अथ अच् सन्धिः
इको यणचि ।६।१।७७।
इकः स्थाने यण् स्यादचि संहितायां विषये । सुधी उपास्य इति स्थिते ।।
तस्मिन्निति निर्दिष्टे पूर्वस्य ।१।१।६६।
सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम् ।
स्थानेऽन्तरतमः ।१।१।५०।
प्रसङ्गे सति सदृशतम आदेशः स्यात् । सु ध् य् उपास्य इति जाते ।।
अनचि च ।८।४।४७।
अचः परस्य यरो द्वे वा स्तो न त्वचि । इति धकारस्य द्वित्वेन सु ध् ध् य् उपास्य इति जाते ।।
झलां जश् झशि ।८।४।५३।
स्पष्टम् । इति पूर्व धकारस्य दकारः ।।
संयोगान्तस्य लोपः ।८।२।२३।
संयोगान्तं यत् पदं तदन्तस्य लोपः स्यात् ।।
अलोऽन्त्यस्य ।१।१।५२।
षष्ठीनिर्दिष्टोऽन्त्यस्याल आदेशः स्यात् । इति यलोपे प्राप्ते – (यणः प्रतिषेधो वाच्यः) । सुद्ध्युपास्यः । मद्ध्वरिः । धात्त्रंशः । लाकृतिः ।।
एचोऽयवायावः ।६।१।७८।
एचः क्रमादय् अव् आय् आव् एते स्युरचि ।।
यथासंख्यमनुदेशः समानाम् ।१।३।१०।
समसम्बन्धी विधिर्यथासंख्यं स्यात् । हरये । विष्णवे । नायकः । पावकः ।।
वान्तो यि प्रत्यये ।६।१।७९।
यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्तः । गव्यम् । नाव्यम् । (अध्वपरिमाणे च) । गव्यूतिः ।।
अदेङ् गुणः ।१।१।२।
अत् एङ् च गुणसंज्ञः स्यात् ।।
तपरस्तत्कालस्य ।१।१।७०।
तः परो यस्मात्स च तात्परश्चोच्चार्यमाणः समकालस्यैव संज्ञा स्यात् ।।
आद्गुणः ।६।१।८७।
अवर्णादचि परे पूर्वपरयोरेको गुणादेशः स्यात् । उपेन्द्रः । गङ्गोदकम् ।।
उपदेशेऽजनुनासिक इत् ।१।३।२।
उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात् । प्रतिज्ञानुनासिक्याः पाणिनीयाः । लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा ।।
उरण् रपरः ।१।१।५१।
ऋ इति त्रिंशतः संज्ञेत्त्युक्तम् । तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते । कृष्णर्द्धिः । तवल्कारः ।।
लोपः शाकल्यस्य ।८।३।१९।
अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोपो वाऽशि परे ।।
पूर्वत्रासिद्धम् ।८।२।१।
सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम् । हर इह, हरयिह । विष्ण इह, विष्णविह ।।
वृद्धिरादैच् ।१।१।१।
आदैच्च वृद्धिसंज्ञः स्यात् ।।
वृद्धिरेचि ।६।१।८८।
आदेचि परे वृद्धिरेकादेशः स्यात् । गुणापवादः । कृष्णैकत्वम् । गङ्गौघः । देवैश्वर्यम् । कृष्णौत्कण्ठ्यम् ।।
एत्येधत्यूठ्सु ।६।१।८९।
अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात् । उपैति । उपैधते । प्रष्ठौहः । एजाद्योः किम् ? उपेतः । मा भवान्प्रेदिधत् । (अक्षादूहिन्यामुपसंख्यानम्) । अक्षौहिणी सेना । (प्रादूहोढोढ्येषैष्येषु) । प्रौहः । प्रौढः । प्रौढिः। प्रैषः । प्रैष्यः । (ऋते च तृतीयासमासे) । सुखेन ऋतः सुखार्तः । तृतीयेति किम् ? परमर्तः । (प्रवत्सतरकम्बलवसनार्णदशानामृणे) । प्रार्णम्, वत्सतरार्णम् इत्यादि ।।
उपसर्गाः क्रियायोगे ।१।४।५९।
प्रादयः क्रियायोगे उपसर्गसंज्ञाः स्युः । प्र । परा । अप । सम् । अनु । अव । निस् । निर् । दुस् । दुर् । वि । आङ् । नि । अधि । अपि । अति । सु । उद् । अभि । प्रति । परि । उप - एते प्रादयः ।।
भूवादयो धातवः ।१।३।१।
क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः ।।
उपसर्गादृति धातौ ।६।१।९१।
अवर्णान्तादुपसर्गादृकारादौ धातौ परे वृद्धिरेकादेशः स्यात् । प्रार्च्छति ।।
एङि पररूपम् ।६।१।९४।
आदुपसर्गादेङादौ धातौ पररूपमेकादेशः स्यात् । प्रेजते । उपोषति ।।
अचोऽन्त्यादि टि ।१।१।६४।
अचां मध्ये योऽन्त्यः स आदिर्यस्य तट्टिसंज्ञं स्यात् । (शकन्ध्वादिषु पररूपं वाच्यम्) । तच्च टेः । शकन्धुः । कर्कन्धुः । मनीषा । आकृतिगणोऽयम् । मार्त्तण्डः ।।
ओमाङोश्च ।६।१।९५।
ओमि आङि चात्परे पररूपमेकादेशः स्यात् । शिवायों नमः । शिवेहि ।।
अन्तादिवच्च ।६।१।८५।
योऽयमेकादेशः स पूर्वस्यान्तवत्परस्यादिवत् । शिवेहि ।।
अकः सवर्णे दीर्घः ।६।१।१०१।
अकः सवर्णेऽचि परे पूर्वपरयोर्दीर्घ एकादेशः स्यात् । दैत्यारिः । श्रीशः । विष्णूदयः । होतॄकारः ।।
एङः पदान्तादति ।६।१।१०९।
पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात् । हरेऽव । विष्णोऽव ।।
सर्वत्र विभाषा गोः ।६।१।१२२।
लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः पदान्ते । गोअग्रम्, गोऽग्रम् । एङन्तस्य किम् ? चित्रग्वग्रम् । पदान्ते किम् ? गोः ।।
अनेकाल् शित्सर्वस्य ।१।१।५५।
इति प्राप्ते ।।
ङिच्च ।१।१।५३।
ङिदनेकालप्यन्त्यस्यैव स्यात् ।।
अवङ् स्फोटायनस्य ।६।१।१२३।
पदान्ते एङन्तस्य गोरवङ् वाऽचि । गवाग्रम् , गोऽग्रम् । पदान्ते किम् ? गवि ।।
इन्द्रे च ।६।१।१२४।
गोरवङ् स्यादिन्द्रे । गवेन्द्रः ।।
दूराद्धूते च ।८।२।८४।
दूरात् संबोधने वाक्यस्य टेः प्लुतो वा ।।
प्लुतप्रगृह्या अचि नित्यम् ।६।१।१२५।
एतेऽचि प्रकृत्या स्युः । आगच्छ कृष्ण ३ अत्र गौश्चरति ।।
ईदूदेद्विवचनं प्रगृह्यम् ।१।१।११।
ईदूदेदन्तं द्विवचनं प्रगृह्यं स्यात् । हरी एतौ । विष्णू इमौ । गङ्गे अमू ।।
अदसो मात् ।१।१।१२।
अस्मात् परावीदूतौ प्रगृह्यौ स्तः । अमी ईशाः । रामकृष्णावमू आसाते । मात् किम् ? अमुकेऽत्र ।।
चादयोऽसत्त्वे ।१।४।५७।
अद्रव्यार्थाश्चादयो निपाताः स्युः ।।
प्रादयः।१।४।५८।
एतेऽपि तथा ।।
निपात एकाजनाङ् ।१।१।१४।
एकोऽज् निपात आङ्वर्जः प्रगृह्यः । इ इन्द्रः । उ उमेशः । वाक्यस्मरणयोरङित्, आ एवं नु मन्यसे । आ एवं किल तत् । अन्यत्र ङित्, आ ईषदुष्णम् ओष्णम् ॥
ओत् ।१।१।१५।
ओदन्तो निपातः प्रगृह्यः । अहो ईशाः ॥
संबुद्धौ शाकल्यस्येतावनार्षे ।१।१।१६।
संबुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिक इतौ परे । विष्णो इति, विष्ण इति, विष्णविति ॥
मय उञो वो वा ।८।३।३३।
मयः परस्य उञो वो वाऽचि । किम्वुक्तम् । किमु उक्तम् ॥
इकोऽसवर्णे शाकल्यस्य ह्रस्वश्व ।६।१।१२७।
पदान्ता इको ह्रस्वा व स्युरसवर्णेऽचि । ह्रस्वविधिसामर्थ्यान्न स्वरसंधिः । चक्रि अत्र, चक्र्यत्र । पदान्ता इति किम्? गौर्यौ –
अचो रहाभ्यां द्वे ।८।४।४६।
अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः । गौर्य्यौ । (न समासे) । वाप्यश्वः ॥
ऋत्यकः ।६।१।१२८।
ऋति परे पदान्त अकः प्राग्वद्वा । ब्रह्म ऋषिः, ब्रह्मर्षिः । पदान्ताः किम् ? आर्च्छत् ॥
॥ इति अच् सन्धिः ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें