अवकाशाय प्रधानाचार्याय प्रार्थना-पत्रम्
प्रतिष्ठायाम्,
प्रधानाचार्यमहोदयः,
...............................
मान्यवर !
भवतां चरणकमलेषु सविनयमिदं निवेदनं वर्तते यदहमद्य स्वपित्रासह नगराद् बहिर्गमिष्यामि येनाहं विद्यालयम् आगन्तुं न क्षमः। अतः प्रार्थये भवद्भिः मदर्थः दिनद्वयस्य (१३-१४ अप्रैल) अवकाश: स्वीकरणीयः ।
कृपादृष्टये साभारं कृतज्ञोऽस्मि ।
दिनाङ्काः - १२-०४-२०२१ भवतामाज्ञाकारीशिष्यः
............................
कक्षा १० अ ।
मित्राय दिष्ट्या पत्रम्
...........................
दिनाङ्कः -..............
प्रिय मित्र (...........)।
सादरम् अभिवन्दे ।
दिष्ट्या पुत्ररत्न-लाभेन वर्धसे । वृत्तमिदं श्रुत्वा मनोमयूरो मे हर्षेण मुमुदे । अस्मिन् शुभावसरे मदीयानि साधुवचनानि स्वीकरणीयानि। नवजातकः चिरायुषः भूयात् । नवागन्तुकोऽयं शिशुः मातृहर्षदायकः पितृयशः संवर्धकः वंशप्रदीपकश्च भूयात् ।
शुभकामना-सहितः
.......................
दिनचर्या विषये पित्रे पत्रम्
....................
दिनांक: -
श्रद्धास्पदपितृचरणेषु !
सविनय प्रणामञ्जलयः ।
अहमत्र कुशली । आशास्यते तत्रापि सर्वे कुशलिनः सन्ति । अहं स्वकीयम् अध्ययन यथाकार्यक्रमं करोमि । प्रातः सार्धचतुरवादने विष्टरं त्यजामि। ततः शौचादि क्रियां निर्वर्त्य षड्वादनं यावदध्ययनं करोमि । एकस्यां होरायां व्यायामादिकं विधाय स्नानं, पूजां कृत्वा विद्यालयं गच्छामि । तत्रैव प्रातराशस्य व्यवस्था वर्तते । मध्याह्ने भोजनं क्रियते । सायम् अल्पाहार, रात्रौ भोजनं दशवादने व दुग्धं प्राप्यते । सायमल्पाहारापूर्वं क्रीडाम:। शेषं शिवम् ।
भवतां पुत्र:
...................
ग्रामप्रधानाय, ग्रामस्य स्वच्छतायै प्रार्थना-पत्रम्
प्रतिष्ठायाम,
ग्रामप्रधानमहोदयः,
.............................
महोदय,
सविनयं सूच्यमिदमस्ति यत् ग्रामस्य दक्षिणभागे या वसतिः वर्तते तत्र जलप्रवाहिकाः नालिकाः यत्र-तत्र भग्नाः सन्ति, येन दूषितं जलं पथिषु भरितम् तिष्ठति । तज्जायमानाः मशकाः जीवनं कष्टकरम् आपादयन्ति । अतः जलसरणप्रबन्धः कृपया शीघ्रमेव करणीयः।
दिनांक: -.................... भवदीयाः
........................
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें