मंगलवार, 12 जनवरी 2021

साङ्ख्यकारिका

अथ ईश्वरकृष्णविरचिता

दुःखत्रयाभिघाताज्जिज्ञासा तद्पघातके हेतौ ।

दृष्टेसाऽपार्था चेन्नैकान्तात्यन्ततोऽभावात्  ॥१॥

दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः ।

तद्विपरीतः श्रेयान्, व्यक्ताव्यक्तज्ञविज्ञानात्  ॥२॥

मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।

षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥३॥

दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् ।

त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥४॥

प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम् ।

तल्लिङ्गलिङ्गिपूर्वकमाप्तश्रुतिराप्तवचनं तु ॥५॥

सामान्यतस्तु दृष्टाद् अतीन्द्रियाणां प्रतीतिरनुमानात् ।

तस्मादपि चासिद्धं परोक्षमाप्तागमात् सिद्धम् ॥६॥

अतिदूरात् सामीप्यात् इन्द्रियघातान्मनोऽनवस्थानात् ।

सौक्ष्म्याद् व्यवधानाद् अभिभवात् समानाभिहाराच्च ॥७॥

सौक्ष्म्यात्तदनुपलब्धिर्नाऽभावात् कार्यतस्तदुपलब्धेः ।

महदादि तच्च कार्यं प्रकृतिसरूपं विरूपं च ॥८॥

असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ।

शक्तस्य शक्यकरणात् कारणभावाच्च सत् कार्यम् ॥९॥

हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् ।

सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥१०॥

त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि ।

व्यक्तं, तथा प्रधानम्, तद्विपरीतस्तथा च पुमान् ॥११॥

प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः ।

अन्योऽन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ॥१२॥

सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः ।

गुरु वरणकमेव तमः, प्रदीपवच्चार्थतो वृत्तिः ॥१३॥

अविवेक्यादेः सिद्धिः त्रैगुण्यात्तद्विपर्ययाभावात् ।

कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धम् ॥१४॥

भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च ।

कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥१५॥

कारणमस्त्यव्यक्तम्, प्रवर्तते त्रिगुणतः समुदयाच्च ।

परिणामतः सलिलवत् प्रतिप्रतिगुणाश्रयविशेषात् ॥१६॥

संघातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् ।

पुरुषोऽस्ति भोक्तृभावात्कैवल्यार्थं प्रवृत्तेश्च ॥१७॥

जननमरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च ।

पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ॥१८॥

तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य ।

कैवल्यम्माध्यस्थ्यं दृष्ट्टत्वमकर्तृभावश्च ॥१९॥

तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।

गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः ॥२०॥

पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।

पङ्ग्वन्धदुभयोरपि संयोगस्तत्कृतः सर्गः ॥२१॥

प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः ।

तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥२२॥

अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग एश्वर्यम् ।

सात्त्विकमेतद् रूपं तामसमस्माद्विपर्यस्तम् ॥२३॥

अभिमानोऽहङ्कारस्तस्माद् द्विविधः प्रवर्तते सर्गः ।

एकादशकश्च गणस्तन्मात्रपञ्चकश्चैव ॥२४॥

सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् ।

भूतादेस्तन्मात्रः स तामसः, तैजसादुभयम् ॥२५॥

बुद्धीन्द्रियणि चक्षुः श्रोत्रघ्राणरसनत्वगाख्यानि ।

वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाण्याहुः ॥२६॥

उभयात्मकमत्र मनः, सङ्कल्पमिन्द्रियं व साधर्म्यात् ।

गुणपरिणामविशेषान्नानात्वं बाह्यभेदाश्च ॥२७।॥

शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः ।

वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् ॥२८॥

स्वालक्षण्यं वृत्तिस्त्रयस्य सैषा भवत्यसामान्या ।

सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥२९॥

युगपच्चतुष्टयस्य तु वृत्तिः क्रमशश्च तस्य निर्दिष्टा ।

दृष्टे तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः ॥३०॥

स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् ।

पुरुषार्थ एव हेतुर्न केनचित् कार्यते करणम् ॥३१॥

करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् ।

कार्यं च तस्य दशधाहार्यं धार्यं प्रकाश्यं च ॥३२॥

अन्तःकरणं त्रिविधं करणं दशधा बाह्यं त्रयस्य विषयाख्यम् ।

साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम् ॥३३॥

बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि ।

वाग्भवति शब्दविषया शेषाणि तु पञ्चविषयाणि ॥३४॥

सान्तः करणा बुद्धिः सर्वं विषयमवगाहते यस्मात् ।

तस्मात्त्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥३५॥

एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः ।

कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥३६॥

सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः ।

सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् ॥३७॥

तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः ।

एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च ॥३८॥

सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः ।

सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते ॥३९॥

पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् ।

संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् ॥४०॥

चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथाच्छाया ।

तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम् ॥४१॥

पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन ।

प्रकृतेर्विभुत्वयोगान्नटवद् व्यवतिष्ठते लिङ्गम् ॥४२॥

सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः ।

दृष्टाः करणाश्रयिणः कार्याश्रयिणश्च कललाद्याः ॥४३॥

धर्मेण गमनमूर्ध्वं, गमनमधस्ताद्भवत्यधर्मेण ।

ज्ञानेन चापवर्गो, विपर्ययादिष्यते बन्धः ॥४४॥

वैराग्यात् प्रकृतिलयः, संसारो भवति राजसाद्रागात् ।

ऐश्वर्यादविघातो, विपर्ययात् तद्विपर्यासः ॥४५॥

एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः ।

गुणवैषम्यविमर्दात् तस्य च भेदास्तु पञ्चाशत् ॥४६॥

पञ्चविपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात् ।

अष्टाविंशतिभेदा तुष्टिर्नवधाऽष्टधा सिद्धिः ॥४७॥

भेदस्तमसोऽष्टविधो मोहस्य च, दशविधो महामोहः ।

तामिस्रोऽष्टादशधा, तथा भवत्यन्धतामिस्रः ॥४८॥

एकादशेन्द्रियवधाः सह बुद्धिवधैरशक्तिरुद्दिष्टा ।

सप्तदश वधा बुद्धेर्विपर्ययात्तुष्टिसिद्धीनाम् ॥४९॥

आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः ।

बाह्या विषयोपरमात् पञ्च च नव तुष्टयोऽभिमताः ॥५०॥

ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः ।

दानं च सिद्धयोऽष्टौ, सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः ॥५१॥

न विना भावैर्लिङ्गं, न विना लिङ्गेन भावनिर्वृत्तिः ।

लिङ्गाख्यो भावाख्यस्तस्माद् द्विविधः प्रवर्तते सर्गः ॥५२॥

अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति ।

मानुषकश्चैकविधः, समासतो भौतिकः सर्गः ॥५३॥

ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः ।

मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥५४॥

तत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः ।

लिङ्स्याविनिवृत्तेस्तस्माद् दुःखं स्वभावेन ॥५५॥

इत्येष प्रकृतिकृतो महदादिविशेषभूतपर्यन्तः ।

प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भः ॥५६॥

वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।

पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥५७॥

औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः ।

पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम् ॥५८॥

रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।

पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥५९॥

नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः ।

गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकञ्चरति ॥६०॥

प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।

या दृष्टाऽस्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥६१॥

तस्मान्न बध्यतेऽद्धा न मुच्यते नापि संसरति कश्चित् ।

संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥६२॥

रूपैः सप्तभिरेव तु बध्नात्यात्मानमात्मना प्रकृतिः ।

सैव च पुरुषार्थं प्रति विमोचयत्येकरूपेण ॥६३॥

एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् ।

अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥६४॥

तेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम् ।

प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वच्छः ॥६५॥

दृष्टा मयेत्युपेक्षक एको दृष्टाहमित्युपरमत्यन्या ।

सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य ॥६६॥

सम्यग्ज्ञानाधिगमात् धर्मादीनामकारणप्राप्तौ ।

तिष्ठति संस्कारवशात् चक्रभ्रमिवद् धृतशरीरः ॥६७॥

प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ ।

ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति ॥६८॥

पुरुषार्थज्ञानमिदं गुह्यं परमर्षिणा समाख्यातम् ।

स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते तत्र भूतानाम् ॥६९॥

एतत् पवित्रमग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ ।

आसुरिरपि पञ्चशिखाय तेन च बहुधा कृतं तन्त्रम् ॥७०॥

शिष्यपरम्परयागतमीश्वरकृष्णेन चैतदार्याभिः ।

सङ्क्षिप्तमार्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥७१॥   

सप्तत्यां किल येऽर्थास्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य ।

आख्यायिकाविरहिताः परवादविवर्जिताश्चापि ॥७२॥   

                    ॥ इति साङ्ख्यकारिका समाप्ता ॥

कोई टिप्पणी नहीं:

शुकनासोपदेश प्रश्नोत्तरी

नोटः- यह सभी प्रश्न किसी न किसी प्रतियोगी परीक्षाओं में पूछे गये हैं । प्रश्न 1 - बाणभट्टस्य गद्ये रीतिरस्ति - पञ्चाली प्रश्न 2- शुकनासोपदेश...