सन्धि: - (लघुसिद्धांत कौमुदी के अनुसार)
अथ अच् सन्धिः
इको यणचि ।६।१।७७।
इकः स्थाने यण् स्यादचि संहितायां विषये । सुधी उपास्य इति स्थिते ।।
तस्मिन्निति निर्दिष्टे पूर्वस्य ।१।१।६६।
सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम् ।
स्थानेऽन्तरतमः ।१।१।५०।
प्रसङ्गे सति सदृशतम आदेशः स्यात् । सु ध् य् उपास्य इति जाते ।।
अनचि च ।८।४।४७।
अचः परस्य यरो द्वे वा स्तो न त्वचि । इति धकारस्य द्वित्वेन सु ध् ध् य् उपास्य इति जाते ।।
झलां जश् झशि ।८।४।५३।
स्पष्टम् । इति पूर्व धकारस्य दकारः ।।
संयोगान्तस्य लोपः ।८।२।२३।
संयोगान्तं यत् पदं तदन्तस्य लोपः स्यात् ।।
अलोऽन्त्यस्य ।१।१।५२।
षष्ठीनिर्दिष्टोऽन्त्यस्याल आदेशः स्यात् । इति यलोपे प्राप्ते – (यणः प्रतिषेधो वाच्यः) । सुद्ध्युपास्यः । मद्ध्वरिः । धात्त्रंशः । लाकृतिः ।।
एचोऽयवायावः ।६।१।७८।
एचः क्रमादय् अव् आय् आव् एते स्युरचि ।।
यथासंख्यमनुदेशः समानाम् ।१।३।१०।
समसम्बन्धी विधिर्यथासंख्यं स्यात् । हरये । विष्णवे । नायकः । पावकः ।।
वान्तो यि प्रत्यये ।६।१।७९।
यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्तः । गव्यम् । नाव्यम् । (अध्वपरिमाणे च) । गव्यूतिः ।।
अदेङ् गुणः ।१।१।२।
अत् एङ् च गुणसंज्ञः स्यात् ।।
तपरस्तत्कालस्य ।१।१।७०।
तः परो यस्मात्स च तात्परश्चोच्चार्यमाणः समकालस्यैव संज्ञा स्यात् ।।
आद्गुणः ।६।१।८७।
अवर्णादचि परे पूर्वपरयोरेको गुणादेशः स्यात् । उपेन्द्रः । गङ्गोदकम् ।।
उपदेशेऽजनुनासिक इत् ।१।३।२।
उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात् । प्रतिज्ञानुनासिक्याः पाणिनीयाः । लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा ।।
उरण् रपरः ।१।१।५१।
ऋ इति त्रिंशतः संज्ञेत्त्युक्तम् । तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते । कृष्णर्द्धिः । तवल्कारः ।।
लोपः शाकल्यस्य ।८।३।१९।
अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोपो वाऽशि परे ।।
पूर्वत्रासिद्धम् ।८।२।१।
सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम् । हर इह, हरयिह । विष्ण इह, विष्णविह ।।
वृद्धिरादैच् ।१।१।१।
आदैच्च वृद्धिसंज्ञः स्यात् ।।
वृद्धिरेचि ।६।१।८८।
आदेचि परे वृद्धिरेकादेशः स्यात् । गुणापवादः । कृष्णैकत्वम् । गङ्गौघः । देवैश्वर्यम् । कृष्णौत्कण्ठ्यम् ।।
एत्येधत्यूठ्सु ।६।१।८९।
अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात् । उपैति । उपैधते । प्रष्ठौहः । एजाद्योः किम् ? उपेतः । मा भवान्प्रेदिधत् । (अक्षादूहिन्यामुपसंख्यानम्) । अक्षौहिणी सेना । (प्रादूहोढोढ्येषैष्येषु) । प्रौहः । प्रौढः । प्रौढिः। प्रैषः । प्रैष्यः । (ऋते च तृतीयासमासे) । सुखेन ऋतः सुखार्तः । तृतीयेति किम् ? परमर्तः । (प्रवत्सतरकम्बलवसनार्णदशानामृणे) । प्रार्णम्, वत्सतरार्णम् इत्यादि ।।
उपसर्गाः क्रियायोगे ।१।४।५९।
प्रादयः क्रियायोगे उपसर्गसंज्ञाः स्युः । प्र । परा । अप । सम् । अनु । अव । निस् । निर् । दुस् । दुर् । वि । आङ् । नि । अधि । अपि । अति । सु । उद् । अभि । प्रति । परि । उप - एते प्रादयः ।।
