निम्नलिखित का विशिष्ट अध्ययन -
पद्य -- रघुवंशमहाकाव्यम् (द्वितीय सर्ग) पढ़ने हेतु क्लिक करें
- किरातार्जुनीयम् (प्रथम सर्ग) पढ़ने हेतु यहां क्लिक करें
- शिशुपालवधम् (प्रथम सर्ग) पढ़ने हेतु यहां क्लिक करें ।
- स्वप्नवासवदत्तम् (पढ़ने हेतु यहाँ क्लिक करें)
- उत्तररामचरितम् पढ़ने हेतु यहां क्लिक करें ।
- अभिज्ञानशाकुन्तलम् -
लेखक - कालिदास
विधा - नाटक
अङ्क - सात
प्रधानरस - श्रृङ्गार
रीति - वैदर्भी
वृत्ति - कैशिकी
कुल पद्य - 196
- नाटक का नायक राजा दुष्यन्त धीरोदात्त कोटि का नायक है।
- नायिका शकुन्तला मुग्धा नायिका है ।
- राजा दुष्यन्त हस्तिनापुर का राजा है।
- मङ्गलाचरण -
ये द्वे कालं विधत्तः, श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ।।
- मङ्गलाचरण आशीर्वादात्मक है । मङ्लाचरण में स्रग्धरा छंद है। इसमें अष्टमूर्ति शिव की वन्दना की गयी है।
- महर्षि मारीच का आश्रम हेमकूट पर्वत पर है।
- शकुन्तला की अंगूठी धीवर मीनपालक को प्राप्त होती है।
- भरत वाक्य -
ममापि च क्षपयतु नीललोहितः पुनर्भवं परिगतशक्तिरात्मभूः ।।
- सर्वप्रथम अंग्रेजी अनुवाद किया है - विलियम जोन्स ने
- विलियम जोन्स ने The Last Things की भूमिका में कालिदास को 'भारत का शेक्सपियर' कहा है ।
- गेटे ने अपने सुप्रसिद्ध नाट्यकाव्य 'फाडस्ट' में कालिदास के अभिज्ञानशाकुन्तलम् और नायिका शकुन्तला की भूरि-भूरि प्रशंसा की है ।
- भरतमुनि के अनुसार नाटक का लक्षण है - त्रैलोकस्यास्य सर्वस्य नाट्यं भावानुकीर्तनम् ।
- नाटक के चतुर्थ अङ्क का प्रारम्भ विष्कम्भक से होता है ।
- अभिज्ञानशाकुन्तलम् में लगभग 180 उपमाओं का प्रयोग किया गया है ।
- हस्तिनापुर जाते समय शकु
अभिज्ञानशाकुन्तलम् के अङ्कों के नाम और श्लोक संख्या -
अंक सं. | अङ्क नाम | श्लो. सं. |
---|---|---|
1. | आश्रम प्रवेश | 33 |
2. | आश्रम निवेश | 18 |
3. | मिलन अङ्क | 24 |
4. | विदा अङ्क | 22 |
5. | प्रत्याख्यान | 31 |
6. | पश्चात्ताप | 32 |
7. | पुनर्मिलन | 35 |
उपजीव्य ग्रन्थ - महाभारत के आदिपर्व का शकुन्तलोपाख्यान (68 से 74 अध्यायों तक) तथा पद्मपुराण के स्वर्गखण्ड में भी यह कथा प्राप्त होती है।
कथानक - राजा दुष्यन्त एवं शकुन्तला के मिलन एवं विरह का वर्णन
प्रमुख पात्र -
गद्य -
- कादम्बरी (शुकनासोपदेश)
शुकनासोपदेश
एवं समतिक्रामत्सु केषुचिद् दिवसेषु,
राजा चन्द्रापीडस्य यौवराज्याभिषेकं चिकीर्षुः
प्रतीहारानुपकरण-सम्भारसंग्रहार्थमादिदेश । समुपस्थितयौवराज्याभिषेकञ्च तं
कदाचिद्दर्शनार्थमागतमारूढ़विनयमपि विनीततरमिच्छन् कर्त्तुं शुकनासः सविस्तरमुवाच
।
तात चन्द्रापीड ! विदितवेदितव्यस्याधीतसर्वशास्त्रस्य ते
नाल्पमप्युपदेष्टव्यमस्ति । केवलं च निसर्गत एव अभानुभेद्यमरत्नालोकोच्छेद्यमप्रदीपप्रभापनेयमतिगहनं
तमो यौवनप्रभवम् । अपरिणामोपशमो दारुणो लक्ष्मीमदः ।
कष्टमनञ्जनवर्तिसाध्यमपरम्
ऐश्वर्यतिमिरान्धत्वम् । अशिशिरोपचारहार्योऽतितीव्रः दर्पदाहज्वरोष्मा।
सततममूलमन्त्रशम्यो विषमो विषयविषास्वादमोहः । नित्यमस्नानशौचबाध्यः बलवान्
रागमलावलेपः । अजस्रमक्षपावसानप्रबोधा घोरा च राज्यसुखसन्निपातनिद्रा भवति, इत्यतः
विस्तरेणाभिधीयसे। गर्भेश्वरत्वमभिनवयौवनत्वमप्रतिमरूपत्वममानुषशक्तित्वञ्चेति
महतीयं खल्वनर्थपरम्परा सर्वाविनयानामेषामायतनम्, किमुत समवायः।
यौवनारम्भे च प्रायः
शास्त्रजलप्रक्षालननिर्मलापि कालुष्यमुपयाति बुद्धिः। अनुज्झितधवलतापि सरागैव भवति
यूनां दृष्टिः । अपहरति च वात्येव शुष्कपत्रं समुद्भूतरजोभ्रान्तिरतिदूरम् आत्मेच्छया
यौवनसमये पुरुषं प्रकृतिः । इन्द्रियहरिणहारिणी च सततमति-दुरन्तेयम् उपभोगमृगतूष्णिका
। नवयौवनकषायितात्मनश्च सलिलानीव तान्येव विषयस्वरूपाण्यास्वाद्यमानानि
मधुरतराण्यापतन्ति मनसः । नाशयति च दिङ्मोह इवोन्मार्गप्रवर्तकः पुरुषमत्यासंगो
विषयेषु ।
भवादृशा एव भवन्ति भाजनान्युपदेशानाम् । अपगतमले हि मनसि स्फटिकमणाविव
रजनिकरगभस्तयो विशन्ति सुखेन उपदेशगुणाः । गुरुवचनमलमपि सलिलमिव महदुपजनयति
श्रवणस्थितं शूलमभव्यस्य । इतरस्य तु करिण इव शङ्खाभरणमाननशोभासमुदयमधिकतरमुपजनयति
। हरति च सकलं अतिमलिनमन्धकारमिव दोषजातं प्रदोषसयम निशाकर इव । गुरुपदेशः
प्रशमहेतुर्वयः परिणाम इव पलितरूपेण शिरसिजजालममलीकुर्वन् गुणरूपेण तदेव परिणमयति ।
अयमेव चानास्वादितविषयरसस्य ते काल उपदेशस्य । कुसुमशर-शर-प्रहारजर्जरिते हि हृदये
जलमिव गलत्युपदिष्टम् । अकारणञ्च भवति दुष्प्रकृतेरन्वयः श्रुतं वा विनयस्य ।
चन्दनप्रभवो न दहति किमनलः ? किं वा प्रशमहेतुनापि न प्रचण्डतरीभवति वडवानलो
वारिणा । गुरुपदेशश्च नाम पुरुषाणामखिल-मलप्रक्षालनक्षममजलस्नानम्, अनुपजातपलितादिवैरूप्यमजरं
वृद्धत्वम्, अनारोपितमेदोदोषं गुरुकरणम्, असुवर्णविरचनमग्राम्यं कर्णाभरणम्,
अतीतज्योतिरालोकः, नोद्वेगकरः प्रजागरः।
विशेषेण राज्ञाम्, विरला हि
तेषामुपदेष्टारः । प्रतिशब्दक इव राजवचनमनुगच्छति जनो भयात् । उद्दाम-दर्प-श्वयथु-स्थगित-श्रवणविवराश्चोपदिश्यमानमपि
ते न शृण्वन्ति । शृण्वन्तोऽपि च गजनिमीलितेनावधीरयन्तः खेदयन्ति हितोपदेशदायिनो
गुरुन् । अहंकार-दाहज्वर-मूर्च्छान्धकारिता विह्वला हि राजप्रकृतिः, अलीकाभिमानोन्मादकारिणी धनानि,
राज्य-विष-विकार-तन्द्राप्रदा राजलक्ष्मीः।
आलोकयतु तावत् कल्याणाभिनिवेशो लक्ष्मीमेव प्रथमम् । इयं हि
सुभट-खड्गमण्डलोत्पल-वन-विभ्रम- भ्रमरी लक्ष्मीः क्षीरसागारात् पारिजातपल्लवेभ्यो
रागम्,
इन्दुशकलादेकान्तवक्रताम्, उच्चै: श्रवसश्चञ्चलताम्, कालकूटान्मोहनशक्तिम्, मदिराया मदम्, कौस्तुभमणेरतिनैष्ठुर्यम्, इत्येतानि सहवास-परिचयवशाद्विरहविनोदचिह्नानि
गृहीत्वैवोद्गता । न ह्येवंविधमपरम् । अपरिचितमिह जगति किंचिदस्ति, यथेयमनार्य्या ।
लब्धापि खलु दुःखेन परिपाल्यते । दृढगुणपाश-सन्दान-निस्पन्दीकृतापि नश्यति ।
उद्दाम-दर्प-भटसहस्रोल्लासितासिलता-पञ्जर-विधृताप्यपक्रामति । मदजल-दुर्दिनान्धकारगज-घन-घटा-परिपालितापि
प्रपलायते, न परिचयं रक्षति, नाभिजनमीक्षते, न रूपमालोकयते, न कुलक्रममनुवर्तते, न
शीलं पश्यति, न वैदग्धं गणयति, न श्रुतमाकर्णयति, न धर्ममनुरुध्यते, न
त्यागमाद्रियते, न विशेषज्ञतां विचारयति, नाचारं पालयति, न सत्यमनुबुध्यते, न
लक्षणं प्रमाणीकरोति । गन्धर्वनगरलेखेव पश्यत एव नश्यति ।
अद्याप्यारूढ-मन्दर-परिवर्त्तावर्त-भ्रान्ति-जनित-संस्कारेव
परिभ्रमति । कमलिनी-सञ्चरणव्यतिकर-लग्न-नलिन-नाल-कण्टक-क्षतेव न क्वचिदपि निर्भरमाबध्नाति
पदम् । अतिप्रयत्नविधृतापि परमेश्वरगृहेषु विविधगन्धगजगण्डमधुपानमत्तेव परिस्खलति ।
पारुष्यमिवोपशिक्षितुमसिधारासु निवसति । विश्वरूपत्वमिवगृहीतुमाश्रिता
नारायणमूर्त्तिम । अप्रत्ययबहुला च दिवसान्त-कमलमिव समुपचित-मूल-दण्ड-कोष-मण्डलमपि
मुञ्चति भूभुजम् । लतेव विटपकानध्यारोहति ।
गड्गेव वसुजनन्यपि तरङ्गबुद्बुद्चञ्चला
दिवसकरगतिरिव प्रकटित-विविध-संक्रान्तिः ।
पातालगुहेव तमोबहुला ।
हिडिम्बेव भीमसाहसैकहार्य्यहृदया ।
प्रावृडिवाचिरद्युतिकारिणी ।
दुष्टपिशाचीव दर्शितानेकपुरुषोच्छ्राया स्वल्पसत्त्वमुन्मत्तीकरोति
सरस्वतीपरिगृहीतमीर्ष्ययेव नालिङ्गति जनं, गुणवन्तमपवित्रमिव न स्पृशति,
उदारसत्त्वममंगलमिव न बहु मन्यते, सुजनमनिमित्तमिव न पश्यति, अभिजातमहिमिव लंघयति,
शूरं कण्टकमिव परिहरति, दातारं दुःस्वप्नमिव न स्मरति, विनीतं पातकिनमिव नोपसर्पति,
मनस्विनमुन्मत्तमिवोपहसति ।
परस्परविरुद्धश्चेन्द्रजालमिव दर्शयन्ती प्रकटयति जगति
निजं चरितम्। तथाहि, सततम् ऊष्माणमारोपयन्त्यपि जाड्यमुपजनयति । उन्नतिमादधानापि
नीचस्वभावतामाविष्करोति । तोयराशिसम्भवापि तृष्णां संवर्द्धयति । ईश्वरतां दधानापि
अशिवप्रकृतित्वमातनोति । बलोपचयमाहरन्त्यपि लघिमानमापादयति । अमृतसहोदरापि कटु-विपाका
। विग्रहवत्यपि अप्रत्यक्षदर्शना । पुरुषोत्तमरतापि खलजनप्रिया । रेणुमयीव स्वच्छमपि
कलुषीकरोति ।
यथा यथा चेयं चपला दीप्यते तथा तथा दीपशिखेव कज्जलमलिनमेव कर्म
केवलमुद्वमति । तथाहि, इयं संवर्द्धनवारिधारा तृष्णाविषवल्लीनाम्,
व्याधगीतिरिन्द्रियमृगाणाम्, परामर्शधूमलेखा सच्चरितचित्राणाम्,
विभ्रमशय्या मोहदीर्घनिद्राणाम् निवासजीर्णवलभी धनमदपिशाचिकानाम्,
तिमिरोद्गतिः शास्त्रदृष्टीनाम्, पुरः पताका सर्वाविनयानाम्, उत्पत्तिनिम्नगा क्रोधावेगग्राहाणाम्,
आपानभूमिः विषयमधूनाम्, संगीतशाला भ्रूविकारनाट्यानाम्,
आवासदरी दोषाशीविषाणाम्, उत्सारणवेत्रलता
सत्पुरुषव्यवहाराणाम्, अकालप्रावृड् गुणकलहंसकानाम्, विसर्पणभूमिर्लोकापवादविस्फोटकानाम्, प्रस्तावना कपटनाटकस्य,
कदलिका कामकरिणः, वध्यशाला साधुभावस्य, राहुजिह्वा धर्मेन्दुमण्डलस्य ।
न हि तं पश्यामि यो
ह्यपरिचितयानया न निर्भरमुपगूढः, यो वा न विप्रलब्धः । नियतमियमालेख्यगतापि चलति,
पुस्तमय्यपि इन्द्रजालमाचरति, उत्कीर्णापि विप्रलभते, श्रुताप्यभिसन्धत्ते, चिन्तितापि वञ्चयति ।
एवंविधयापि चानया दुराचारया कथमपि दैववशेन परिगृहीता
विक्लवा भवन्ति राजानः, सर्वाविनयाधिष्ठानतां च गच्छन्ति । तथाहि, अभिषेकसमये एव चैषां
मङ्लकलशजलैरिव प्रक्षाल्यते दाक्षिण्यम्, अग्निकार्यधूमेनेव मलिनीक्रियते हृदयम्,
पुरोहितकुशाग्रसम्मार्जनीभिरिवापनीयते क्षान्तिः,
उष्णीषपट्ट-बन्धेनेवाच्छाद्यते जरागमनस्मरणम्,
आतपत्रमण्डलेनेवापसार्यते परलोकदर्शनम्, चामरपवनैरिवापह्रियते
सत्यवादिता, वेत्रदण्डैरिवोत्सार्यन्ते गुणाः, जयशब्द कलकलैरिव तिरस्क्रियन्ते साधुवादाः,
ध्वजपटपल्लवैरिव परामृश्यते यशः ।
केचित् श्रम-वश-शिथिल-शकुनि-गल-पुट-चपलाभिः
खद्योतोन्मेष मुहूर्त्त-मनोहराभिः मनस्विजनगर्हिताभिः सम्पद्भिः प्रलोभ्यमानाः,
धनलवलाभावलेपविस्मृतजन्मानोऽनेकदोषेपचितेन दुष्टासृजेव रागावेशेन बाध्यमानाः,
विविध-विषय-ग्रास-लालसैःपञ्चभिरप्यनेक-सहस्रसंख्यैरिवेन्द्रियैरायास्यमानाः,
प्रकति- चञ्चलतया लब्धप्रसरेण एकेनापि सहस्रतामिवोपगतेन मनसा
आकुलीक्रियमाणा विह्वलतामुपयान्ति ।
ग्रहैरिव गृह्यन्ते,
भूतैरिवाभिभूयन्ते, मन्त्रैरिवावेश्यन्ते, सत्त्वैरिवावष्टभ्यन्ते, वायुनेव विडम्ब्यन्ते,
पिशाचैरिव ग्रस्यन्ते, मदनशरैर्मर्माहता इव मुखभङ्गसहस्राणि कुर्वते,
धनोष्मणा पच्यमाना इव विचेष्टन्ते,
गाढ़ाप्रहारतहता इव अङ्गानि न धारयन्ति,
कुलीरा इव तिर्यक् परिभ्रमन्ति,
अधर्मभग्नगतयः पङ्गव इव परेण संचार्यन्ते, मृषावाद- विषविपाकसञ्जातमुखरोगा
इवातिकृच्छ्रेण जल्पन्ति ।
सप्तच्छदतरव इव कुसुमरजोविकारैरासन्नवर्तिनां शिरः शूलमुत्पादयन्ति,
आसन्नमृत्यव इव बन्धुजनमपि नाभिजानन्ति, उत्कुपितलोचना इव तेजस्विनो नेक्षन्ते,
कालदष्टा इव महामन्त्रैरपि न प्रतिबुध्यन्ते,
जातुषाभरणानीव सोष्माणं न सहन्ते,
दुष्टवारणा इव महामानस्तम्भनिश्चलीकृता न गृह्णन्त्युपदेशम्,
तृष्णाविषमूर्च्छिताः कनकमयमिव सर्वं पश्यन्ति, इषव इव
पानवर्धिततैक्ष्ण्याः परप्रेरिता विनाशयन्ति, दरस्थितान्यपि फलानि दण्डविक्षेपैर्महत्कुलानि शातयन्ति ।
अकालकुसुमप्रसवा इव मनोहराकृतयोऽपि लोकविनाशहेतवः
श्मशानाग्नय इवातिरौद्रगतयः, तैमिरिका इवादूरदर्शिनः, उपसृष्टा इव क्षुद्राधिष्ठितभवनाः,
श्रूयमाणा अपि प्रेतपटहा इवोद्वेजयन्ति,
चिन्त्यमाना अपि महापातकाध्यवसाया इवोपद्रवमुपजनयन्ति,
अनुदिवसमापूर्य्यमाणाः पापेनेवाध्मातमूर्त्तयो भवन्ति,
तदवस्थाश्च व्यसनशतशरव्यतामुपगताः वल्मीकतृणाग्रावस्थिताः
जलबिन्दव इव पतितमप्यात्मानं नावगच्छन्ति ।
अपरे तु स्वार्थनिष्पादनपरैर्धन-पिशित-ग्रास-गृधैरास्थाननलिनीबकैः
द्यूतं विनोद इति, परदाराभिगमनं वैदग्ध्यमिति, मृगयां श्रम इति, पानं विलास इति, प्रमत्तता शौर्यमिति,
स्वदारपरित्यागः अव्यसनितेति, गुरुवचनावधीरणमपरप्रणेयत्वमिति,
अजितभृत्यतां सुखोपसेव्यत्वमिति,
नृत्य-गीत-वाद्य-वेश्याभिसक्तिः रसिकतेति,
महापराधानाकर्णनं महानुभावतेति,
परिभवसहत्वं क्षमेति ।
स्वच्छन्दता प्रभुत्वमिति, देवावमाननं महासत्त्वतेति, वन्दिजनख्यातिः यश इति, तरलता उत्साह इति,
अविशेषज्ञतामपक्षपातित्वमिति, दोषानपि गुणपक्षमध्यारोपयद्भिरन्तः स्वयमपि विहसद्भिः प्रतारणकुशलैर्धूर्तैरमानुषोचिताभिः
स्तुतिभिः प्रतार्य्यमाणा वित्तमदमत्तचित्ता निश्चेतनतया तथैवेत्यात्मन्यारोपितालीकाभिमानाः
मर्त्यधर्माणोऽपि दिव्यांशावतीर्णमिव सदैवतमिवातिमानुषम् आत्मानमुत्प्रेक्षमाणाः प्रारब्धदिव्योचितचेष्टानुभावाः
सर्वजनस्योपहास्यतामुपयान्ति । आत्मविडम्बनाञ्चानुजीविना जनेन
क्रियमाणामभिनन्दन्ति ।
मनसा देवताध्यारोपणविप्रतारणा सम्भूत-संभावनोपहताश्चान्तः
प्रविष्टापरभुजद्वयमिवात्मबाहुयुगलं सम्भावयन्ति । त्वगन्तरितृतीयलोचनं
स्वललाटमाशङ्कन्ते । दर्शनप्रदानमप्यनुग्रहं गुणयन्ति । दृष्टिपातमप्युपकारपक्षे
स्थापयन्ति, संभाषणमपि संविभागमध्ये कुर्वन्ति, आज्ञामपि वरप्रदानं मन्यन्ते,
स्पर्शमपि पावनमाकलयन्ति ।
मिथ्यामाहात्म्यगर्वनिर्भराश्च न प्रणमन्ति देवताभ्यः,
न पूजयन्ति द्विजातीन्, न मानयन्ति मान्यान् नार्च्चयन्त्यर्च्चनीयान्,
नाभिवादयन्त्यभिवादनार्हान्, नाभ्युत्तिष्ठन्ति गुरुन् । अनर्थकायासान्तरितविषयोपभोग-सुखमित्युपहसन्ति
विद्वज्जनम्, जरावैक्लव्यप्रलपितमिति पश्यन्ति वृद्धजनोपदेशम्,
आत्मप्रज्ञापरिभव इत्यसूयन्ति सचिवोपदेशाय,
कुप्यन्ति हितवादिने ।
सर्वथा तमभिनन्दन्ति,
तमालपन्ति, तं पार्श्वे कुर्वन्ति, तं संवर्धयन्ति, तेन सह सुखमवतिष्ठन्ते, तस्मै ददति, तं मित्रतामुपजनयन्ति, तस्य वचनं शृण्वन्ति, तत्र वर्षन्ति, तं बहु मन्यन्ते, तमाप्तातामापादयन्ति, योऽहर्निशमनवरतमुपरचिताञ्जलिरधिदैवरतमिव विगतान्यकर्त्व्यः
स्तौति,
यो वा माहात्म्यमुद्भावयति ।
किं वा तेषां साम्प्रतम्,
येषामतिनृशंसप्रायोपदेशनिर्घृणं कौटिल्यशास्त्रं प्रमाणम्,
अभिचारक्रियाक्रूरैकप्रकृतयः पुरोधसो गुरवः,
पराभिसन्धानपरामन्त्रिण उपदेष्टारः,
नरपतिसहस्रभुक्तोज्झितायां लक्ष्म्यामासक्तिः,
मारणात्मकेषु शास्त्रेषु अभियोगः,
सहजप्रेमार्द्रहदयानुरक्ताः भ्रातर उच्छेद्याः ।
तदेवप्रायातिकुटिलकष्टचेष्टासहस्रदारुणे राज्यतन्त्रे, अस्मिन्
महामोहान्धकारिणी च यौवने, कुमार ! तथा प्रयतेथाः यथा नोपहस्यसे जनैः,
न निन्द्यसे साधुभिः, न धिक्क्रियसे गुरुभिः, नोपालभ्यसे सुहृद्भिः, न शोच्यसे विद्वद्भिः । यथा च न प्रकाश्यसे विटैः,
न प्रहस्यसे कुशलैः, नास्वाद्यसे भुजड्गैः, नावलुप्यसे सेवकवृकैः, न वञ्च्यसे धूर्तैः, न प्रलोभ्यसे वनिताभिः, न विडम्ब्यसे लक्ष्म्या, न नर्त्त्यसे मदेन, नोन्मत्तीक्रियसे मदनेन, नाक्षिप्यसे विषयैः, नावकृष्यसे रागेण, नापह्रियसे सुखेन ।
कामं भवान् प्रकृत्यैव धीरः,
पित्रा च महता प्रयत्नेन समारोपित-संस्कारः,
तरलहृदयमप्रतिबुद्धञ्च मदयन्ति धनानि, तथापि भवद्गुणसन्तोषो मामेवं मुखरीकृतवान् । इदमेव च पुनः
पुनरभिरधीयसे – विद्वांसमपि सचेतनमपि महासत्त्वमप्यभिजातमपि धीरमपि प्रयत्नवन्तमपि
पुरुषमियं दुर्विनीता खलीकरोति लक्ष्मीरिति । सर्वथा कल्याणैः पित्रा क्रियमाणमनुभवतु
भवान् नवयौवराज्याभिषेकमङ्गलम्, कुलक्रमागतामुद्वह पूर्वपुरुषैरूढ़ां धुरम् ।
अवनमय द्विषतां शिरांसि । उन्नमय बन्धुवर्गम् ।
अभिषेकानन्तरञ्च प्रारब्धदिग्विजयः
परिभ्रमन् विजितामपि तव पित्रा सप्तद्वीपभूषणां पुनर्विजयस्व वसुन्धराम् । अयञ्च
ते कालः प्रतापमारोपयितुम्, आरूढप्रतापो हि राजा त्रैलोक्यदर्शीव सिद्धादेशो भवति,
इत्येतावदभिधायोपशशाम । उपशान्तवचसि शुकनासे चन्द्रापीडस्ताभिरमलाभिः उपदेशवाग्भिः
प्रक्षालित इव, उन्मीलित इव, स्वच्छीकृत इव, निर्मृष्ट इव, अभिषिक्त इव, अभिलिप्त इव, अलङ्कृत इव, पवित्रीकृत इव, उद्भासित इव, प्रीतहृदयो मुहूर्तं स्थित्वा स्वभवनमाजगाम ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें