सोमवार, 31 मई 2021

उदारचरितानां तु वसुधैव कुटुम्बकम्

   

      अस्माकं पूर्वजाः ऋषयोः मानवतायाः विकासाय “वसुधैव कुटुम्बकम्" इति भावयामासुः । यथा प्रत्येको जनः स्वकुटुम्बकस्य कल्याणाय यथाशक्ति प्रयतते तथैव यदि मानवो जगतीतलगतानां सर्वेषां प्राणिनां कृते कल्याणभावनया प्रयतते तर्हि संसारस्य दुःखानि दूरीकर्तुं शक्यन्ते । पारस्परिक कुटुम्बभावनया न कश्चित् कस्यचिद् अनिष्टं चिन्तयिष्यति । अनिष्टेऽचिन्तयति संघर्षाणां युद्धानां च विभीषिका स्वतः एव अपसविष्यति पारस्परिककुटुम्बभावनया न कश्चित् कस्यचिद् भागम् अपहरिष्यति, न च कश्चित् कस्यचिद् वस्तु चोरयिष्यति । अनेन प्रकारेण यदि सर्वो जनः स्वानुभावस्य विकासं कुर्यात् तदा पुनः कृतयुगः प्रवर्तेत ।

     अस्माकं भारतीयानां यज्ञानाम् अन्ते सर्वेषां देशगतानां देशान्तरभवानां च प्राणिनां कल्याणाय परमात्मा प्रार्थिता, प्रार्थ्यते च साम्प्रतिको धार्मिकै: यथा -

       सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।

       सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत् ।

     इयं प्रार्थनायाः सर्वोत्कृष्टा रीतिः । यतो हि यावत् सर्वे सुखिनो भविष्यन्ति तावद् येन केन प्रकारेण अस्माकमपि सुखं विघ्नितं भविष्यति । यथा यद्यहं सुखी परम् अस्माकं भ्राता कष्टापन्नः तर्हि तस्य वै भ्रातुः कष्टं वीक्ष्य कथम् अहं सुखी भविष्यामि । अस्माकं सार्वेदिकं च सुखं तदेव भविष्यति यदा अस्माकं परिवारस्य, ग्रामस्य, नगरस्य, देशस्य, विश्वस्य च सर्वे जनाः सुखिनो भविष्यन्ति ।

     महाभारते यक्षयुधिष्ठिरसंवादे यक्षेण पृष्टम् – 'परमो लाभः कः ? युधिष्ठिरेण प्रत्युक्तम् – “आरोग्यं परमो लाभः" इति । अस्यैव परमस्य लाभस्य कृते भगवान् प्रार्थितः “सर्वे सन्तु निरामयाः"। श्लोकस्य अस्मिन्नप्यंशे सर्वेषां विश्वजातानां जीवानां कृते प्रार्थना कृता ।

     "सर्वे भद्राणि पश्यन्तु" इत्यंशेऽपि विश्वगतानां सर्वेषां प्राणिनां कृते कल्याणकामना विहिता। यतो हि यद्यहं कल्याणभाक्, किन्तु अस्मद् भ्राता कल्याणवञ्चितः तर्हि तस्य दुःखं दर्श दर्श केन प्रकारेण अस्माकं सुखं सुरक्षितं भविष्यति । अत एव अस्मिन्नंशे सर्वेषां कृते कल्याण-प्राप्ति कामना कृता वर्तते ।

    "मा कश्चिद् दुःखभाग् भवेत्" इति श्लोकस्य अन्तिमेंऽशेऽपि विश्वस्य सर्वेषां प्राणिनां कृते दुःखराहित्याय भगवान् प्रार्थितः । यतो हि यद्येको व ऽपि जनो दुःखं भुनक्ति तर्हि तस्य दुःखं दृष्ट्वा केन प्रकारेण अस्मदीयं सुखं सुरक्षितं भविष्यति ? अतः सर्वेषामेव दुःखस्य निराकरणाय भगवान् स प्रार्थितः ।

      “अथं निजः, अयं परः” इति भावनैव संसारे बहूनां कष्टानां कारणम् अस्ति । अनया भावनयैव अयमस्मदीयो देशः, अयं परकीयो देशः अयम् अस्मज्जातीय:, अयं परजातीयः । अयम् अस्मदीयो धर्मः, अयं परकीयो धर्मः । इयम् अस्मदीया भाषा, इयं परकीया भाषा । अयं मित्रवर्ग:, अयं शत्रुवर्ग: इति भासते । इयं भावनैव एकामेव पृथ्वीं नाना देशेषु विभक्ति, एकामेव मनुष्यजाति बहुधा विभाजयति, एकमेव मानव वर्ग मित्रेषु शत्रुषु च विभक्तं कुरुते ।

    अयं निजः परो वेति भावनैव जगतीतले महतां भोषणानां युद्धानां कारणं बभूव, अस्ति च । संसारस्य एकसदृशेषु मानवेषु इयमेव भावना वैषम्यं जनयामास, जनयति च । इयं भावनैव प्राणिषु घृणां रोषं, क्रौर्यं च जनयति । इयं भावनैव पारस्परिकम् अविश्वासम् उत्पादयति । इयं भावनैव इदानीं समग्रं विश्वं मृत्यु-मुख-सम्मुखं नीतवतो वर्तते । क्षुद्रभावनां दूरीकृत्य औदार्य हृदि निधाय "वसुधैव कुटुम्बकम्" इति भावनया कार्यसम्पादनाय निर्दिष्टवन्तो मनीषिणः ऋषयः । यथा—

         अयं निजः परो वेति गणना लघुचेतसाम् ।

         उदारचरितानां तु वसुधैव कुटुम्बकम् ॥

कोई टिप्पणी नहीं:

शुकनासोपदेश प्रश्नोत्तरी

नोटः- यह सभी प्रश्न किसी न किसी प्रतियोगी परीक्षाओं में पूछे गये हैं । प्रश्न 1 - बाणभट्टस्य गद्ये रीतिरस्ति - पञ्चाली प्रश्न 2- शुकनासोपदेश...