रविवार, 11 अप्रैल 2021

संस्कृत में निबन्ध

रक्षाबन्धनम्

प्रस्तावना - इदन्तु सर्वं एव जानन्ति यत् मानवः उत्सवप्रियः। भारतीयास्तु विशेषेण उत्सवप्रियाः। भारतदेशे उत्सवानाम् प्राचुर्यं वर्तते। अत्र अनेके उत्सवाः प्रचलन्ति । यथा धार्मिकोत्सवाः, सामाजिकोत्सवाः महापुरुषजन्मोत्सवा, राष्ट्रियोत्सवाः च ।
       एषु उत्सवेषु धार्मिकोत्सवाः महत्वपूर्णाः यतः भारतीयाः धर्मप्राणाः सन्ति। तेष्वपि रक्षाबन्धनोत्सवः विशेषेण महत्त्वपूर्णः अस्ति। अस्योत्सवस्य महत्व सर्वं एव स्वीकुर्वन्ति।
समयः - अयं महोत्सवः श्रावणमासस्य पूर्णिमायां भवति । अयं समयः अति मनोरमः भवति । भूमौ सर्वत्र हरीतिमा दृश्यते । वृक्षेषु कूजन्तः पक्षिणः श्रवणयोः मधु इव क्षरन्ति। एवंविधे समये अयम् उत्सवः सर्वान् मोदयति ।
इतिहासः - रक्षाबन्धनोत्सवस्य इतिहास: अति प्राचीन: अस्ति । पुराणानुसारं सर्वप्रथमम् इन्द्रपत्नया स्वपतेः इन्द्रस्य दानवेभ्यः रक्षणार्थं तस्य हस्ते रक्षासूत्रं बद्धम् । ततः एवं अयमुत्सवः प्रवर्तितः । ततः अनेनैव रक्षासूत्रेणैव इन्द्रेण दानवेन्द्रो बलिः बद्धः ।
    भारतीयेतिहासे राजपुत्राणां समये राज्ञः स्वरक्षार्थम् एकं बलवतं राजानं निजभ्रातरं मत्वा तस्य हस्ते रक्षाबन्धनम् अकुर्वन् । पुरा अस्मिन्नेव दिने ऋषयः ब्राह्मणाश्च यजमानानां हस्तेषु रक्षासूत्रम् अबध्नन् । ते राजानः यजमानाश्च तेभ्यः प्रचुरं द्रव्यं यच्छन्ति स्म । अधुना तु ब्राह्मणाः सर्व एवं न, अपितु केचिदेव, भिक्षुकाः भूत्वा अति स्वल्पधनार्थम् प्रतिगृहं गच्छन्ति-अयं महान् खेदजनक विषयः ।
आयोजनप्रकार:- अयमुत्सवः प्राधान्येन ब्राह्मणानाम् अस्ति किन्तु अधुना सर्ववर्णमानवाः इमम् उत्सवम् अभिनन्दन्ति । अस्मिन् दिने भगिन्यः अतीव प्रसन्ना: दृश्यन्ते । प्रायेण अस्मिन् दिने भगिन्यः स्वपतिगृहात् भ्रातृगृहम् समागत्य भ्रातृणां हस्तेषु रक्षासूत्रं बध्नन्ति । भ्रातृभ्यश्च धनं वस्त्रादिकं लभन्ते । बाह्मणाश्च यजमानहस्तेषु रक्षाबन्धनम् विधाय दक्षिणा-द्रव्यम् आप्नुवन्ति।
     अस्मिन् उत्सवे प्रतिगृहं घृतखण्डदुग्धयुक्ताः सूत्रिकाः पच्यन्ते। धर्मप्राणा: जनाः तीर्थस्थानानि गत्वा दानं पुण्यञ्च कुर्वन्ति । नदीषु, सरोवरेषु च स्नानं कुर्वन्ति ।
समापनम्- अयम् उत्सवः भारतीय संस्कृतेः उज्ज्वलतायाः एवं महत्तायाः सूचकोऽस्ति । आदिभारतीयसंस्कृतेः विचारानुगुणं भ्रातुः रक्षायै भगिन्या ईश्वराय कृता प्रार्थना एव रक्षाबन्धनम् ।

दीपावली

प्रस्तावना- भारतवर्षे न किमपि एतद्दिनं यस्मिन् दिने कोऽपि उत्सवः न स्यात् । भारतवर्षन्तु उत्सवानामेव देशः कथ्यते । अत्र विविधा उत्सवाः काले-काले समायोज्यन्ते। तेषु उत्सवेषु केचिद् धार्मिकाः केचित् सामाजिकाः केचिद् राष्ट्रिया: केचिच्च महापुरुषजन्मोत्सवाः सन्ति । दीपावली अपि एकः धार्मिकः उत्सवः अस्ति । अस्योत्सवस्य महत्वं सर्व एव भारतीयाः मन्यन्ते। उत्सवोऽयं समस्ते भारते हर्षोल्लासामोदैश्च समायोज्यते ।
समय- दीपावल्युत्सवः प्रतिवर्षं कार्तिकमासे कृष्णपक्षे अमावस्यायां तिथौ भवति । अस्योत्सवस्य समयः प्राकृतिकदृष्ट्या अति रमणीयो भवति । वर्षर्तुः समाप्तः भवति येन आकाशं निर्मलं स्वच्छे च भवति । समशीतोष्णत्वात् वातावरणं सर्वथा आनन्दप्रदं भवति । 'दीपावली' उत्सवः सर्वेषामपि प्रमोदाय सम्भवति ।
अभिनन्दनम् - दीपावल्याः आगमनात् पूर्वमेव गृहाणि आपणानि च सुधारसैः विलिप्यन्ते, गोमयेन च स्वच्छानि, शुद्धानि, निर्मलानि च क्रियन्ते । दीपावल्याः पूर्व त्रयोदश्यां धन्वन्तरिजयन्ती सम्पद्यते । अस्मिन् अवसरे वैद्याः भगवतः धन्वन्तरेः पूजां कुर्वन्ति । चतुर्दश्याम् यमदीपदानम् भवति । अमावस्यायां मुख्योत्सवः 'दीपावली' सोल्लासं मन्यते । प्रतिपदायां गोवर्धनपूजा एवं द्वितीयायां भ्रातृद्वितीया उत्सवो जायते ।
       अस्मिन् दिने गृहेषु विविधव्यञ्जनानि निर्मीयन्ते । गृहा आपणानि च अलङ्क्रियते । रात्रौ सबान्धवा: सर्वे जनाः धनेश्वरी देवीीं महालक्ष्मीं पूजयन्ति । लाजा: मिष्टान्नानि च देव्या: प्रसााादं मत्वा जना: भक्षयन्ति भोजयन्ति च । अत्र आबालवृद्धा: अतितरां मोदन्ते।
समागताः दोषाः- अस्मिन् महामहनीये महोत्सवे एक: दोष: अपि स्थानं कृतवान्् । यत: जनाः लक्ष्मीं अभिनन्दितुं द्यूतक्रीडामायोजयन्ति । केचित् विजेतारो  भूत्वा सुखमनुभवन्ति केचिद् तु सर्वस्वम् अपहाय भिक्षुका: भूत्वा  यावज्जीवनम् महद्दु:खमनुभवन्ति । एष एक एव दोषः महाननर्थकरः । वयमीश्वरं प्रार्थयामः यत् सः सर्वेभ्य: सद्बुद्धिं दद्यात् येन सर्वे द्यूतक्रीडनं परित्यज्य इमम् उत्सवं ससुखमभिनन्देयु: ।

भारतवर्षम् (अस्माकं देश:, भारतदेशः)

भूमिका- भारतदेशः एक महान् देशः अस्ति । अति विस्तृतोऽयं देशः काश्मीरत: कन्याकुमारी पर्यन्तम् शोभते । कविभिः महर्षिभिः विद्वद्भिः देशीयैः विदेशीयैश्च पुरुषैः भारतदेशः बहुप्रशंसितः। वस्तुतः देशोऽयं वर्तेऽपि प्रशस्य एव ।

विस्तार:- अस्य देशस्य उत्तरस्यां दिशि पर्वतानां राजा हिमालयः शुभ्रकिरीटः इव शोभते । दक्षिणस्यां दिशि च रत्नाकरः अस्य चरणौ प्रक्षाल्य आत्मानं धन्यं विधत्ते । अत्र अनेका नद्य: सहनद्यश्च यथा- ब्रह्मपुत्र, गंगाड़ा़़ा, यमुना, सिन्धु, कावेरी, नर्मदाद्याः अस्य देशस्य हृदयं सरसं कुर्वन्ति।
     अस्य देशस्य प्राकृतिकी शोभा अनुपमा वर्तते । अत्र षण्णामऋतूणां सुन्दरः क्रम: अस्ति । षड्ऋतव: भारतभुवमलङ्कर्तुं क्रमशः आयान्ति अन्येषु देशेषु षड्ऋतव: न भवन्ति इदं तु भारतस्यैव वैशिष्ट्यम् अस्ति यत् अत्र प्रकृतिनटी सदैव नानारूपधरा नरीनृत्यति । वसन्तर्तुः तु अत्र आगत्य भुवम् इत्थमलङ्करोति यत् भूमिः नवोढेव राजते ।
    अयमेव सः देश: यत्र वेदाः प्रादुर्भूताः। चत्वारो वेदाः अपौरुषेयाः सन्ति । वेदाः विश्वसाहित्ये प्राचीनतमाः सन्ति । अत्रत्यानि दर्शन-ज्योतिरायुर्वेदादीनि विश्वस्य प्राचीनतमानि साहित्यानि सन्ति ।
उपसंहारः- अधुनाः अयं देश: स्वाधीनः। वयं भारतीयां स्वाधीनाः। वयं स्वदेशस्य गौरवसंरक्षणाय सदैव तत्पराः स्मः। स्वदेशस्य प्राचीनतमा संस्कृतिं संरक्षितुं सभ्यतां च परिवर्द्धितुं वयं कटिबद्धा स्मः। अस्य देशस्य सुगौरवम् अद्यापि सुदूरम् प्रसृतम् ।
"वयं स्वदेशभूमिं मातरं मत्वा पूजयामः।"


सदाचारः

शीलं परंभूषणम्, आचारः परमो धर्म: ।

भूमिका- सत् आचरणमेव सदाचारः कथ्यते । यथा सत्पुरुष: आचरन्ति तथैव आचरण अपि सदाचार उच्यते । सामाजिकोत्थानाय सदाचारस्य महती आवश्यकता वर्तते ।सदाचारेण हीनो जनः सर्वत्र पशुतुल्यः भवति। सदाचारपालनेन एव श्रीरामः मर्यादा पुरुषोत्तमोSभवत्। सदाचारेण एव महर्षिः दधीचिः गान्धि महोदयश्च यशः शरीरेण अद्यापि जीवितः। सदाचारिणः सर्वत्र आदरं लभन्ते। सदाचारस्य महिमानं वर्णयितुं कोSपि न शक्नोति।सदाचारसंपन्नः मानवः सदा सुखी भवति, अन्येभ्यः अपि सुखं ददाति। जीवनस्य सर्वेषु क्षेत्रेषु सः यशः प्राप्तुं समर्थः भवति। सदाचार पालनेन एव सः भवसागरं तरितुं समर्थो भवति। दुराचरणेन मानवः न सुखं लभते न च साफल्यम्। सर्वे च तं निन्दन्ति एव।  अतोSस्माभिः सर्वतोभावेन सदाचारः पालनीयः। शारीरिकी, सामाजिकी च उन्नति: भवितुं शक्नोति । मनुष्यस्य उत्तमताया अधमतायाः वा सूचकः तस्य आचार एवं भवति। लोके सदाचारी मानव एव सम्मानं लभते । आचारविहीनस्तु कदापि सम्मानं न लभते । आचारहीनाय तु सर्वं एव असूयन्ति । तं प्रति कस्यापि हृदये श्रद्धा स्नेहो वा न भवति । सदाचारी जन: लोके दीर्घायु: भवति ईप्सिताः प्रजाः च लभते, लक्ष्मीं यशश्च प्राप्नोति । उक्तञ्चापि -
सर्वलक्षणहीनोऽपि यः सदाचारवान् नरः ।
अनसूयुरजिहाश्च शतं वर्षाणि जीवति ॥


उपसंहार:- मूर्खाणामेव जीवनं सदाचारविहीनं भवति। सदाचारस्तु मानवस्य अलौकिको गुणः। अस्माकं देशोन्नतिः तदैव सम्भवा यदा अत्रत्या: नागरिकाः आचारवन्त: भवेयु:।अस्माभि: सदाचार: सप्रयत्नं पालनीय: रक्षणीयश्च ।  अत: सर्वदा ज्येष्ठानां, वृद्धानां च आदर: करणीयः, ज्येष्ठाः अपि बालैः छात्रै: सह स्नेहेन व्यवहारं कुर्वन्तु। बालकानां जीवननिर्माणाय सदाचारस्य शिक्षा अनिवार्या भवेत्।

कोई टिप्पणी नहीं:

शुकनासोपदेश प्रश्नोत्तरी

नोटः- यह सभी प्रश्न किसी न किसी प्रतियोगी परीक्षाओं में पूछे गये हैं । प्रश्न 1 - बाणभट्टस्य गद्ये रीतिरस्ति - पञ्चाली प्रश्न 2- शुकनासोपदेश...