रविवार, 30 मई 2021

धर्मो रक्षति रक्षितः

       ध्रियतेऽनेनेति धर्मः । येन नियमसमूहेन प्रजाया: धारणं क्रियते स धर्मः इति महर्षेः व्यासस्य मतम् । यथा -
     
      धारणाद् धर्म इत्याहुर्धर्मो धारयति प्रजाः ।
      यत्स्याद् धारणसंयुक्तं स धर्म इति निश्चयः ॥

  महर्षिः कणादो धर्मस्य सुविशदं लक्षणं कृतवान्— 
           यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः ।

  अर्थात् यद्वारा सांसारिकविकासस्य तथा पारलौकिकस्य कल्याणस्य सिद्धिः भवति स 'धर्मः' इति पदेन व्यपदिश्यते । तस्य च धर्मस्य दश लक्षणानि प्रोक्तानि धर्मग्रन्थेषु । यथा -

         धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
         धीविद्यासत्यमक्रोधो दशकं धर्मलक्षणम् ॥

     यो धर्म प्रति समादरवान् भवति, धर्म रक्षति, धर्मोऽपि तस्यष सुरक्षां करोति । कैकेय्याः वचनानुसारं चतुर्दशवर्षाय वनं प्रव्रजन्तं रामं तन्माता कौशल्या ब्रूते स्म- वत्स ! यं धर्मं त्वं प्रेम्णा नियमेन च परिपालयसि स धर्मः एव त्वां परिपालयतु -

        यं पालयसि धर्मं त्वं प्रीत्या च नियमेन च ।
        स वै राघवशार्दूल ! धर्मस्त्वामभिरक्षतु ॥

    वसुधाधिपत्यं हि वायुप्रेरितमेघवच्चञ्चलं वर्तते । विषयास्तावदेव सुखयन्ति । प्राणाः तृणाग्र-संस्थित जलविन्दुवच्चंचलाः सन्ति । मरणानन्तरं परलोकयात्रायां केवलं धर्म एव मित्रं भवति । यथोक्तं सुभाषिते -
          धर्मः सखा परमहो परलोकयाने ।

    भगवान् विश्वभावनोऽपि यदा लोके धर्मस्य ह्रासो भवति, अधर्मस्य च अभ्युत्थानं जायते तदा सज्जनानामुपरि अनुग्रहं कतु दुष्टानां च निग्रहं कर्तुं लोके धर्मस्य स्थापनायैव अवतारं गृह्णाति । यथोक्तं श्रीमद्भगवद्गीतायाम् -

       यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
      अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥
       परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
       धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥

     'धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः' इत्यस्य रामायणे महाभारते पुराणेषु अन्येषु च काव्यनाटकादिषु प्रचुराणि उदाहरणानि समुपलभ्यन्ते । यो यादृक् पुण्यं पापं वा करोति स तदनुरूपमेव फलं इति धर्मग्रन्थानां सुदृढं मतम् ।
     धर्मपरिपालनस्य सुखान्तं महिमानं ज्ञात्वैव विदुरो युधिष्ठिरं धर्मस्य परिपालनाय समुपदिशति स्म यत् कदाचिदपि कामात्, लोभात्, भयात्, प्राणविपत्तिकारणाद् वा धर्मं न परित्यजेत् । यथा -

        इदं च त्वां धर्मपरं ब्रवीमि
                  पुण्यं पदं तात् ! महाविशिष्टम् ।
       न जातु कामान्न भयान्न लोभाद्
                  धर्मं त्यजेज्जीवितस्यापि हेतोः ।।

       रावण कंस दुर्योधन- नरकासुरादयो धर्मंहननाद् अपयशभाजो भूत्वा तादृशं मरणं प्रापुः । अपरे च युधिष्ठिरादयो धर्म रक्षित्वैव कीर्तिभाजो भूत्वा शुभां गति लोकसमादरं च प्राप्तवन्तः । अतः सम्यगेवोक्तं – 'धर्मो रक्षति रक्षितः' ति ।

कोई टिप्पणी नहीं:

शुकनासोपदेश प्रश्नोत्तरी

नोटः- यह सभी प्रश्न किसी न किसी प्रतियोगी परीक्षाओं में पूछे गये हैं । प्रश्न 1 - बाणभट्टस्य गद्ये रीतिरस्ति - पञ्चाली प्रश्न 2- शुकनासोपदेश...