भूवादयो धातवः ।१।३।१।
क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः ।।
उपसर्गादृति धातौ ।६।१।९१।
अवर्णान्तादुपसर्गादृकारादौ धातौ परे वृद्धिरेकादेशः स्यात् । प्रार्च्छति ।।
एङि पररूपम् ।६।१।९४।
आदुपसर्गादेङादौ धातौ पररूपमेकादेशः स्यात् । प्रेजते । उपोषति ।।
अचोऽन्त्यादि टि ।१।१।६४।
अचां मध्ये योऽन्त्यः स आदिर्यस्य तट्टिसंज्ञं स्यात् । (शकन्ध्वादिषु पररूपं वाच्यम्) । तच्च टेः । शकन्धुः । कर्कन्धुः । मनीषा । आकृतिगणोऽयम् । मार्त्तण्डः ।।
ओमाङोश्च ।६।१।९५।
ओमि आङि चात्परे पररूपमेकादेशः स्यात् । शिवायों नमः । शिवेहि ।।
अन्तादिवच्च ।६।१।८५।
योऽयमेकादेशः स पूर्वस्यान्तवत्परस्यादिवत् । शिवेहि ।।
अकः सवर्णे दीर्घः ।६।१।१०१।
अकः सवर्णेऽचि परे पूर्वपरयोर्दीर्घ एकादेशः स्यात् । दैत्यारिः । श्रीशः । विष्णूदयः । होतॄकारः ।।
एङः पदान्तादति ।६।१।१०९।
पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात् । हरेऽव । विष्णोऽव ।।
सर्वत्र विभाषा गोः ।६।१।१२२।
लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः पदान्ते । गोअग्रम्, गोऽग्रम् । एङन्तस्य किम् ? चित्रग्वग्रम् । पदान्ते किम् ? गोः ।।
अनेकाल् शित्सर्वस्य ।१।१।५५।
इति प्राप्ते ।।
ङिच्च ।१।१।५३।
ङिदनेकालप्यन्त्यस्यैव स्यात् ।।
अवङ् स्फोटायनस्य ।६।१।१२३।
पदान्ते एङन्तस्य गोरवङ् वाऽचि । गवाग्रम् , गोऽग्रम् । पदान्ते किम् ? गवि ।।
इन्द्रे च ।६।१।१२४।
गोरवङ् स्यादिन्द्रे । गवेन्द्रः ।।
दूराद्धूते च ।८।२।८४।
दूरात् संबोधने वाक्यस्य टेः प्लुतो वा ।।
प्लुतप्रगृह्या अचि नित्यम् ।६।१।१२५।
एतेऽचि प्रकृत्या स्युः । आगच्छ कृष्ण ३ अत्र गौश्चरति ।।
ईदूदेद्विवचनं प्रगृह्यम् ।१।१।११।
ईदूदेदन्तं द्विवचनं प्रगृह्यं स्यात् । हरी एतौ । विष्णू इमौ । गङ्गे अमू ।।
अदसो मात् ।१।१।१२।
अस्मात् परावीदूतौ प्रगृह्यौ स्तः । अमी ईशाः । रामकृष्णावमू आसाते । मात् किम् ? अमुकेऽत्र ।।
चादयोऽसत्त्वे ।१।४।५७।
अद्रव्यार्थाश्चादयो निपाताः स्युः ।।
प्रादयः।१।४।५८।
एतेऽपि तथा ।।
निपात एकाजनाङ् ।१।१।१४।
एकोऽज् निपात आङ्वर्जः प्रगृह्यः । इ इन्द्रः । उ उमेशः । वाक्यस्मरणयोरङित्, आ एवं नु मन्यसे । आ एवं किल तत् । अन्यत्र ङित्, आ ईषदुष्णम् ओष्णम् ॥
ओत् ।१।१।१५।
ओदन्तो निपातः प्रगृह्यः । अहो ईशाः ॥
संबुद्धौ शाकल्यस्येतावनार्षे ।१।१।१६।
संबुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिक इतौ परे । विष्णो इति, विष्ण इति, विष्णविति ॥
मय उञो वो वा ।८।३।३३।
मयः परस्य उञो वो वाऽचि । किम्वुक्तम् । किमु उक्तम् ॥
इकोऽसवर्णे शाकल्यस्य ह्रस्वश्व ।६।१।१२७।
पदान्ता इको ह्रस्वा व स्युरसवर्णेऽचि । ह्रस्वविधिसामर्थ्यान्न स्वरसंधिः । चक्रि अत्र, चक्र्यत्र । पदान्ता इति किम्? गौर्यौ –
अचो रहाभ्यां द्वे ।८।४।४६।
अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः । गौर्य्यौ । (न समासे) । वाप्यश्वः ॥
ऋत्यकः ।६।१।१२८।
ऋति परे पदान्त अकः प्राग्वद्वा । ब्रह्म ऋषिः, ब्रह्मर्षिः । पदान्ताः किम् ? आर्च्छत् ॥
॥ इति अच् सन्धिः ॥
अथाव्ययीभावः
अव्ययीभावः ।२।१।५।
अधिकारोऽयंप्राक् तत्पुरुषात् ॥
अव्ययंविभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसंपत्ति-साकल्यान्तवचनेषु ।२।१।६।
विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह नित्यं समस्यते सोऽव्ययीभावं । प्रायेणाविग्रहो नित्यसमासः, प्रायेणास्वपदविग्रहो वा । विभक्तौ, हरि ङि अधि इति स्थिते ॥
प्रथमानिर्दिष्टं समास उपसर्जनम् ।१।२।४३।
समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनं स्यात् ॥
उपसर्जनं पूर्वम् ।२।२।३०।
समासे उपसर्जनं प्राक्प्रयोज्यम् । इत्यधेः प्राक् प्रयोगः । सुपो लुक् । एकदेशविकृतस्यानन्यत्वात्प्रातिपदिकसंज्ञायां स्वाद्युत्पत्तिः । अव्ययीभावश्चेत्यव्ययत्वात्सुपो लुक् । अधिहरि ॥
अव्ययीभावश्च ।२।४।१८।
अयं नपुंसकं स्यात् ॥
नाव्ययीभावादतोऽम्त्वपञ्चम्याः ।२।४।८३।
अदन्तादव्ययीभावात्सुपो न लुक्, तस्य पञ्चमीं विना अमादेशश्च स्यात् । गाः पातीति गोपास्तस्मिन्नित्यधिगोपम्॥
तृतीयासप्तम्योर्बहुलम् ।२।४।८४।
अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुलमम्भावः स्यात् । अधिगोपम्, अधिगोपेन, अधिगोपे वा । कृष्णस्य समीपम् उपकृष्णम् । मद्राणां समृद्धिः सुमद्रम् । यवनानां व्यृद्धिर्दुर्यवनम् । मक्षिकाणामभावो निर्मक्षिकम् । हिमस्यात्ययोऽतिहिमम् । निद्रा संप्रति न युज्यत इत्यतिनिद्रम् । हरिशब्दस्य प्रकाश इतिहरि । विष्णोः पश्चादनुविष्णु । योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः । रूपस्य योग्यमनुरूपम् । अर्थमर्थं प्रति प्रत्यर्थम् । शक्तिमनतिक्रम्य यथाशक्ति ॥
अव्ययीभावे चाकाले ।६।३।८१।
सहस्य सः स्यादव्ययीभावे न तु काले । हरेः सादृश्यं सहरि । ज्येष्ठस्यानुपूर्व्येणेत्यनुज्येष्ठम् । चक्रेण युगपत् सचक्रम्। सदृशः सख्या ससखि । क्षत्राणां संपतिः सक्षत्रम् । तृणमप्यपरित्यज्य सतृणमत्ति । अग्निग्रन्थपर्यन्तमधीते साग्नि ॥
नदीभिश्च ।२।१।२०।
नदीभिः सह संख्या समस्यते । (समाहारे चायमिष्यते) । पञ्चगङ्गम् । द्वियमुनम् ॥
तद्धिताः ।४।१।७६।
आपञ्चमसमाप्तेरधिकारोऽयम् ॥
अव्ययीभावे शरत्प्रभृतिभ्यः ।५।४।१०७।
शरदादिभ्यष्टच् स्यात्समासान्तोऽव्ययीभावे । शरदः समीपमुपशरदम् । प्रतिविपाशम् । (जराया जरश्च) । उपजरसमिइत्यादि ॥
अनश्च ।५।४।१०८।
अन्नन्तादव्ययीभावाट्टच् स्यात् ॥
नस्तद्धिते ।६।४।१४४।
नान्तस्य भस्य टेर्लोपस्तद्धिते । उपराजम् । अध्यात्मम् ॥
नपुंसकादन्यतरस्याम् ।५।४।१०९।
अन्नन्तं यत् क्लीबं तदन्तादव्ययीभावाट्टज्वा स्यात् । उपचर्मम् । उपचर्म ॥
झयः ।५।४।१११।
झयन्तादव्ययीभावाट्टज्वा स्यात् । उपसमिधम् । उपसमित् ॥
॥ इत्यव्ययीभावः ॥
अथ तत्पुरुषः
तत्पुरुषः ।२।१।२२।
अधिकारोऽयं प्राग्बहुव्रीहेः ॥
द्विगुश्च ।२।१।२३।
द्विगुरपि तत्पुरुषसंज्ञकः स्यात् ॥
द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः ।२।१।२४।
द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तै सह वा समस्यते स च तत्पुरुषः । कृष्णं श्रितः कृष्णाश्रित इत्यादि ॥
तृतीया तत्कृतार्थेन गुणवचनेन ।२।१।३०।
तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थेन च सह वा प्राग्वत् । शङ्कुलया खण्डः शङ्कुलाखण्डः । धान्येनार्थोः धान्यार्थः । तत्कृतेति किम् ? अक्ष्णा काणः ॥
कर्तृकरणे कृता बहुलम् ।२।१।३२।
कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत् । हरिणा त्रातो हरित्रातः । नखैर्भिन्नो नखभिन्नः । (प.) कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् । नखनिर्भिन्नः ॥
चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ।२।१।३६।
चतुर्थ्यन्तार्थाय यत् तद्वाचिना अर्थादिभिश्च चतुर्थ्यन्तं वा प्राग्वत् । यूपाय दारु यूपदारु । (तदर्थेन प्रकृतिविकृतिभाव एवेष्टः) । तेनेह न-रन्धनाय स्थली । (अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्) । द्विजार्थः सूपः । द्विजार्था यवागूः । द्विजार्थं पयः । भूतबलिः । गोहितम् । गोसुखम् । गोरक्षितम् ॥
पञ्चमी भयेन ।२।१।३७।
चोराद्भयम् चोरभयम् ॥
स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन ।२।१।३९।
पञ्चम्याः स्तोकादिभ्यः। ६।३।२।
अलुगुत्तरपदे । स्तोकान्मुक्तः । अन्तिकादागतः । अभ्यासादागतः । दूरादागतः । कृच्छ्रादागतः ॥
षष्ठी ।२।२।८।
सुबन्तेन प्राग्वत् । राजपुरुषः ॥
पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे ।२।२।१।
अवयविना सह पूर्वादयः समस्यन्ते एकत्वसंख्याविशिष्टश्चेदवयवी । षष्ठीसमासापवादः । पूर्वं कायस्य पूर्वकायः । अपरकायः । एकाधिकरणे किम् ? पूर्वश्छात्राणाम् ॥
अर्धं नपुंसकम् ।२।२।२।
समांशवाच्यर्धशब्दो नित्यं क्लीबे, स प्राग्वत् । अर्धं पिप्पल्या अर्धपिप्पली ॥
सप्तमी शौण्डैः ।२।१।४०।
सप्तम्यन्तं शौण्डादिभिः प्राग्वत् । अक्षेषु शौण्डः अक्षशौण्डः इत्यादि । द्वितीयातृतीयेत्यादियोगविभागादन्यत्रापि तृतीयादिविभक्तीनां प्रयोगवशात्समासो ज्ञेयः ॥
दिक्संख्ये संज्ञायाम् ।२।१।५०।
संज्ञायामेवेति नियमार्थं सूत्रम् । पूर्वेषुकामशमी । सप्तर्षयः । तेनेह न-उत्तरा वृक्षाः । पञ्च ब्राह्मणाः ॥
तद्धितार्थोत्तरपदसमाहारे च ।२।१।५१।
तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वत् । पूर्वस्यां शालायां भवः-पूर्वाशाला इति समासे जाते । (सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः) ॥
दिक्पूर्वपदादसंज्ञायां ञः ।४।२।१०७।
अस्माद्भवाद्यर्थे ञः स्यादसंज्ञायाम् ॥
तद्धितेष्वचामादेः ।७।२।११७।
ञिति णिति च तद्धितेष्वचामादेरचो वृद्धिः स्यात् । यस्येति च । पौर्वशालः । पञ्च गावो धनं यस्येति त्रिपदे बहुव्रीहौ । (द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम्) ॥
गोरतद्धितलुकि। ५।४।९२।
गोऽन्तात्तत्पुरुषाट्टच् स्यात् समासान्तो न तु तद्धितलुकि । पञ्चगवधनः ॥
तत्पुरुषः समानाधिकरणः कर्मधारयः ।१।२।४२।
संख्यापूर्वो द्विगुः। २।१।५२।
तद्धितार्थेत्यत्रोक्तस्त्रिविधः संख्यापूर्वो द्विगुसंज्ञः स्यात् ॥
द्विगुरेकवचनम् ।२।४।१।
द्विग्वर्थः समाहार एकवत् स्यात् ॥
स नपुंसकम् ।२।४।१७।
समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यात् । पञ्चानां गवां समाहारः पञ्चगवम् ॥
विशेषणं विशेष्येण बहुलम् ।२।१।५७।
भेदकं भेद्येन समानाधिकरणेन बहुलं प्राग्वत् । नीलमुत्पलं नीलोत्पलम् । बहुलग्रहणात्क्वचिन्नित्यम्-कृष्णसर्पः । क्वचिन्न रामो जामदग्न्यः ॥
उपमानानि सामान्यवचनैः ।२।१।५५।
घन इव श्यामो घनश्यामः । (शाकपार्थिवादीनां सिद्धये उत्तरपदलोपोस्योपसंख्यानम्) । शाकप्रियः पार्थिवः शाकपार्थिवः । देवपूजको ब्राह्मणो देवब्राह्मणः ॥
नञ् ।२।२।६।
नञ् सुपा सह समस्यते ॥
नलोपो नञः ।६।३।७३।
नञो नस्य लोप उत्तरपदे । न ब्राह्मणः अब्राह्मणः ॥
तस्मान्नुडचि ।६।३।७४।
लुप्तनकारान्नञ उत्तरपदस्याजादेर्नुडागमः स्यात् । अनश्वः । नैकधेत्यादौ तु नशब्देन सह सुप्सुपेति समासः ॥
कुगतिप्रादयः ।२।२।१८।
एते समर्थेन नित्यं समस्यन्ते । कुत्सितः पुरुषः कुपुरुषः ॥
ऊर्यादिच्विडाचश्च ।१।४।६१।
ऊर्यादयश्चव्यन्ता डाजन्ताश्च क्रियायोगे गतिसंज्ञाः स्युः । ऊरीकृत्य । शुक्लीकृत्य । सुपुरुषः । (पादयो गताद्यर्थे प्रथमया) । प्रगत आचार्यः प्राचार्यः । (अत्यादयः क्रान्ताद्यर्थे द्वितीयया) । अतिक्रान्तो मालामिति विग्रहे-
एकविभक्ति चापूर्वनिपाते ।१।२।४४।
विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यान्न तु तस्य पूर्वनिपातः ॥
गोस्त्रियोरुपसर्जनस्य ।१।२।४८।
उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात् । अतिमालः । (अवादयः क्रुष्टाद्यर्थे तृतीयया) । अवक्रुष्टः कोकिलया-अवकोकिलः । (पर्यादयो ग्लानाद्यर्थे चतुर्थ्या) । परिग्लानोऽध्ययनाय पर्यध्ययनः।
(निरादयः क्रान्ताद्यर्थे पञ्चम्या) । निष्क्रान्तः कौशाम्ब्याः - निष्कौशाम्बिः ॥
तत्रोपपदं सप्तमीस्थम् ।३।१।९२।
सप्तम्यन्ते पदे कर्मणीत्यादौ वाच्यत्वेन स्थितं यत्कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात् ॥
उपपदमतिङ् ।२।२।१९।
उपपदं सुबन्तं समर्थेन नित्यं समस्यते । अतिङन्तश्चायं समासः । कुम्भं करोतीति कुम्भकारः । अतिङ् किम् ? मा भवान् भूत् । माङि लुङीति सप्तमीनिर्देशान्माङुपपदम् । (प.) गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः । व्याघ्री । अश्वक्रीती । कच्छीत्यादि ॥
तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः ।५।४।८६।
संख्याव्ययादेरङ्गुल्यन्तस्य तत्पुरुषस्य समासान्तोऽच् स्यात् । द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलम् । निर्गतमङ्गुलिभ्यो निरङ्गुलम् ॥
अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रेः ।५।४।८७।
एभ्यो रात्रेरच् स्याच्चात्संख्याव्ययादेः । अहर्ग्रहणं द्वन्द्वार्थम् ॥
रात्राह्नाहाः पुंसि ।२।४।२९।
एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव । अहश्च रात्रिश्चाहोरात्रः । सर्वरात्रः । संख्यातरात्रः । (संख्यापूर्वं रात्रं क्लीबम्) । द्विरात्रम् । त्रिरात्रम् ॥
राजाहःसखिभ्यष्टच् ।५।४।९१।
एतदन्तात्तत्पुरुषाट्टच् स्यात् । परमराजः ॥
आन्महतः समानाधिकरणजातीययोः ।६।३।४६।
महत आकारोऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे । महाराजः । प्रकारवचने जातीयर् । महाप्रकारो महाजातीयः ॥
द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः ।६।३।४७।
आत्स्यात् । द्वौ च दश च द्वादश । अष्टाविंशतिः ॥
त्रेस्त्रयः ।६।३।४८।
त्रयोदश । त्रयोविंशतिः । त्रयस्त्रिंशत् ॥
परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ।२।४।२६।
एतयोः परपदस्येव लिङ्गं स्यात् । कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । अर्धपिप्पली । (द्विगुप्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधो वाच्यः) । पञ्चसु कपालेशु संस्कृतः पञ्चकापालः पुरोडाशः ॥
प्राप्तापन्ने च द्वितीयया ।२।२।४।
समस्येते । अकारश्चानयोरन्तादेशः । प्राप्तो जीविकां प्राप्तजीविकः । आपन्नजीविकः । अलं कुमार्यै- अलंकुमारिः । अत एव ज्ञापकात्समासः । निष्कौशाम्बिः ॥
अर्धर्चाः पुंसि च ।२।४।३१।
अर्धर्चादयः शब्दाः पुंसि क्लीबे च स्युः । अर्धर्चः । अर्धर्चम् । एवं ध्वजतीर्थशरीरमण्डपयूपदेहाङ्कुशपात्रसूत्रादयः।
सामान्ये नपुंसकम् । मृदु पचति । प्रातः कमनीयम् ॥
॥ इति तत्पुरुषः ॥
अथ बहुव्रीहिः
शेषो बहुव्रीहिः ।२।२।२३।
अधिकारोऽयम् प्राग्द्वन्द्वात् ॥
अनेकमन्यपदार्थे ।२।२।२४।
अनेकं प्रथमान्तमन्यस्य पदस्यार्थे वर्तमानं वा समस्यते स बहुव्रीहिः ॥
सप्तमीविशेषणे बहुव्रीहौ ।२।२।३५।
सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्वं स्यात् । अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः ॥
हलदन्तात्सप्तम्याः संज्ञायाम् ।६।३।९।
हलन्ताददन्ताच्च सप्तम्या अलुक् । कण्ठेकालः । प्राप्तमुदकं यं स प्राप्तोदको ग्रामः । ऊढरथोऽनड्वान् । उपहृतपशू रुद्रः । उद्धृतौदना स्थाली । पीताम्बरो हरिः । वीरपुरुषको ग्रामः । (प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः) । प्रपतितपर्णः, प्रपर्णः । (नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः) । अविद्यमानपुत्रः, अपुत्रः ॥
स्त्रियाः पुंवद्भाषितपुंस्कादनूङ्समानाधिकरणे स्त्रियामपूरणीप्रियादिषु ।६।३।३४।
उक्तपुंस्कादनूङ् ऊङोऽभावोऽस्यामिति बहुब्रीहिः । निपातनात्पञ्चम्या अलुक् षष्ठ्याश्च लुक् । तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात्पर ऊङोऽभावो यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्येव रूपं समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे न तु पूरण्यां प्रियादौ च परतः । गोस्त्रियोरिति ह्रस्वः । चित्रगुः । रूपवद्भार्यः । अनूङ् किम् ? वामोरूभार्यः । पूरण्यां तु –
अप्पूरणीप्रमाण्योः ।५।४।११६।
पूरणार्थप्रत्ययान्तं यत्स्त्रीलिङ्गं तदन्तात्प्रमाण्यन्ताच्च बहुब्रीहेरप्स्यात् । कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपञ्चमा रात्रयः । स्त्री प्रमाणी यस्य स स्त्रीप्रमाणः । अप्रियादिषु किम् ? कल्याणीप्रिय इत्यादि ॥
बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् ।५।४।११३।
स्वाङ्गवाचिसक्थ्यक्ष्यन्ताद्बहुव्रीहेः षच् स्यात् । दीर्घसक्थः । जलजाक्षी । स्वाङ्गात्किम् ? दीर्घसक्थि शकटम् । स्थूलाक्षा वेणुयष्टिः । अक्ष्णोऽदर्शनादिति वक्ष्यमाणोऽच् ॥
द्वित्रिभ्यां ष मूर्ध्नः ।५।४।११५।
आभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ । द्विमूर्धः । त्रिमूर्धः ॥
अन्तर्बहिर्भ्यां च लोम्नः ।५।४।११७।
आभ्यां लोम्नोऽप्स्याद्बहुव्रीहौ । अन्तर्लोमः । बहिर्लोमः ॥
पादस्य लोपोऽहस्त्यादिभ्यः ।५।४।१३८।
हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपः स्याद्बहुव्रीहौ । व्याघ्रस्येव पादावस्य व्याघ्रपात् । अहस्त्यादिभ्यः किम् ? हस्तिपादः । कुशूलपादः ॥
संख्यासुपूर्वस्य ।५।४।१४०।
पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ । द्विपात् । सुपात् ॥
उद्विभ्यां काकुदस्य ।५।४।१४८।
लोपः स्यात् । उत्काकुत् । विकाकुत् ॥
पूर्णाद्विभाषा ।५।४।१४९।
पूर्णकाकुत् । पूर्णकाकुदः ॥
सुहृद्दुर्हृदौ मित्रामित्रयोः ।५।४।१५०।
सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते । सुहृन्मित्रम् । दुर्हृदमित्रः ॥
उरःप्रभृतिभ्यः कप् ।५।४।१५१।
सोऽपदादौ ।८।३।३८।
पाशकल्पककाम्येषु विसर्गस्य सः ॥
कस्कादिषु च ।८।३।४८।
एष्विण उत्तरस्य विसर्गस्य षोऽन्यस्य तु सः । इति सः । व्यूढोरस्कः ॥
इणः षः ।८।३।३९।
इण उत्तरस्य विसर्गस्य षः पाशकल्पककाम्येषु परेषु । प्रियसर्पिष्कः ॥
निष्ठा ।२।२।३६।
निष्ठान्तं बहुत्रीहौ पूर्वं स्यात् । युक्तयोगः ॥
शेषाद्विभाषा ।५।४।१५४।
अनुक्तसमासान्ताद्बहुव्रीहेः कब्वा । महायशस्कः, महायशाः ॥
॥ इति बहुव्रीहिः ॥
अथ द्वन्द्वः
चार्थे द्वन्द्वः ।२।२।२९।
अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते स द्वन्द्वः । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः । तत्र ‘ईश्वरं गुरुं च भजस्व’ इति परस्परनिरपेक्षस्यानेकस्यैकस्मिन्नन्वयः समुच्चयः । ‘भिक्षामट गां चानय’ इत्यन्यतरस्यानुषङ्गिकत्वेनान्वयोऽवाचयः । अनयोरसामर्थ्यात्समासो न । ‘धवखदिरौ छिन्धि’ इति मिलितानामन्वय इतरेतरयोगः । ‘संज्ञापरिभाषाम्’ इति समूहः समाहारः ॥
राजदन्तादिषु परम् ।२।२।३१।
एषु पूर्वप्रयोगार्हं परं स्यात् । दन्तानां राजानो राजदन्ताः । (धर्मादिष्वनियमः) । अर्थधर्मौ । धर्मार्थावित्यादि ॥
द्वन्द्वे घि ।२।२।३२।
द्वन्द्वे घिसंज्ञं पूर्वं स्यात् । हरिश्च हरश्च हरिहरौ ॥
अजाद्यदन्तम् ।२।२।३३।
द्वन्द्वे पूर्वं स्यात् । ईशकृष्णौ ॥
अल्पाच्तरम् ।२।२।३४।
शिवकेशवौ ॥
पिता मात्रा ।१।२।७०।
मात्रा सहोक्तौ पिता वा शिष्यते । माता च पित च पितरौ, मातापितरौ वा ॥
द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ।२।४।२।
एषां द्वन्द्व एकवत् । पाणिपादम् । मार्दङ्गिकपाणविकम् । रथिकाश्वारोहम् ॥
द्वन्द्वाच्चुदषहान्तात्समाहारे ।५।४।१०६।
चवर्गान्ताद्दषहान्ताच्च द्वन्द्वाट्टच् स्यात्समाहारे । वाक् च् त्वक् च वाक्त्वचम् । त्वक्स्रजम् । शमीदृषदम् । वाक्त्विषम् । छत्रोपानहम् । समाहारे किम् ? प्रावृट्शरदौ ॥
॥ इति द्वन्द्वः॥
2745 : अनुपराभ्यां कृञः (1-3-79) -
कर्तृगेऽपि फले गन्धनादौ च परस्मैपदार्थमिदम् । अनुकरोति । पराकरोति । कर्तरीत्येव । भावकर्मणोर्मा भूत् । न चैवमपि कर्मकर्तरि प्रसङ्गः । कार्यातिदेशपक्षस्य मुख्यतया तत्र कर्मवत्कर्मणा (सू. 2766) इत्यात्मनेपदेन परेणास्य बाधात् । शास्त्रातिदेशपक्षे तु कर्तरि शप् (सू. 2167) इत्यतः शेषात् (सू. 2159) इत्यतश्च कर्तृग्रहणद्वयमुवर्त्य कर्तैव यः कर्ता नतु कर्मकर्ता तत्रेति व्याख्येयम् ॥
2746 : अभिप्रत्यतिभ्यः क्षिपः (1-3-80)
क्षिपप्रेरणे । स्वरितेत् । अभिक्षिपति ॥
2747 : प्राद्वहः (1-3-81) प्रवहति ॥
2748 : परेर्मृषः (1-3-82)
परिमृष्यति । भौवादिकस्य तु परिमर्षति । इह परेरिति योगं विभज्य वहेरपीति
केचित् ॥
2749 : व्याङ्परिभ्यो रमः (1-3-83) विरमति ॥
2750 : उपाच्च (1-3-84)
यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः । अन्तर्भावितण्यर्थोऽयम् ॥
2751 : विभाषाऽकर्मकात् (1-3-85)
उपाद्रमेरकर्मकात्परस्मैपदं वा । उपरमति । उपरमते वा । निवर्तत इत्यर्थः॥
2752 : बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः (1-3-86)
एभ्यो ण्यन्तेभ्यः परस्मैपदं स्यात् । णिचश्च (सू. 2564) इत्यस्यापवादः । बोधयति पद्मम् । योधयति काष्ठानि ।
नाशयति दुःखम् । जनयति सुखम् । अध्यापयति वेदम् । प्रावयति । प्रापयतीत्यर्थः ।
द्रावयति । विलापयतीत्यर्थः । स्रावयति । स्यन्दयतीत्यर्थः ॥
2753 : निगरणचलनार्थेभ्यश्च (1-3-87)
निगारयति । आशयति । भोजयति । चलयति । कम्पयति ॥ अदेः प्रतिषेधः (वा) ॥ आदयते
देवदत्तेन । गतिबुद्धि (सू. 540) इति कर्मत्वम् ॥आदिखाद्योर्नेति प्रतिषिद्धम् (वा) ॥
निगरणचलन (सू. 2753) इति सूत्रेण प्राप्तस्यैवायं निषेधः । शेषात् (सू. 2159) इत्यकर्त्रभिप्राये परस्मैपदं स्यादेव । आदयत्यन्नं बटुना
॥
2754 : अणावकर्मकाच्चित्तवत्कर्तृकात् (1-3-88)
ण्यान्तात्परस्मैपदं स्यात् । शेते कृष्णस्तं गोपी शाययति ॥
2755 : न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः (1-3-89)
एभ्यो ण्यन्तेभ्यः परस्मैपदं न । पिबतिर्निगरणार्थः । इतरे चित्तवत्कर्तृका
अकर्मकाः । नृतिश्चलनार्थोऽपि । तेन सूत्रद्वयेन प्राप्तिः । पाययते । दमयते।
आयामयते । आयासयते । परिमोहयते । रोचयते । नर्तयते । वादयते । वासयते ॥ धेट
उपसंख्यानम् (वा)॥ धापयेते शिशुमेकं समीची । अकर्त्रभिप्राये शेषात् (सू. 2159) इति परस्मैपदं स्यादेव । वत्सान्पाययति पयः । दमयन्ती
कमनीयतामदम् । भिक्षां वासयति । वा क्यषः (सू. 2669) । लोहितायति । लोहितायते । द्युद्भ्यो लुङि (सू. 2345) अद्युतत् । अद्योतिष्ट । वृद्भ्यः स्यसनोः (सू. 2347) । वर्त्सयति । वर्तिष्यते । विवृत्सति । विवर्तिषते ।
लुटि च क्लृपः (सू. 2341) कल्प्ता । कल्प्तासि । कल्पितासे । कल्प्तासे ।
कल्प्स्यति । कल्पिष्यते । कल्प्स्यते । चिक्लृप्सति । चिकल्पिषते । चिक्लृप्सते ॥
समाप्ता पदव्यवस्था ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें