'आचार्यदेवो भव' इति वेदवचनम् । आचार्यं देवबुद्ध्या सम्मानय न तु मनुष्यबुद्ध्येत्यस्याभिप्राय: । माता जन्मदातृत्वात् पालनात् पोषणाच्च पूजनीया । पिता हितचिन्तनात् सुतार्थं व्ययकर्तृत्वाच्च पूजनीय: । परम् आचार्यो ज्ञान-जन्मदातृत्वात् पूजनीयतमः । आचार्यो ज्ञानजलेन शिष्याज्ञानमलं प्रक्षाल्य तं संस्कारसम्पन्नं विदधाति । पुरा आश्रमभ्यवस्थायाम् आचार्यः शिष्यमुपनीय वेदमध्यापयति स्म । आचार्येण उपनीतम् अध्येतारं शिष्यं द्रष्टुं देवाः आयान्ति स्म । यथोक्तं अथर्ववेदे -
आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भमन्तः ।
तं रात्रीस्तित्र उदरे बिर्भात तं जातमभियान्ति देवाः ॥
आचार्यस्य कोऽभिप्राय इति जिज्ञासायाम् “आचार्यः कस्मात् ? आचार्य आचारं ग्राह्यति" इति निरुक्ते यास्कस्य निर्वचनम् । मनुस्मृति कारो मनुराचार्यं ब्रह्मस्वरूपं मनुते -
“आचार्यो ब्रह्मणो मूर्तिः” इति ।
भारतीय संस्कृतौ आचार्यस्योत्कृष्टं स्थानमस्ति । सर्वविद्याव्रतस्नात आचार्य: स्वाश्रमगतान् शिष्यान् अध्यापयति स्म । अथ ये गृहं गृहं गत्वा अध्यापयामासुस्ते उपाध्यायाः प्रकीर्तिताः । आचार्य एव गुरुशब्देन व्यपदिश्यते । पराविद्याया अपराविद्याया वा गुरुः सर्वथा वन्दनीय: -
एकमप्यक्षर यस्तु गुरुः शिष्ये निवेदयेत् ।
पृथिव्यां नास्ति तद्रव्यं यद् दत्त्वानृणो भवेत् ॥
अज्ञानान्धकारे निमग्नस्य शिष्यस्य ज्ञानप्रकाशेन यो नेत्रे समुन्मीलयति स गुरुः प्रणम्य: समर्चनीयश्च । अत उक्तम् -
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥
जगति यः प्रज्ञाप्रभवो विकासो दृश्यते स गुरूणां कृपयैव सम्पन्नः । आध्यात्मिकज्ञानप्राप्तये यथा गुरोरावश्यकता भवति तथैव भौतिक ज्ञानोपलब्धयेऽपि गुरोरावश्यकता जागति । यथा प्राचीनकाले वशिष्ठयाज्ञवल्क्यादीनां ऋषिपरम्परायाम् आध्यात्मिकविद्यायाः प्रकाशः संसारेणोपलब्धः, यथा कण्व वरतन्तु-सान्दीपनि प्रभृतीनाम् आचार्याणामाश्रमेषु छात्राः बहुविधा विद्याः समधीत्य जगति विद्यायाः प्रकाशमकुर्वन्, यथा परशुराम-द्रोणाचार्यादिभ्यः आचार्यप्रवरभ्यो धनुर्विद्यामवाप्य भीष्म-कर्ण भीमार्जुनादयः त्रिभुवनविख्याता अभूवन् तथैवेदानीमपि प्रकारान्तरेण शिक्षाक्रमोऽयं विद्यालयेषु च संचरन्नास्ते । अधुनाप्याचार्याणां गुरुजनानां नव-नवानुसन्धानानां लाभो विद्यार्थिभिः प्राप्यते । गुरुभ्यो विद्याः सम धीत्याद्यापि विद्यार्थिनो महत्सु पदेषु नियुक्ताः स्वजीवनं सफलं कुर्वन्ति ।
ज्ञान-विज्ञानानां का सा शाखा या गुरुजनान् विनैव पल्लविता भवेत् ? अतो मनीषिभिः गुरोस्तुलना न केवलं ब्रह्मणा विष्णुना, महेशेनैव वा कृता, अपि तु तस्य महत्त्वं परब्रह्मसन्निभं स्वीकृतम् । यथा-
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरु: साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥
अधुनापि ज्ञानगरिम्णा मण्डितानां गुरुणां, सुस्निग्धानां विनय शीलानां शिष्याणां चाभावो नास्ति । राग-द्वेषपराङ्मुखः शुकदेवोऽपि सम्यगुपदेशाय शिष्ये विनम्रताया आवश्यकतां स्वीकरोति श्रीमद् भागवते -
ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ।
अध्यापनवेलायां मन्दबुद्धीनां छात्राणां गुरुजनैः कृतः तिरस्कारोऽपि छात्राणां क्षेमाय कल्पते । पण्डितराजस्य जगन्नाथस्य एतद्भाव प्रकाशकं पद्यमवलोक्यताम्-
गीर्भिर्गुरूणां परुषाक्षराभिस्तिरस्कृता यान्ति नरा महत्त्वम् ।
अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति ॥
लोकभाषास्वपि गुरुजनमहत्त्वपरकाणि प्रचुराणि पद्यानि विराजन्ते । समावर्तनसंस्कारसमये सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः । इत्याद्युपदिशन्नाचार्यः "यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि, नेतराणि" इत्युपदिशति । आचार्यपरम्परां विहाय ईदृशी स्पष्टवादिता क्व प्राप्स्यते ? धन्येयं आचार्य-सरणिः, यस्या दिव्यत्वं वेदेऽपि स्वीकृतम् --'आचार्यदेवो भव' इति ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें