प्रथम सर्ग:
श्रियः पतिः श्रीमति शसितुं जग-
ज्जगन्निवास: वसुदेवसद्मनि।
वसन् ददर्शावतरन्तमम्बराद्
हिरण्यगर्भागभुवं मुनिं हरिः ॥१॥
तिरश्चीनमनूरुसारथे:
प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः ।
पतत्यधो धाम विसारि सर्वतः,
किमेतदित्याकुलमीक्षितं जनैः ॥ २ ॥
चयस्त्विषामित्यवधारितं पुरा,
ततः शरीरीति विभाविताकृतिम् ।
विभुर्विभक्तावयवं पुमानिति,
क्रमादमुं नारद इत्यबोधि सः ॥ ३ ॥
नवानधोऽधो बृहत: पयोधरान,
समूढ-कर्पूर-पराग-पाण्डुरम् ।
क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना,
स्फुटोपमं भूतिसितेन शम्भुना ॥४॥
दधानमम्भोरुह-केसरद्युतीर्जटा:
शरच्चन्द्र मरीचि रोचिषम् ।
विपाकपिङ्गास्तुहिनस्थलीरुहो,
धराधरेन्द्रं व्रततीततीरिव ।।५।।
पिशङ्गमौञ्जीयुजमर्जुनच्छविं,
वसानमेणाजिनमञ्जनद्युति ।
सुवर्णसूत्राकलिताधराम्बरां,
विडम्बयन्तं शितिवाससस्तनुम् ॥६॥
विहङ्गराजाङ्गरुहैंरिवायतै-
र्हिरण्मयोर्वीरुहवल्लितन्तुभिः ।
कृतोपवीतं हिमशुभ्रमुच्चकै-
र्घनं घनान्ते तडितां गणैरिव ॥७॥
निसर्गचित्रोज्ज्वलसूक्ष्मपक्ष्मणा,
लसद्बिसच्छेदसिताङ्गसङ्गिना।
चकासतं चारुचमूरुचर्मणा,
कुथेन नागेन्द्रमिवेन्द्रवाहनम् ॥ ८॥
अजस्त्रमास्फालितवल्लकीगुण-
क्षतोज्ज्वलांगुष्ठनखांशुभिन्नया ।
पुर: प्रवालैरिव पूरितार्धया,
विभान्तमच्छस्फटिकाक्षमालया ॥९॥
रणद्भिराघट्टनया नभस्वतः,
पृथग्विभिन्न श्रुतिमण्डलैः स्वरैः ।
स्फुटीभवद्ग्रामविशेषमूर्च्छनाम्,
अवेक्षमाणं महतीं मुहुर्मुहुः ॥१०॥
निवर्त्य सोऽनुव्रजतः कृतानतीन्,
अतीन्द्रियज्ञाननिधिर्नभः सदः ।
समासदत् सादितदैत्यसम्पदः,
पदं महेन्द्रालयचारुचक्रिणः ॥११॥
पतत् पतङ्गप्रतिमस्तपोनिधिः,
पुरोऽस्य यावन्न भुवि व्यलीयत ।
गिरेस्तडित्वानिव तावदुच्चकै-
र्जवेन पीठादुदतिष्ठदच्युतः ॥१२॥
अथ प्रयत्नोन्नमितानमत्फणै-
र्धृते कथञ्चित् फणिनां गणैरधः ।
न्यधायिषातामभिदेवकीसुतम्
सुतेन धातुश्चरणौ भुवस्तले ॥१३॥
तममर्घ्यादिकमादिपुरुषः,
सपर्यया साधु स पर्यपूपुजत् ।
गृहानुपैतं प्रणयाद भीप्सवो,
भवन्ति नापुण्यकृतां मनीषिणः ॥१४॥
न यावदेतावुदपश्यदुत्थितौ,
जनस्तुषाराञ्जनपर्वतादिव ।
स्वहस्तदत्ते मुनिमासने मुनि
श्चिरन्तनस्तावदभिन्यवीविशत्॥१५॥
महामहानीलशिलारुचः पुरो,
निषेदिवान्कंसकृषः स विष्टरे।
श्रितोदयाद्रेरभिसायमुच्चकै-
रचूचुरच्चन्द्रमसोऽभिरामताम्॥१६॥
विधाय तस्यापचितिं प्रसेदुष:
प्रकाममप्रीयत यज्वनां प्रियः।
ग्रहीतुमार्यान् परिचर्यया मुहु-
र्महानुभावा हि नितान्तमर्थिनः ॥१७॥
अशेषतीर्थोपहृता: कमण्डलो-
र्निधाय पाणावृषिणाऽभ्युदीरिताः ।
अघौघविध्वंसविधौ पटीयसी-
र्नतेन मूर्ध्ना हरिरग्रहीदपः॥१८॥
स काञ्चने यत्र मुनेरनुज्ञया
नवाम्बुद-श्याम-वपुर्न्यविक्षत।
जिगाय जम्बूजनितश्रियः श्रियं
सुमेरुश्रृंगस्य तदा तदासनम् ॥१९॥
स तप्तकार्तस्वरभास्वराम्बरः
कठोरताराधिप-लांछनच्छविः ।
विदिद्युते वाडवजातवेदसः
शिखाभिराश्लिष्ट इवाम्भसां निधिः ॥२०॥
रथाङ्गपाणे: पटलेन रोचिषा-
मृषित्विष: संवलिता विरेजिरे ।
चलत्पलाशान्तरगोचरास्तरो-
स्तुषारमूर्तेरिव नक्तमंशव: ॥२१॥
प्रफुल्लतापिच्छनिभैरभीषुभिः
शुभैश्च सप्तच्छदपांशुपाण्डुभिः ।
परस्परेण छुरितामलच्छवी
तदैकवर्णाविव तौ बभूवतुः ॥ २२॥
युगान्तकालप्रतिसंहृतात्मनो
जगन्ति यस्यां सविकासमासत् ।
तनौ ममुस्तत्र न कैटभद्विष-
स्तपोधनाभ्यागमसंभवा मुदः ॥२३॥
निदाघधामानमिवाधिदीधितिं
मुदा विकासं मुनिमभ्युपेयुषी।
विलोचने बिभ्रदधिश्रितश्रिणी
स पुण्डरीकाक्ष इति स्फुटोऽभवत् ॥२४॥
सितं सितिम्ना सुतरां मुनेर्वपु-
र्विसारिभिः सौधमिवाथ लंभयन् ।
द्विजावलिव्याजनिशाकरांशुभिः
शुचिस्मितां वाचमवोचदच्युतः॥२५॥
हरत्यघं सम्प्रति हेतुरेष्यतः
शुभस्य पूर्वाचरितैः कृतं शुभैः ।
शरीरभाजां भवदीयदर्शनं
व्यनक्ति कालत्रितयेपि योग्यताम्॥२६॥
जगत्यपर्याप्त सहस्र- भानुना
न यन्नियन्तुं समभावि भानुना ।
प्रसह्य तेजोभिरसंख्यतां गतै-
रदस्त्वया नुन्नमनुत्तमं तमः ॥२७॥
कृतः प्रजाक्षेमकृता प्रजासृजा
सुपात्र-निक्षेप-निराकुलात्मना ।
सदोपयोगेऽपि गुरुस्त्वमक्षयो
निधिः श्रुतीनां धनसम्पदामिव॥२८॥
विलोकनेनैव तवामुना मुने
कृतः कृतार्थोस्मि निवर्हितांहसा।
तथापि शुश्रूषुरहं गरीयसी:
गिरोऽथवा श्रेयसि केन तृप्यते ॥ २९॥
गतस्पृहोऽप्यागमनप्रयोजनं
वदेति वक्तुं व्यवसीयते यया ।
तनोति नस्तामुदितात्मगौरवो
गुरुस्तवैवागम एष धृष्टताम् ॥३०॥
इति ब्रुवन्तं तमुवाच स व्रती
न वाच्यमित्थं पुरुषोत्तम त्वया।
त्वमेव साक्षात्करणीय इत्यत:
किमस्ति कार्यं गुरु योगिनामपि ॥३१॥
उदीर्णरागप्रतिरोधकं जनै-
रभीक्ष्णमक्षुण्णतयाऽतिदुर्गमम् ।
उपेयुषो मोक्षपथं मनस्विन-
स्त्वमग्रभूमिर्निरपाय -संश्रया ॥३२॥
उदासितारं निगृहीतमानसै-
र्गृहीतमध्यात्मदृशा कथञ्चन।
बहिर्विकारं प्रकृते: पृथग्विदुः
पुरातनं त्वां पुरुषं पुराविदः ॥३३॥
निवेशयामासिथ हेलयोद्धृतं
फणाभृतां छादनमेकमोकसः ।
जगत्त्रयैकस्थपतिस्त्वमुच्चकै-
रहीश्वरस्तम्भशिरःसु भूतलम् ॥३४॥
अनन्यगुर्वास्तव केन केवलः
पुराण-मूर्तेः महिमावगम्यते ।
मनुष्यजन्मापि सुरासुरान् गुणै-
र्भवान् भवच्छेदकरैः करोत्यधः ॥३५॥
लघूकरिष्यन्नतिभारभंगुराम्,
अमूं किल त्वं त्रिदिवादवातरः ।
उदूढलोकत्रितयेन साम्प्रतं,
गुरुर्धरित्री क्रियतेतरां त्वया ॥३६॥
निजौजसोज्जासयितुं जगद्रुहा-
मुपाजिहीथा न महीतलं यदि ।
समाहितैरप्यनिरूपितस्ततः,
पदं दृशः स्याः कथमीश मादृशाम् ॥३७॥
उपप्लुतं पातुमदो मदोद्धतै-
स्त्वमेव विश्वम्भर विश्वमीशिषे ।
ऋते रवेः क्षालयितुं क्षमेत कः,
क्षपातमस्काण्डमलीमसं नभः॥३८॥
करोति कंसादिमहीभृतां वधा-
ज्जनो मृगाणामिव यत्तव स्तवम् ।
हरे हिरण्याक्षपुर:सरासुर-
द्विपद्विषः प्रत्युत सा तिरस्क्रिया ।।३९।।
प्रवृत्त एव स्वयमुज्झितश्रमः,
क्रमेण पेष्टुं भुवनद्विषामसि।
तथापि वाचालतया युनक्ति मां,
मिथस्त्वदाभाषणलोलुपं मनः ॥४०॥
तदिन्द्रसन्दिष्टमुपेन्द्र! यद्वचः,
क्षणं मया विश्वजनीनमुच्यते ।
समस्तकार्येषु गतेन धुर्यता-
महिद्विषस्तद् भवता निशम्यताम् ॥४१॥
अभूदभूमिः प्रतिपक्षजन्मनां,
भियां तनूजस्तपनद्युतिर्दितेः।
यमिन्द्रशब्दार्थनिषूदनं हरे:,
हिरण्यपूर्वं कशिपुं प्रचक्षते ॥४२॥
समत्सरेणासुर इत्युपेयुषा,
चिराय नाम्न: प्रथमाभिधेयताम् ।
भयस्य पूर्वावतरस्तरस्विना,
मनस्सु येन द्युसदां न्यधीयत ॥४३॥
दिशामधीशांश्चतुरो यतः सुरान्,
अपास्य तं रागहृताः सिषेविरे।
अवापुरारभ्य ततश्चला इति,
प्रवादमुच्चैरयशस्करं श्रियः ॥४४॥
पुराणि दुर्गाणि निशातमायुधं,
बलानि शूराणि घनाश्च कञ्जुका: ।
स्वरूपशोभैकफलानि नाकिनां,
गणैर्यमाशंक्य तदादि चक्रिरे॥४५॥
स सञ्चरिष्णुर्भुवनान्तरेषु यां,
यदृच्छयाऽशिश्रियदाश्रयः श्रियः ।
अकारि तस्यै मुकुटोपलस्खलत्-
करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः॥४६॥
सटाच्छटाभिन्नघनेन बिभ्रता,
नृसिंह! सैंहीमतनुं तनुं त्वया ।
स मुग्धकान्ता-स्तन-सङ्गभंगुरै-
रुरोविदारं प्रतिचस्करे नखैः ॥४७॥
विनोदमिच्छन्नथ दर्पजन्मनो,
रणेन कण्ड्वास्त्रिदशैः समं पुनः ।
स रावणो नाम निकामभीषणं,
बभूव रक्षः क्षतरक्षणं दिवः ॥४८॥
प्रभुर्बुभूषुर्भुवनत्रयस्य यः,
शिरोऽतिरागाद्दशमं चिकर्तिषुः ।
अतर्कयद् विघ्नमिवेष्टसाहसः,
प्रसादमिच्छासदृशं पिनाकिनः॥४९॥
समुत्क्षिपन्यः पृथिवीभृतां वरं,
वरप्रदानस्य चकार शूलिनः ।
त्रसत्तुषाराद्रि-सुता-ससम्भ्रम-
स्वयंग्रहाश्लेषसुखेन निष्क्रयम् ॥५०॥
पुरीमवस्कन्द लुनीहि नन्दनं,
मुषाण रत्नानि हरामराङ्गनाः ।
विगृह्य चक्रे नमुचिद्विषा बली,
य इत्थमस्वास्थ्यमहर्दिवं दिवः ॥५१॥
सलीलयातानि न भर्तुरभ्रमो-
र्न चित्रमुच्चै: श्रवस: पदक्रमम् ।
अनुद्रुतः संयति येन केवलं,
बलस्य शत्रुः प्रशशंस शीघ्रताम् ॥५२॥
अशक्नुवन् सोढुमधीरलोचनः,
सहस्ररश्मेरिव यस्य दर्शनम् ।
प्रविश्य हेमाद्रिगुहागृहान्तरं,
निनाय बिभ्यद्दिवसानि कौशिकः ॥५३॥
बृहच्छिलानिष्ठुरकण्ठघट्टनाद्,
विकीर्णलोलाग्निकणं सुरद्विषः।
जगत्प्रभोरप्रसहिष्णु वैष्णवं,
न चक्रमस्याक्रमताधिकन्धरम् ॥५४॥
विभिन्नशंख: कलुषीभवन्मुहु-
र्मदेन दन्तीव मनुष्यधर्मणः ।
निरस्तगाम्भीर्यमपास्तपुष्पकं,
प्रकम्पयामास न मानसं न सः ॥५५॥
रणेषु तस्य प्रहिताः प्रचेतसा,
सरोष-हुङ्कार-पराङ्मुखीकृताः ।
प्रहर्तुरेवोरग-राज-रज्जवो,
जवेन कण्ठं सभयाः प्रपेदिरे ॥५६॥
परेतभर्तुर्महिषोऽमुना धनु-
र्विधातुमुत्खातविषाणमण्डलः।
हृतेऽपि भारे महतस्त्रपाभराद्-
उवाह दुःखेन भृशानतं शिरः ॥५७॥
स्पृशन् सशंकः समये शुचावपि,
स्थितः कराग्रैरसमग्रपातिभिः।
अघर्मघर्मोदकबिन्दुमौक्तिकै-
रलञ्चकारास्य वधूरहस्करः ॥५८॥
कलासमग्रेण गृहानमुञ्चता,
मनस्विनीरुत्कयितुं पटीयसा ।
विलासिनस्तस्य वितन्वता रतिं,
न नर्मसाचिव्यमकारि नेन्दुना ॥५९॥
विदग्धलीलोचितदन्तपत्रिका-
विधित्सया नूनमनेन मानिना ।
न जातु वैनायकमेकमुद्धृतं,
विषाणमद्यापि पुनः प्ररोहति ॥६०॥
निशान्त-नारी-परिधान-धूनन-
स्फुटागसाप्यूरुषु लोलचक्षुषः ।
प्रियेण तस्यानपराधबाधिताः,
प्रकम्पनेनानुचकम्पिरे सुराः ॥६१॥
तिरस्कृतस्तस्य जनाभिभाविना,
मुहुर्महिम्ना महसां महीयसाम्।
बभार बाष्पैर्द्विगुणीकृतं तनु-
स्तनूनपाद् धूमवि॒तानमाधिजैः ॥६२॥
परस्य मर्माविधमुज्झतां निजं,
द्विजिह्वतादोषमजिह्मगामिभिः ।
तामिद्धमाराधयितुं सकर्णकैः,
कुलैर्न न भेजे फणिनां भुजङ्गता॥६३॥
तदीयमातङ्गघटाविघट्टितै:,
कटस्थल-प्रोषित-दानवारिभिः
गृहीतदिक्कैरपुनर्निवर्तिभि-
श्चिराय याथार्थ्यमलम्भि दिग्गजैः ॥६४॥
अभीक्ष्णमुष्णैरपि तस्य सोष्मणः,
सुरेन्द्र वन्दी-श्वसितानिलैर्यथा ।
सचन्दनाम्भ:कणकोमलैस्तथा,
वपुर्जलार्द्रापवनैर्न निर्ववौ ॥६५॥
तपेन वर्षाः शरदा हिमागमो,
वसन्तलक्ष्म्या शिशिरः समेत्य च ।
प्रसूनक्लृप्तिं दधतः सदर्तवः,
पुरेऽस्य वास्तव्यकुटुम्बितां ययुः ॥६६॥
अमानवं जातमजं कुले मनोः,
प्रभाविनं भाविनमन्तमात्मनः ।
मुमोच जानन्नपि जानकीं न यः,
सदाभिमानैकधना हि मानिनः॥६७॥
स स्मरत्यदो दाशरथिर्भवन् भवान्,
अमुं वनान्ताद्वनितापहारिणम्।
पयोधिमाबद्धचलज्जलाविलं,
विलंघ्य लङ्का निकषा हनिष्यति ॥६८॥
अथोपपत्तिं छलनापरोऽपराम्,
अवाप्य शैलूष इवैष भूमिकाम् ।
तिरोहितात्मा शिशुपालसंज्ञया,
प्रतीयते सम्प्रति सोऽप्यसः परैः ॥६९॥
स बाल आसीद्वपुसा चतुर्भुजो,
मुखेन पूर्णेन्दुनिभस्त्रिलोचनः ।
युवा कराक्रान्तमहीभृदुच्चकै-
रसंशयं सम्प्रति तेजसा रविः ॥७०॥
स्वयं विधाता सुरदैत्यरक्षसाम्,
अनुग्रहावग्रहयोर्यदृच्छया ।
दशाननादीनभिराद्धदेवता-
वितीर्णवीर्यातिशयान् हसत्यसौ ॥७१॥
बलावलेपादधुनाऽपि पूर्ववत्,
प्रबाध्यते तेन जगज्जिगीषुणा ।
सतीव योषित्प्रकृतिः सुनिश्चला,
पुमांसमभ्येति भवान्तरेष्वपि ॥७२॥
तदेनमुल्लंघितशासनं विधे-
र्विधेहि कीनाशनिकेतनातिथिम्।
शुभेतराचारविपक्त्रिमापदो,
निपातनीया हि सतामसाधवः ॥७३॥
हृदयमरिवधोदयादुदूढ-
द्रढिम दधातु पुनः पुरन्दरस्य।
घनपुलकपुलोमजाकुचाग्र-
द्रुतपरिरम्भ-निपीडन-क्षमत्वम् ॥७४॥
ओमित्युक्तवतोथ शार्ङ्गिण इति व्याहृत्य वाचं नभ-
स्तस्मिन्नुत्पतिते पुरः सुरमुनाविन्दोः श्रियं बिभ्रति ।
शत्रूणामनिशं विनाशपिशुनः क्रुद्धस्य चैद्यं प्रति,
व्योम्नीव भ्रकुटिच्छलेन वदने केतुश्चकारास्पदम् ॥७५॥
॥ इति महाकविमाघकृतौ शिशुपालवधे महाकाव्ये श्रीकृष्णनारदसम्भाषणं नाम प्रथमो सर्गः ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें