं आणेमि ।
(निष्कान्तः) । (अश्रुपातक्लिन्नं खलु तत्रभवतो मुखम् । यावन्मुखोदकमानयामि ।)
पद्मावती - अय्ये! बप्फाउलपडन्तरिदं अय्यउत्तस्स मुहं। जाव णिक्कमम्ह। (आर्ये!
बाष्पाकुलपटान्तरितमार्यपुत्रस्य मुखम् । यावन्निष्क्रामामः।)
वासवदत्ता - एव्वं होदु । अहव चिट्ठ तुवं । उक्कण्ठिदं भत्तारं उज्झिअ अजुत्तं
णिग्गमणं । अहं एव्व गमिस्सं । (एवं भवतु । अथवा तिष्ठ त्वम् । उत्कण्ठितं
भर्तारमुज्झित्वायुक्तं निर्गमनम् । अहमेव गमिष्यामि ।)
चेटी - सुट्ठु अय्या भणादि । उवसप्पदु दाव भट्टिदारिआ । (सुष्ट्वार्या भणति ।
उपसर्पतु तावद् भर्तृदारिका ।)
पद्मावती - किं णु खु पविसामि । (किं नु खलु प्रविशामि ।)
वासवदत्ता - हला। पविस । (इत्युक्त्वा निष्क्रान्ता) । (हला! प्रविश।)
(प्रविश्य)
विदूषक - (नलिनीपत्रेण जलं गृहीत्वा) एसा तत्तहोदी पदुमावदी । (एषा तत्रभवती
पद्मावती ।)
पद्मावती - अय्य वसन्तअ! किं एदं । (आर्य वसन्तक! किमेतत् ।)
विदूषक - एदं इदं । इदं एदं (एतदिदम् । इदमेतत् ।)
पद्मावती - भणादु भणादु अय्यो भणादु । (भणतु भणत्वार्यो भणतु।)
विदूषकः - भोदि! वादणीदेण कासकुसुमरेणुणा अक्खिणिपडिदेण सस्सुपादं
खुतत्तहाद्दो मुहं । ता गण्हदु होदी इदं मुहोदअं । (भवति! वातनीतेन
काशकुसुमरेणुनाक्षिनिपतितेन साश्रुपातं खलु तत्रभवतो मुखम् । तद् गृह्णातु भवतीदं
मुखोदकम् ।)
पद्मावती - (आत्मगतम्) अहो सदक्खिञ्ञस्स जणस्स परिजणो वि सदक्खिञ्ञो एव्व होदि
। (उपेत्य) जेदु अय्यउत्तो । इदं मुहोदअं । (अहो सदाक्षिण्यस्य जनस्य परिजनोऽपि
सदाक्षिण्य एव भवति। जयत्वार्यपुत्रः। इदं मुखोदकम् ।)
राजा - अये पद्मावती । (अपवार्य) वसन्तक किमिदम् ।
विदूषक: - (कर्णे) एव्वं विअ। (एवमिव ।)
राजा - साधु वसन्तक साधु! (आचम्य) पद्मावति ! आस्यताम् ।
पद्मावती - जं अय्यउत्तो आणवेदि । (उपविशति) (यदार्यपुत्र आज्ञापयति ।)
राजा - पद्मावति !
शरच्छशाङ्कगौरेण वाताविद्धेन भामिनि ।
काशपुष्पलवेनेदं साश्रुपातं मुखं मम ।। 7 ।।
(आत्मगतम्)
इयं बाला नवोद्वाहा सत्यं श्रुत्वा व्यथां व्रजेत् ।
कामं धीरस्वभावेयं स्त्रीस्वभावस्तु कातरः ।। 8 ।।
विदूषकः - उइदं तत्तहोदो मअधराअस्स अवरण्हकाले भवन्तं अग्गदो करिअ
सुहिज्जणादंसणं । सक्कारो हि णाम सक्कारेण पटिच्छिदो पीदिं उप्पादेदि । ता उट्ठेदु
दाव भवं । (उचितं तत्रभवतो मगधराजस्यापराह्णकाले भवन्तमग्रतः कृत्वा
सुहज्जनदर्शनम् । सत्कारो हि नाम सत्कारेण प्रतीप्सितः प्रीतिमुत्पादयति ।
तदुत्तिष्ठतु तावद् भवान् ।)
राजा - बाढम् । प्रथमः कल्पः । (उत्थाय)
गुणानां वा विशालानां सत्काराणां च नित्यशः ।
कर्तार: सुलभा लोके विज्ञातारस्तु दुर्लभाः ।। 9 ।।
(निष्क्रान्ताः सर्वे)
इति चतुर्थोऽङ्कः
अथ पञ्चमोऽङ्कः
(ततः प्रविशति पद्मिनिका)
पद्मिनिका - महुअरिए! महुअरिए! आअच्छ दाव सिग्घं। (मधुकरिके! मधुकरिके! आगच्छ
तावच्छीघ्रम् ।)
(प्रविश्य)
मधुकरिका - हला! इअम्हि । किं करीअदु । (हला! इयमस्मि । किं क्रियताम् ।)
पद्मिनिका - हला किं ण जाणासि तुवं भट्टिदारिआ पदुमावदी सीसवेदणाए
दुक्खाविदेत्ति । (हला किं न जानासि त्वं भर्तृदारिका पद्मावती शीर्षवेदनया
दुःखितेति ।)
मधुकरिका - हद्धि । (हा धिक् ।)
पद्मिनिका – हला ! गच्छ सिग्घं, अय्यं आवन्तिअं सद्दावेहि। केवलं भट्टिदारिआए सीसवेदणं एव्व
णिवेदेहि । तदो सअं एव्व आगमिस्सदि । (हला! गच्छ शीघ्रम् आर्यामावन्तिकां शब्दापय।
केवलं भर्तृदारिकायाः शीर्षवेदनामेव निवेदय। ततः स्वयमेवागमिष्यति।)
मधुकारिका - हला! किं सा करिस्सदि। (हला किं सा करिष्यति ।)
पद्मिनिका - सा हु दाणिं महुराहि कहाहि भट्टिदारिआए सीसवेदणं विणोदेदि । (सा
खल्विदानीं मधुराभिः कथाभिर्भतृदारिकायाः शीर्षवेदनां विनोदयति ।)
मधुकरिका - जुज्जइ । कहिं सअणीयं रइदं भट्टिदारिआए। (युज्यते। कुत्र शयनीयं
रचितं भर्तृदारिकायाः।)
पद्मिनिका - समुद्दगिहके किल सेज्जात्थिण्णा । गच्छ दाणिं तुवं। अहं वि
भट्टिणो णिवेदणत्यं अय्यवसंतअं अण्णेसामि। (समुद्रगृहके किल शय्यास्तीर्णा । गच्छेदानीं
त्वम् । अहमपि भर्तृनिवेदनार्थमार्यवसन्तकमन्विष्यामि।)
मधुकरिका - एव्वं होदु (निष्क्रान्ता) (एवं भवतु ।)
पद्मिनिका - कहिं दाणिं अय्यवसंतअं पेक्खामि । (कुत्रेदानीमार्यवसन्तकं
पश्यामि।)
(ततः प्रविशति विदूषकः)
विदूषकः - अज्ज खु देवीविओअविहुरहिअअस्स तत्तहोदो वच्छराअस्स
पदुमावदीपाणिग्गहणस-मीरिअमास्सो अच्चंतसुहावहे मङ्गलोसवे मदण्ग्गिदाहो अहिअदरं
वड्ढइ (पद्मिनिकां विलोक्य) अयि पदुमिणिआ । पदुमिणिए! किं इह वत्तदि । (अद्य खलु
देवीवियोगविधुरहृदयस्य तत्रभवतो वत्सराजस्य
पद्मावतीपाणिग्रहण-समीर्यमाणोऽत्यन्तसुखावहे मङ्गलोत्सवे मदनाग्निदाहोऽधिकतरं
वर्तते ।
अयि पद्मिनिका! पद्मिनिके ! किमिह वर्तते।)
पद्मिनिका - अय्य वसन्तअ! किं ण जाणासि तुवं भट्टिदारिआ पदुमावदी सीसवेदणाए
दुक्वाविदेत्ति। (आर्य वसन्तक! किं न जानासि त्वं भर्तृदारिका पद्मावती
शीर्षवेदनया दुःखितेति।)
विदूषकः - भोदि सच्छं ण जाणामि । (भवति ! सत्यं, न जानामि ।)
पद्मिनिका - तेण हि भट्टिणो णिवेदेहि णं । जाव अहं वि सीसाणुलेवणं तुवारेमि ।
(तेन हि भर्ते निवेदयैनाम्। यावदहमपि शीर्षानुलेपनं त्वरयामि।)
विदूषकः - कहिं सअणीअं रइदं पदुमावदीए। (कुत्र शयनीयं रचितं पद्मावत्याः ?)
पद्मिनिका - समुद्दगिहके किल सेज्जात्थिण्णा (समुद्रगृहके किल शय्यास्तीर्णा।)
विदूषकः - गच्छदु भोदी। जाव अहं वि तत्तदोदौ णिवेदइस्सां। (गच्छतु भवती। याव
दहमपि तत्रभवते निवेदयिष्यामि।) (निष्क्रान्तौ) इति प्रवेशकः ।
(ततः प्रविशति राजा)
राजा –
श्लाध्यामवन्तिनृपतेः सद्दशीं तनूजां कालक्रमेण
पुनरागतदारभारः ।
लावाणके हुतवहेन हृताङ्गयष्टि तां पद्मिनीं हिमहतामिव
चिन्तयामि ॥1॥
(प्रविश्य)
विदूषकः - तुवरदु तुवरदु दाव भवं। (त्वरतां त्वरतां तावद् भवान् ।)
राजा - किमर्थम् ।
विदूषकः - तत्तहोदी पदुमावदी सीसवेदणाए दुक्खाविदा । (तत्र भवती पद्मावती
शीर्षवेदनया दुःखिता।)
राजा - कैवमाह ।
विदूषकः - पदुमिणिआए कहिदं । (पद्मिनिकया कथितम्।)
राजा – भोः ! कष्टम्,
रूपश्रिया समुदितां गुणतश्च युक्तां लब्ध्वा प्रियां मम तु
मन्द इवाद्य शोकः ।
पूर्वाभिघातसरुजोऽप्यनुभूतदुःखः पद्मावतीमपि तथैव समर्थयामि
॥2॥
अथ कस्मिन् प्रदेशे वर्तते पद्मावती ?
विदूषकः - समुद्दगिहके किल सेज्जात्विण्णा। (समुद्रगृहके किल शय्यास्तीर्णा।)
राजा - तेन हि तस्य मार्गमादेशय।
विदूषकः - एदु एदु भवं (एत्वेतु भवान्) (उभौ परिक्रामतः) इदं समुद्दगिहकं।
पविसदु भवं (इदं समुद्रगृहकम् । प्रविशतु भवान्।)
राजा - पूर्वं प्रविश ।
विदूषकः – भो ! तह । (प्रविश्य) अविहा, चिट्ठदु, चिट्ठदु दाव भवं । (भोः ! तथा।
अविधा, तिष्ठतु, तिष्ठतु तावद् भवान्।)
राजा – किमर्थम् ।
विदूषकः - एसो खु दीवप्पभावसूइदरूवो वसुधातले परिवत्तमाणो अअं काओदरो (एष खलु
दीपप्रभावसूचितरूपो वसुधातले परिवर्तमानोऽयं काकोदरः।)
राजा - (प्रविश्यावलोक्य सस्मितम्) अहो सर्पव्यक्तिर्वैधेयस्य ।
ऋज्वायतां हि मुखतोरणलोलमालां
भ्रष्टां क्षितौ त्वमवगच्छसि मूर्ख ! सर्पम् ।
मन्दानिलेन निशि या परिवर्तमाना
किंचित् करोति भुजगस्य विचेष्टितानि ।। 3 ।।
विदूषकः - (निरूप्य) सुट्ठु भवं भणादि। ण हु अअं काओदरो । (प्रविश्यावलोक्य)
तत्तहोदी पदुमावदी आअच्छिअ णिग्गदा भवे । (सुष्टु भवान् भणति। न खल्वयं काकोदरः ।
तत्रभवती पद्मावतीहागत्य निर्गता भवेत्)
राजा - वयस्य! अनागतया भवितव्यम् ।
विदूषकः - कहं भवं जाणादि। (कथं भवान् जानाति।)
राजा - किमत्र ज्ञेयम् ? पश्य,
शय्या नावनता तथास्तृतसमा न व्याकुलप्रच्छदा
न क्लिष्टं हि शिरोपधानममलं शीर्षभिघातौषधैः ।
रोगे दृष्टिविलोभनं जनयितुं शोभा न काचित् कृता
प्राणी प्राप्य रुजा पुनर्न शयनं शीघ्रं स्वयं मुञ्चति ॥4॥
विदूषकः - तेण हि इमÏस्स सय्याए मुहुत्तअं उवविसिअ तत्तहोदि पडिवालेदु भवं । (तेन ह्यस्यां
शय्यायां मुहूर्तकमुपविश्य तत्रभवतीं प्रतिपालयतु भवान्)
राजा - बाढम्। (उपविश्य) वयस्य! निद्रा मां बाधते। कथ्यतां काचित् कथा।
विदूषकः - अहं कहइस्सं । हो त्ति करेदु अत्तभवं। (अहं कथयिष्यामि। हुमिति
करोत्वत्रभवान्।)
राजा - बाढम् ।
विदूषकः - अत्थि णअरी उज्जइणी णाम । तहिं अहिअरमणीआणि उदआण्हाणाणि वत्तन्ति
किल। (अस्ति नगर्युज्जयिनी नाम। तत्राधिकरमणीयान्युदकस्नानानि वर्तन्ते किल।)
राजा - कथमुज्जयिनी नाम।
विदूषकः - जइ अणभिप्पेदा एसा कहा, अण्णं कहइस्सं। (यद्यनभिप्रेतैषा कथा, अन्यां
कथयिष्यामि।)
राजा - वयस्य ! न खलु नाभिप्रेतैषाकथा । किंतु,
स्मराम्यवन्त्याधिपतेः सुतायाः प्रस्थानकाले स्वजनं
स्मरन्त्याः ।
बाष्पं प्रवृत्तं नयनान्तलग्नं स्नेहान्ममैवोरसि
पातयन्त्याः ।।5 ।।
अपि च,
बहुशोऽप्युपदेशेषु यया मामीक्षमाणया ।
हस्तेन स्त्रस्तकोणेन कृतमाकाशवादितम् ।। 6 ।।
विदूषकः - भोदु, अण्णं कहइस्सं । अत्थि णअरं बम्हदत्तं णाम । तहिं किल राआ कंपिल्लो णाम।
(भवतु, अन्यां कथयिष्मामि । अस्ति नगरं ब्रह्मदत्तं नाम ।
तत्र किल राजा काम्पिल्य नाम।)
राजा - किमिति किमिति ?
विदूषकः - (पुनस्तदेव पठति)
राजा - मूर्ख! राजा ब्रह्मदत्तः, नगरं काम्पिल्यमित्यभिधीयताम् ।
विदूषकः - किं राआ बमहदत्तो, णअरं कंपिल्लं । (किं राजा ब्रह्मदत्तः, नगरं
काम्पिल्यम् ।)
राजा - एवमेतत् ।
विदूषकः - तेण हि मुहुत्तअं पडिवालेदु भवं, जाव ओट्ठगअं करिस्सं । राआ ब्रम्हदत्तो, णअरं कंपिल्लं (इति बहुशस्तदेव पठित्वा) इदाणिं सुणादु भवं । अयि सुत्तो
अत्तभवं । अदिसीदला इअं बेला। अत्तणो पावरअं गणिहअ आअम्स्सं । (निष्कान्तः) (तेन
हि मुहूर्तकं प्रतिपालयतु भवान्, यावदोष्ठगतं करिष्यामि ।
राजा ब्रह्मदत्तः, नगरं काम्पिल्यम् । इदानीं शृणोतु भवान् ।
अयि सुप्तोऽत्रभवान् । अतिशीतलेयं वेला । आत्मनः प्रावारकं गृहीत्वागमिष्यामि ।)
(ततः प्रविशति वासवदत्ता आवन्तिकावेषेण चेटी च)
चेटी - एदु एदु अय्या । दिढं खु भट्टिदारिआ सीसवेदणाए दुक्खाविदा ।
(एत्वेत्वार्या । हढं खलु भर्तृदारिका शीर्षवेदनया दुःखिता ।)
वासवदत्ता - हद्धि, कहिं सअणीअं रइदं पदुमावदीए । (हा धिक्, कुत्र
शयनीयं रचितं पद्मावत्याः।)
चेटी - समुद्दगिहके किल सेज्जात्थिण्णा । (समुद्रगृहके किल शय्यास्तीर्णा ।)
वासवदत्ता - तेण हि अग्गदो याहि । (तेन ह्यग्रतो याहि ।) (उभे परिक्रामतः)
चेटी - इदं समुद्दगिहकं । पविसदु अय्या । जाव अहं वि सीसाणुलेवणं तुवारेमि ।
(निष्क्रान्ता) । (इदं समुद्रगृहकम् । प्रविशत्वार्या । यावदहमपि शीर्षानुलेपनं
त्वरयामि ।)
(निष्क्रान्ता)
वासवदत्ता - अहो अकरुणा खु इस्सरा मे । विरहपय्युस्सुअस्स अय्यउत्तस्स
विस्समत्थाणभूदा इअं पि णाम पदुमावदी अस्सत्था जादा । जाव पविसामि ।
(प्रविश्यावलोक्य) अहो परिजणस्स पमादो । अस्सत्थं पदुमावदि केवलं दीवसहाअं करिअ
परित्तजदि। इअं पदुमावदी ओसुत्ता। जाव उवविसामि । अहव अञ्ञासणपरिग्गहेण अप्पो विअ
सिणेहो पडिभादि । ता इमस्सि सय्याए उवविसामि । (उपविश्य) किं णु खु एदाए सह
उवविसन्तीए अज्ज पह्लादिदं विअ मे हिअअं। दिट्ठिआ अविच्छिण्णसुहणिस्सासा।
णिय्वुत्तरोआए होदव्वं । अहव एअदेससंविभाअदाए सअणीअस्स सुएदि मं आलिङ्गेहि त्ति।
जाव सइस्सं। (शयनं नाटयति) ।
(अहो अकरुणाः खल्वीश्वरा मे। विरहपर्युत्सुकस्यार्यपुत्रस्य
विश्रमस्थानभूतेयमपि नाम पद्मावत्यस्वस्था जाता। यावत् प्रविशामि ।
(प्रविश्याक्लोक्य) अहो परिजनस्य प्रमादः। अस्वस्थां पद्मावतीं केवलं दीपसहायां
कृत्वा परित्यजति । इयं पद्मावत्यवसुप्ता। यावदुपविशामि। अथवान्यासनपरिग्रहेणाल्प
इव स्नेहः प्रतिभाति। तदस्यां शय्यायां उपविशामि। (उपविश्य)- किं नु खल्वेतया
सहोपविशन्त्या अद्य प्रह्लादितमिव मे हृदयम् । दिष्ट्याविच्छिन्नसुखनिःश्वासा ।
निवृत्तरोगया भवितव्यम्। अथवैकदेशसंविभागतया शयनीयस्य सूचयति मामालिङ्गेति ।
यावच्छयिष्ये ।)
राजा - (स्वप्नायते) हा वासवदत्ते ।
वासवदत्ता - (सहसोत्थाय) हं अय्यउत्तो । ण हु पदुमावदी। किं णु खु दिट्टाम्हि।
महन्तो खु अय्यजोअन्धराअणस्स पडिण्णाहारो मम दंसणेण णिप्फलो संवुत्तो। (हम्
आर्यपुत्रः। न खलु पद्मावती। किं नु खलु दृष्टास्मि । महान् खल्वार्ययौगन्धरायणस्य
प्रतिज्ञाभारो मम दर्शनेन निष्फलः संवृत्तः ।)
राजा - हा अवन्तिराजपुत्रि!
वासवदत्ता - दिट्ठिआ सिविणाअदि खु अय्यउत्तो। ण एत्थ कोच्चि जणो । जाव
मुहुत्तअं चिट्ठिअ दिÏट्ठ हिअअं च तोसेमि। (दिष्ट्या स्वप्नायते खल्वार्यपुत्रः । नात्र
कश्चिज्जनः। यावन्मुहूर्र्तकं स्थित्वा दृष्टिं हृदयं च तोषयामि।)
राजा - हा प्रिये! हा प्रियशिष्ये! देहि मे प्रतिवचनम् ।
वासवदत्ता - आलवामि भट्टा! आलवामि । (आलपामि भर्तः! आलपामि।)
राजा - किं कुपितासि। वासवदत्ता - ण हि ण हि। दुक्खिदम्हि । (नहि नहि।
दुःखितास्मि ।)
राजा - यद्यकुपिता, किमर्थं नालंकृतासि।
वासवदत्ता - इदो वरं कि। (इतः परं किम् ।)
राजा - किं विरचिकां स्मरसि ।
वासवदत्ता - (सरोषम्) आ अवेहि, इहावि विरचिआ । (आ अपेहि, इहापि
विरचिका।)
राजा - तेन हि विरचिकार्थं भवतीं प्रसादयामि । (हस्तौ प्रसारयति)
वासवदत्ता - चिरं ठिदम्हि। को वि मं पेक्खे । ता गमिस्सं । अहव, सय्यापलम्विअं अय्यउत्तस्स हत्थं सअणीए
आरोविअ गमिस्सं । (तथा कृत्वा निष्क्रान्ता) । (चिरं स्थितास्मि। कोऽपि मां
पश्येत्। तद् गमिष्यामि । अथवा, शय्याप्रलम्बितमार्यपुत्रस्य
हस्तं शयनीय आरोप्य गमिष्यामि।)
राजा - (सहसोत्थाय) वासवदत्ते! तिष्ठ तिष्ठ । हा धिक् !
निष्क्रामन् संभ्रमेणाहं द्वारपक्षेण ताडितः ।
ततो व्यक्तं न जानामि भूतार्थोऽयं मनोरथः ।। 7 ।।
(प्रविश्य) विदूषकः - अइ पडिबुद्धो अत्तभवं (अयि प्रतिबुद्धोऽत्रभवान्।)
राजा - वयस्य! प्रियमावेदये, धरते खलु वासवदत्ता ।
विदूषकः - अविहा वासवदत्ता । कहिं वासवदत्ता । चिरा खु उवरदा वासवदत्ता ।
(अविधा वासवदत्ता। कुत्र वासवदत्ता । चिरात् खलूपरता वासवदत्ता ।)
राजा - वयस्य मा मैवं,
शय्यायामवसुप्तं मां बोधयित्वा सखे गता ।
दग्धेति ब्रुवता पूर्वं वञ्चितोऽस्मि रुमण्वता ॥8॥
विदूषकः – अविहा ! असम्भवणीअं एदं । आ ! उदअण्हाणसङ्कित्तणेण तत्तहोदिं चिन्तअन्तेण
सा सिविणे दिट्टा भवे। (अविधा असंभावनीयमेतद् । आः! उदकस्नानसंकीर्तनेन तत्रभवतीं
चिन्तयता सा स्वप्ने दृष्टा भवेत् ।)
राजा – एवं मया स्वप्नो दृष्टः ?
यदि तावदयं स्वप्नो धन्यमप्रतिबोधनम् ।
अथायं विभ्रमो वा स्याद् विभ्रमो ह्यस्तु मे चिरम् ।। 9 ।।
विदूषकः - भो! वअस्स! एदस्स णअरे अवन्तिसुन्दरी णाम जक्खिणी पडिवसदि । सा तुए
दिट्ठा भवे । (भोः! वयस्य ! एतस्मिन् नगरेऽवन्तिसुन्दरी नाम यक्षिणी प्रतिवसति। सा
त्वया दृष्टा भवेत् ।)
राजा - न न,
स्वप्नस्यान्ते विबुद्धेन नेत्रविप्रोक्षिताञ्जनम् ।
चारित्रमपि रक्षन्त्या दृष्टं दीर्घालकं मुखम् ।। 10 ।।
अपि च वयस्य! पश्य पश्य,
योऽयं संत्रस्तया देव्या तया बाहुर्निपीडितः ।
स्वप्नेऽप्युत्पन्नसंस्पर्शो रोमहर्षं न मुञ्चति ।। 11 ।।
विदूषकः - मा दाणिं भवं अणत्थं चिन्तिअ। एदु एदु भवं। चउस्सालं पविसामो
(मेदानीं भवाननर्थं चिन्तयित्वा । एत्वेतु भवान् । चतुःशालं प्रविशावः ।)
(प्रविश्य) काञ्चुकीयः - जयत्वार्यपुत्रः। अस्माकं महाराजो दर्शको भवन्तमाह- ‘एष खलु भवतोऽमात्यो रुमण्वान् महता
बलसमुदयेनोपयातः खल्वारुणिमभिघातयितुम् । तथा हस्त्यश्वरथपदातीनि मामकानि
विजयाङ्गानि संनद्धानि । तदुत्तिष्ठतु भवान् । अपि च –
भिन्नास्ते रिपवो भवद्गुणरताः पौराः समाश्वासिताः
पार्ष्णी यापि भवत्प्रयाणसमये तस्या विधानं कृतम् ।
यद्यत् साध्यमरिप्रमाथजननं तत्तन्मयानुष्ठितं
तीर्णा चापि बलैर्नदी त्रिपथगा वत्साश्च हस्ते तव।। 12 ।।
राजा - (उत्थाय) बाढम् । अयमिदानीम्,
उपेत्य नागेन्द्रतुरंगतीर्णे तमारुणिं दारुणकर्मदक्षम् ।
विकीर्णबाणोग्रतरङ्गभङ्गे महार्णवाभे युधि नाशयामि ।। 13 ।।
(निष्कान्ताः सर्वे)
इति पञ्चमोऽङ्कः
अथ षष्ठोऽङ्कः
(ततः प्रविशति काञ्चुकीयः)
काञ्चुकीयः - क इह भो ! काञ्चनतोरणद्वारमशून्यं कुरुते ?
(प्रविश्य)
प्रतीहारी - अय्य! अहं विजआ। किं करीअदु। (आर्य! अहं विजया । किं क्रियताम् ।)
काञ्चुकीयः - भवति! निवेद्यतां निवेद्यतां वत्सराज्यलाभप्रवृद्धोदयायोदयनाय
"एष खलु महासेनस्य सकाशाद् रैभ्यसगोत्रः काञ्चुकीयः प्राप्तः, तत्रभवत्या चाङ्गारवत्या प्रेषितार्या
वसुन्धरा नाम वासवदत्ताधात्री च प्रतीहारमुपस्थिताविति ।
प्रतीहारी - अय्य! अदेसकाऴो पडिहारस्य (आर्य! अदेशकालः प्रतीहारस्य ।)
काञ्चुकीयः - कथमदेशकालो नाम ।
प्रतीहारी - सुणादु अय्यो । अज्ज भट्टिणो सुयामुणप्पासादगदेण केण वि वीणा
वादिता । तं च सुणिअ भट्टिणा भणिअं "घोसवदीए सद्दो विअ सुणीअदि" त्ति ।
(श्रुणोत्वार्यः । अद्य भर्तुः सुयामुनप्रासादगतेन केनापि वीणा वादिता । तां च
श्रुत्वा भर्त्रा भणितं "घोषवत्याः शब्द इव श्रूयत" इति।)
काञ्चुकीयः - ततस्ततः ।
प्रतीहारी - तदो तहिं गच्छिअ पुच्छिदो "कुदो इमाए वीणाए आगमो"त्ति ।
तेण भणिदं "अम्मेहिं णम्मदातीरे कुरयगुम्मऴग्गा दिट्ठा । जइ प्पओअणं इमाए, उवणीअदु भट्ठणो"त्ति । तं च उवणीदं
अंके करिअ मोहं गदो भट्टा । तदो मोहप्पच्चगदेण बप्फपय्याउऴेण मुहेण भट्टिणा भणिअं
"दिट्ठासि घोसवदि! सा हु ण दिस्सदि" त्ति । अय्य! ईदिसो अणवसरो। कहं
णिवेदेमि ।
(ततस्तत्र गत्वा पृष्टः "कुतोऽस्या वीणाया आगम" इति। तेन भणितं
"अस्माभिर्नर्मदातीरे कूर्चगुल्मलग्ना दृष्टा। यदि प्रयोजनमनया, उपनीयतां भर्त्रा" इति। तां
चोपनीतामङ्के कृत्वा मोहं गतो भर्ता। ततो मोहप्रत्यागतेन बाष्पपर्याकुलेन मुखेन भर्त्र
भणितं "दृष्टासि घोषवति! सा खलु न दृश्यते" इति । आर्य! ईदृशोऽनवसरः ।
कथं निवेदयामि ?)
काञ्चुकीयः - भवति! निवेद्यताम् । इदमपि तदाश्रयमेव ।
प्रतीहारी - अय्य! इअं णिवेदेमि। एसो भट्टा सुयामुनप्पासादादो ओदरइ । ता इह
एव्व णिवेदइस्सं। (आर्य! इयं निवेदयामि । एषा भर्ता सुयामुनप्रासादादवतरति ।
तदिहैव निवेदयिष्यामि)
काञ्चुकीयः - भवति ! तथा । (उभौ निष्कान्तौ) इति मिश्रविष्कम्भकः ।
(ततः प्रविशति राजा विदूषकश्च)
राजा –
श्रुतिसुखनिनदे! कथं नु देव्याः स्तनयुगले जघनस्थले च
सुप्ता ।
विहगगणरजोविकीर्णदण्डा प्रतिभयमध्युषितास्यरण्यवासम् ।। 1
।।
अपि च, अस्निग्धासि
घोषवति! या तपस्विन्या न स्मरसि –
श्रोणीसमुद्वहनपाश्र्वनिपीडितानि
खेदस्तनान्तरसुखान्युपगूहितानि ।
उद्दिश्य मां च विरहे परिदेवितानि वाद्यान्तरेषु कथितानि च
सस्मितानि ।। 2 ।।
विदूषकः - अलं दाणिं भवं अदिमत्तं सन्तप्पिअ । (अलमिदानीं भवानतिमात्रं संतप्य
।)
राजा - वयस्य! मा मैवं,
चिरप्रसुप्तः कामो मे वीणया प्रतिबोधितः ।
तां तु देवीं न पश्यामि यस्या घोषवती प्रिया ।। 3 ।।
वसन्तक! शिल्पिजनसकाशान्नवयोगां घोषवतीं कृत्वा शीघ्रमानय ।
विदूषकः - जं भवं आणवेदि । (वीणां गृहीत्वा निष्कान्तः) (यद् भवानाज्ञापयति।)
(प्रविश्य)
प्रतीहारी - जेदु भट्टा। एसो खु महासेणस्स सआसादो रेभसगोत्तो कंञ्चुईओ देवीए
अङ्गरवदीए पेसिदा अय्या वसुन्धरा णाम वासवदत्ताधत्ती अ पडिहारं उवठिठदा। (जयतु
भर्ता। एष खलु महासेनस्य सकाशाद् रैभ्यसगोत्रः काञ्चुकीयो देव्याङ्गारवत्या
प्रेषितार्या वसुन्धरा नाम वासवदत्ताधात्री च प्रतिहारमुपस्थितौ!)
राजा - तेन हि पद्मावती तावदाहूयताम्।
प्रतीहारी - जं भट्टा आणवेदि (निष्क्रान्ता) (यद् भर्ताज्ञापयति।)
राजा - किं नु खलु शीघ्रमिदानीमयं वृत्तान्तो महासेनेन विदितः ।
(ततः प्रविशति पद्मावती प्रतीहारी च)
प्रतीहारी - एदु एदु भट्टिदारिआ । (एत्वेतु भर्तृदारिका।)
पद्मावती - जेदु अय्यउत्तो । (जयत्वार्यपुत्रः।)
राजा – पद्मावति ! कि श्रुतं महासेनस्य सकाशाद् रैभ्यसगोत्रः काञ्चुकीयः
प्राप्तः तत्रभवत्या चाङ्गारवत्या प्रेषितार्या वसुन्धरा नाम वासवदत्ताधात्री च
प्रतिहारमुपस्थिताविति ।
पद्मावती - अय्यउत्त! पिअं मे जदिकुलस्स कुसलवुत्तन्तं सोदुं। (आर्यपुत्र!
प्रियं मे ज्ञातिकुलस्य कुशलवृत्तान्तं श्रोतुम्।)
राजा - अनुरूपमेतद् भवत्याभिहितं "वासवदत्तास्वजनो मे स्वजन" इति ।
पद्मावति! आस्यताम्। किमिदानीं नास्यते।
पद्मावती - अय्यउत्त! किं मए सह उवविठठो एवं जणं पेक्खिस्सदि। (आर्यपुत्र! किं
मया सहोपविष्ट एतं जनं प्रेक्षिष्यते।)
राजा - कोऽत्र दोषः ।
पद्मावती - अय्यउत्तस्स अवरो परिग्गहो त्ति उदासीणं विअ होदि।
(आर्यपुत्रस्यापरः परिग्रह इत्युदासीनमिव भवति।)
राजा - कलत्रदर्शनार्हं जनं कलत्रदर्शनात् परिहरतीति बहुदोषमुत्पादयति।
तस्मादास्यताम् ।
पद्मावती - जं अय्यउत्तो आणवेदि। (उपविश्य) अय्यउत्त! तादो वा अम्बा वा किं णु
खु भणिस्सदि त्ति आविग्गा विअ संवुत्ता । (यदार्यपुत्र आज्ञापयति। आर्यपुत्र! तातो
वाम्बा वा कि नु खलु भणिष्यतीत्याविग्नेव संवृत्ता।)
राजा - पद्मावति! एवमेतत् ।
किं वक्ष्यतीति हृदयं परिशङ्कितं मे
कन्या मयाप्यपहृता न च रक्षिता सा ।
भाग्यैश्चलैर्महदवाप्य गुणोपघातं
पुत्रः पितुर्जनितरोष इवास्मि भीतः ।। 4 ।।
पद्मावती - णं किं सक्कं रक्खिदुं पत्तकाले। (ननु किं शक्यं रक्षितुं
प्राप्तकाले।)
प्रतीहारी - एसो कञ्चुईओ धत्ती अ पडिहारं उवठ्ठिदा। (एष काञ्चुकीयो धात्री च
प्रतिहारमुपस्थितौ।)
राजा - शीघ्रं प्रवेश्यताम्।
प्रतीहारी - जं भट्टा आणवेदि । (निष्क्रान्ता) (यद् भर्ताज्ञापयति।)
(ततः प्रविशति काञ्चुकीयो धात्री प्रतिहारी च।)
काञ्चुकीयः – भोः !
संबन्धिराज्यमिदमेत्य महान् प्रहर्षः
स्मृत्वा पुनर्नृपसुतानिधनं विषादः ।
किं नाम दैव! भवता न कृतं यदि स्याद्
राज्यं परैरपहृतं कुशलं च देव्याः ।। 5 ।।
प्रतीहारी - एसो भट्टा, उवसप्पदु अय्यो । (एष भर्ता, उपसर्पत्वार्यः।)
काञ्चुकीयः - (उपेत्य) जयत्वार्यपुत्रः ।
धात्री - जेदु भट्टा । (जयतु भर्ता।)
राजा - (सबहुमानम्) आर्य !
पृथिव्यां राजवंश्यानामुदयास्तमयप्रभुः ।
अपि राजा स कुशली मया काङ्क्षितबान्धवः ।। 6 ।।
काञ्चुकीयः - अथ किम् । कुशली महासेनः। इहापि सर्वगतं कुशलं पृच्छति।
राजा - (आसनादुत्थाय) किमाज्ञापयति महासेनः।
काञ्चुकीयः - रादृशमेतद् वैदेहीपुत्रस्य। नन्वासनस्थेनैव भवता श्रोतव्यो
महासेनस्य संदेशः।
राजा - यदाज्ञापयति महासेनः। (उपविशति)
काञ्चुकीयः - दिष्टया परैरपहृतं राज्यं पुनः प्रत्यानीतमिति। कुतः –
कातरा येऽप्यशक्ता वा नोत्साहस्तेषु जायते ।
प्रायेण हि नरेन्द्रश्रीः सोत्साहैरेव भुज्यते ।। 7 ।।
राजा - आर्य! सर्वमेतन्महासेनस्य प्रभावः। कुतः –
अहमवजितः पूर्वं तावत् सुतैः सह लालितो
दृढमपहृता कन्या भूयो मया न च रक्षिता ।
निधनमपि च श्रुत्वा तस्यास्तथैव मयि स्वता
ननु यदुचितान् वत्सान् प्राप्तुं नृपोऽत्र हि कारणम् ।। 8
।।
काञ्चुकीयः - एष महासेनस्य संदेशः । देव्याः संदेशमिहात्रभवती कथयिष्यति।
राजा - हा अम्ब !
षोडशान्तः पुरज्येष्ठा पुण्या नगरदेवता ।
मम प्रवासदुःखार्ता माता कुशलिनी ननु ।। 9 ।।
धात्री - अरोआ भट्टिनी भट्टारं सव्वगदं कुशलं पुच्छदि । (अरोगा भट्टिनी
भर्तारं सर्वगतं कुशलं पृच्छति।)
राजा - सर्वगतं कुशलमिति । अम्ब! ईद्दशं कुशलम्।
धात्री - मा दाणिं भट्टा अदिमत्तं सन्तप्पिदुं। (मेदानीं भर्तातिमात्रं
संतप्तुम्।)
काञ्चुकीयः - धारयत्वार्यपुत्रः। उपरताप्यनुपरता महासेनपुत्री
एवमनुकम्प्यमानार्यपुत्रेण। अथवा –
कः कं शक्तो रक्षितुं मृत्युकाले रज्जुच्छेदे के घटं
धारयन्ति ।
एवं लोकस्तुल्यधर्मो वनानां काले काले छिद्यते रुह्यते च ।।
10 ।।
राजा - आर्य! मा मैवं,
महासेनस्य दुहिता शिष्या देवी च मे प्रिया ।
कथं सा न मया शक्या स्मर्तुं देहान्तरेष्वपि ।। 11 ।।
धात्री - आह्ण भट्टिणी उद्वरदा वासवदत्ता । मम वा महासेणस्स वा जादिसा
गोवालअपालआ, तादिसो
एव्व तुमं पुढमं एव्व अभिप्पेदो जामादुअत्ति। एदण्णिमित्तं उज्जइणिं आणीदो।
अणग्गिसक्खिअं वीणाववदेसेण दिण्णा । अत्तणो चवलदाए अणिव्वुत्तविवाहमङ्गलो एव्व
गदो। अह अ अम्हेहिं तव अ वासवदत्ताए अ पडिकिदिं चित्तफलआए आलिहिअ विवाहो णिवृत्तो
। एसा चित्तफलआ तव सआसं पेसिदा। एदं पेक्खिअ णिव्वुदो होहि। (आह भट्टिनी- ‘उपरता वासवदत्ता। मम वा महासेनस्य वा यादृशौ गोपालकपालकौ, तादृश एव त्वं प्रथममेवाभिप्रेतौ जामाते’ ति।
एतन्निमित्तमुज्जयिनीमानीतः। अनग्निसाक्षिकं वीणाव्यपदेशेन दत्ता।
आत्मनश्चपलतयानिर्वृत्तविवाहमङ्गल एव गतः। अथ चावाभ्यां तव च वासवदत्तायाश्च
प्रतिकृतिं चित्रफलकायामालिख्य विवाहो निर्वृत्तः। एषा चित्रफलका तव सकाशं
प्रेषिता। एतां प्रेक्ष्य निर्वृतो भव)
राजा - अहो अतिस्निग्धमनुरूपं चाभिहितं तत्रभवत्या ।
वाक्यमेतत् प्रियतरं राज्यलाभशतादपि ।
अपराद्धेष्वपि स्नेहो यदस्मासु न विस्मृतः ।। 12 ।।
पद्मावती – अय्यउत्त ! चित्तगदं गुरुअणं पेक्खिअ अभिवावेदुं इच्छामि।
(आर्यपुत्र! चित्रगतं गुरुजनं प्रेक्ष्याभिवादयितुमिच्छामि)
धात्री - पेक्खदु पेक्खदु भट्टिदारिआ (चित्रफलकां दर्शयति) (प्रेक्षतां
प्रेक्षतां भर्तृदारिका।)
पद्मावती - (दृष्ट्वा आत्मगतम्) हं अदिसदिसी खु इअ अय्याए आवन्तिआए।
(प्रकाशम्) अय्यउत्त! सदिसी खु इअं अय्याए (हम् अतिसदृशी सल्वियमार्याया
आवन्तिकायाः । आर्यपुत्र! सदृशी खल्वियमार्यायाः।)
राजा - न सदृशी । सैवेति मन्ये। भोः कष्टम्,
अस्य स्निग्धस्य वर्णस्य विपत्तिर्दारुणा कथम् ।
इदं च मुखमाधुर्यं कथं दूषितमग्निना ।। 13 ।।
पद्मावती - अय्यउत्तस्स पडिकिदिं पेक्खिअ जाणामि इअं अय्याए सदिसी ण वेत्ति।
(आर्यपुत्रस्य प्रतिकृतिं दृष्ट्वा जानामीयमार्यया सदृशी न वेति।)
धात्री - पेक्खदु पेक्खदु भट्टिदारिआ। (प्रेक्षतां प्रेक्षतां भर्तृदारिका।)
पद्मावती - (दृष्ट्वा) अय्यउत्तस्स पडिकिदीए सदिसदाए जाणामि इअं अय्याए सदिसी
त्ति। (आर्यपुत्रस्य प्रतिकृतेः सदृशतया जानामीयमार्यया सदृशीति ।)
राजा - देवि! चित्रदर्शनात् प्रभृति प्रहृष्टोद्विग्नामिव त्वां पश्यामि ।
किमिदम् ।
पद्मावती - अय्यउत्त! इमाए पडिकिदीए सदिसी इह एव्व पडिवसदि । (आर्यपुत्र! अस्य
प्रतिकृतेः सदृशीहैव प्रतिवसति ।)
राजा - किं वासवदत्तायाः ।
पद्मावती - आम । (आम् ।)
राजा - तेन हि शीघ्रमानीयताम् ।
पद्मावती - अय्यउत्त! मम कण्णाभावे केणवि बम्हणेद् मम भइणिअत्ति ण्णासो
णिक्खितो । पोसिदभत्तुआ परपुरुसदसणं परिहरदि । ता अय्यां मए सह आअदं पेक्खिअ
जाणादु अय्यउत्तो (आर्यपुत्र! मम कन्याभावे केनापि ब्राह्मणेन मम भगिनिकेति न्यासो
निक्षिप्तः । प्रोषितभर्तृका परपुरुषदर्शनं परिहरति। तदार्यां मया सहागतां
प्रेक्ष्य जानात्वार्यपुत्रः ।)
राजा –
यदि विप्रस्य भगिनी व्यक्तमन्या भविष्यति ।
परस्परगता लोके द्दश्यते रूपतुल्यता ।। 14 ।।
(प्रविश्य)
प्रतीहारी - जेदु भट्टा । एसो उज्जइणीओ बह्मणो, भट्टिणीए हत्थे मम भइणिअत्ति ण्णासो णिक्खित्तो, तं पडिग्गहिदुं पडिहारं उवट्टिदो । (जयतु भर्ता । एष उज्जयिनीयो ब्राह्मणः,
भट्टिन्या हस्ते मम भगिनिकेति न्यासो निक्षिप्तः, तं प्रतिग्रहीतुं प्रतिहारमुपस्थितः ।)
राजा - पद्मावती ! किं नु स ब्राह्मणः ।
पद्मावती - होदव्वं ।। (भवितव्यम् ।)
राजा - शीघ्रं प्रवेश्यतामभ्यन्तरसमुदाचारेण स ब्राह्मणः ।
प्रतीहारी - जं भट्टा आणवेदि (निष्क्रान्ता) । (यद् भर्ताज्ञापयति ।)
राजा - पद्मावति! त्वमपि तामानय ।
पद्मावती - जं अय्यउत्तो आणवेदि । (निष्क्रान्ता) । (यदार्यपुत्र आज्ञापयति ।)
(ततः प्रविशति यौगन्धरायणः प्रतीहारी च)
यौगन्धरायणः - भोः! (आत्मगतम्)
प्रच्छाद्य राजमहिषीं नृपतेर्हितार्थं
कामं मया कृतमिदं हितमित्यवेक्ष्य ।
सिद्धेऽपि नाम मम कर्मणि पार्थिवोऽसौ
कि वक्ष्यतीति हृदयं परिशङ्कितं मे ।। 15 ।।
प्रतीहारी - एसो भट्टा । उपसप्पदु अय्यो । (एष भर्ता । उपसर्पत्वार्यः।)
यौगन्धरायणः - (उपसृत्य) जयतु भवान् जयतु ।
राजा - श्रुतपूर्व इव स्वरः! भो ब्राह्मण! किं भवतः स्वसा पद्मावत्या हस्ते
न्यास इति निक्षिप्ता ।
यौगन्धरायणः - अथ किम्?
राजा - तेन हि त्वर्यतां त्वर्यतामस्य भगिनिका ।
प्रतीहारी - जं भट्टा आणवेदि । (निष्क्रान्ता) (यद् भर्ताज्ञापयति।)
(ततः प्रविशति पद्मावती आवन्तिका प्रतीहारी च)
पद्मावती - एदु एदु अय्या । पिअं दे णिवेदेमि । (एत्वेत्वार्या । प्रियं ते
निवेदयामि ।)
आवन्तिका - किं किं । (किं किम्।)
पद्मावती - भादा दे आअदो । (भ्राता ते आगतः ।)
आवन्तिका - दिट्ठिआइदाणिं पि सुमरदि । (दिष्टयेदानीमपि स्मरति ।)
पद्मावती - (उपसृत्य) जेदु अय्य् उत्तो । एसो णासो (जयत्वार्यपुत्रः । एष
न्यासः ।)
राजा - निर्यातय पद्मावति! । अथवा साक्षिमन्न्यासो निर्यातयितव्यः । इहात्र
भवान् रैभ्यः, अत्रभवती
चाधिकरणं भविष्यतः ।
पद्मावती - अय्य! णीअदां दाणिं अय्या (आर्य! नीयतामिदानीमार्या)
धात्री - (आवन्तिकां निर्वण्र्य) अम्मो ! भट्टिदारिआ वासवदत्ता । (अम्मो!
भर्तृदारिका वासवदत्ता)
राजा - कथं महासेनपुत्री । देवि! प्रविश त्वमभ्यन्तरं पद्मावत्या सह ।
यौगन्धरायण - न खलु न खलु प्रवेष्टव्यम् । मम भगिनी खल्वेषा ।
राजा - किं भवानाह । महासेनपुत्री खल्वेषा ।
यौगन्धरायणः - भो राजन् ।
भारतानां कुले जातो विनीतो ज्ञानवाञ्छुचिः ।
तन्नार्हसि बलाद्धर्तुं राजधर्मस्य देशिकः ।। 16 ।।
राजा - भवतु, पश्यामस्तावद् रूपसाद्दश्यम् । संक्षिप्यतां यवनिका ।
यौगन्धरायणः - जयतु स्वामी ।
वासवदत्ता - जेदु अय्यउत्तो (जयत्वार्यपुत्रः । )
राजा - अये! असौ यौगन्धरायणः । इयं महासेनपुत्री ।
किं नु सत्यमिदं स्वप्नः सा भूयो द्दश्यते मया ।
अनयाप्येवमेवाहं दृष्टया वञ्चितस्तदा ।। 17 ।।
यौगन्धरायणः - स्वामिन् ! देव्यपनयेन कृतापराधः खल्वहम् । तत् क्षन्तुमर्हति
स्वामी । (इति पादयोः पतति)
राजा - (उत्थाप्य) यौगन्धरायणो भवान्
ननु ।
मिथ्योन्मादैश्च युद्धैच्च शास्त्रदृष्टैश्च मन्त्रितैः ।
भवद्यत्नैः खलु वयं मज्जमानाः समुद्घृताः ।। 18 ।।
यौगन्धरायणः - स्वामिभाग्यानामनुगन्तारो वयम् ।
पद्मावती - अम्महे अय्या खु इअं । अय्ये! सहीजणसमुदाआरेण अजाणन्तीए अदिक्कन्दो
समुदाआरो। ता सीसेण पसादेमि । (अहो आर्या खल्वियम् । आर्ये! सखीजनसमुदाचारेणाजानन्त्यातिक्रान्तः
समुदाचारः । तच्छीर्षेण प्रसादयामि।)
वासवदत्ता - (पद्मावतीमुत्थाप्य) उट्ठेहि उट्ठेहि अविहवे! उट्ठेहि! अत्थिसअं
णाम सरीरं अवरद्धइ। (उत्तिष्ठोत्तिष्ठाविधवे! उत्तिष्ठ । अर्थित्वं नाम
शरीरमपराध्यति ।)
पद्मावती - अणुग्गहिदिह्मि । (अनुगृहीतास्मि।)
राजा - वयस्य यौगन्धरायण ! देव्यपनये का कृता ते बुद्धिः ।
यौगन्धरायणः - कौशम्बीमात्रं परिपालयामीति ।
राजा - अथ पद्मावत्या हस्ते र्कि न्यासकारणम् ।
यौगन्धरायणः - पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वामिनो देवी भविष्यतीति ।
राजा - इदमपि रुमण्वता ज्ञातम् ।
यौगन्धरायणः - स्वामिन्! सर्वेरेव ज्ञातम् ।
राजा - अहो शठः खलु रुमण्वान् ।
यौगन्धरायणः - स्वामिन् ! देव्याः कुशलनिवेदनार्थमद्यैव प्रतिनिवर्ततामत्र
भवान् रैभ्योऽत्रभवती च ।
राजा - न, न । सर्वं
एव वयं यास्यामो देव्या पद्मावत्या सह ।
यौगन्धरायणः - यदाज्ञापयति स्वामी ।
(भरतवाक्यम्)
इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् ।
महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ।। 19 ।।
(निष्क्रान्ताः सर्वे)
इति षष्ठोऽङ्कः ॥
स्वप्नवासवदत्तं संपूर्णम् ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें