रविवार, 30 मई 2021

सन्तोषः परमं सुखम्

        सन्तोष एव पुरुषस्य परं निधानम् ।
     योगदर्शने महर्षिणा पतञ्जलिना सन्तोषस्य नियमेषु पाठः कृतः - 'शौच-सन्तोष तपः-स्वाध्यायेश्वरप्रणिधानानि नियमाः' । योग सूत्रभाष्ये च श्रीव्यासः 'सन्तोष: सन्निहितसाधनादधिकस्यानु-पादित्सा' इति सन्तोषलक्षणं कृतवान् । समुपलब्धेषु स्वेषु साधनेषु संतुष्टिः, तदतिरिक्तेषु परस्य वस्तुषु अभिलाषाभाव एव सन्तोषः । 
     सर्वो जनः सुखार्थमेव तेषु तेषु कर्मसु व्यापृतो भवति । नवनवानां वस्तूनां प्राप्तौ सुखमनुभवति । परन्तु यदवधि जनस्य मानसे नव नवेषु वस्तुषु अभिलाषो जागर्ति तदवधि स तृष्णापराधीनो वास्तविकं सुखमनुभवितुं नैव शक्नोति । वास्तविकं सुखं तु सन्तोष एव विद्यते । यथोक्तं सुभाषिते -

        सन्तोषं परमास्थाय सुखार्थी संयतो भवेत् ।
        सन्तोषमूलं हि सुखं दुःखमूलं विपर्ययः ॥

   यावज्जनः सन्तोषं हृदये न करोति तावन्नव-नवाभिलाष-मृगमरीचिकायाम् अतृप्तः सुखं न प्राप्नोति । यतो हि यावदेका मन:कामना पूर्णा भवति तावद् द्वितीया समुत्पद्यते । यावद् द्वितीया पूर्णा भवति तावत् तृतीया सञ्जायते । एवं हि सन्तोषस्याभावे तृष्णापरवशः सुखाये चेखिद्यमानः सुखसातत्यं नैव प्राप्नोति । अतः सन्तोषजलेन तृष्णावह्नि प्रशमनं परमम् आवश्यकम् । यथोक्तम् -

      या दुस्त्यजा दुर्मतिभिर्या न जोर्यति जीर्यताम् ।
      तां तृष्णां संत्यजन् प्राज्ञः सुखेनैवाभिभूयते ॥

    कामानामुपभोगेन कामो न शाम्यति, अपि तु यथा हविषा अग्निः प्रवर्धते तथैव भूयोभूयः उपभोगेन कामः संप्रवर्धते । विषयेऽस्मिन् मनुः प्रबोधयति -
        न जातु कामः कामानामुपभोगेन शाम्यति ।
        हविषा कृष्णवत्मैव भूय एवाभिवर्धते ॥

        सन्तोषाभावे मानवस्य यादृशी दशा भवति तस्याश्चित्रं सम्यगेव चित्रितं मनुस्मृतिकारेण । यथा -
        इच्छति शती सहस्रं सहस्री लक्षमीहते ।
        लक्षाधिपश्च राजत्वं राज्यस्थ: स्वर्गमोहते ॥

    श्रूयते पुरा किल चक्रवर्ती सम्राड् ययातिः स्वपुत्रस्य पुरुनामधेयस्य वयसापि देवयानीशमिष्ठाभ्यां सह वनेषूपवनेषु कमनीयेषु पर्वतप्रान्तेषु रममाण: कामानामन्तं न जगाम।
      सन्तोषपीयूषपानतृप्तानां शान्तमानसानां सुखस्य तुलनां कर्तुं धन लुब्धा इतश्चेतश्च धावन्तो वराकाः धनिकाः न शक्नुवन्ति । सुष्ठूक्तं सुभाषिते -
         सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसाम । 
         कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥

आत्मनि सन्तुष्टः सततं प्रमोदते । यथोक्तम् -
        सर्वदा सम्पदस्तस्य सन्तुष्टं यस्य मानसम् ।
        उपानद्गूढपादस्य ननु चर्मावृतैव भूः ॥

     नीतिविद्भिरन्यैरपि विद्वद्भिः सुविचार्य प्रोक्तं यत् कलत्रे भोजने धने च त्रिषु संतोष: करणीयः, परन्तु अध्ययने जपे दाने च त्रिषु कदाचिदपि सन्तोषो न करणीयः । गीतायामपि कथितं यत् -

      यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत् ।
      यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥
एतत्सर्वं मीमांसमानेन चाणक्येन समुदीरितम् -

     असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश्च महीभुजः ।
     सलज्जागणिका नष्टा-निर्लज्जाश्च कुलाङ्गनाः ॥

     परन्तु इमान्यपवादवचनानि । एतेषां वचसां क्वाचित्की प्रवृत्तिः। परमार्थंतः सन्तोषसन्निभमन्यत् सुखं नैव वर्तते । सर्पाः पवनं निपीयापि दौर्बल्यं न भजन्ते । शुष्कप्रायाणि तृणानि भुक्त्वा वनगजा बलवन्तः एव । मुनयः कन्दे: फलैरेव वृत्तिमुपकल्प्य परमाः सिद्धोः अवाप्नुवन्ति । एवं हि सिद्ध्यति यत् सन्तोष एव पुरुषस्य परं निधानं वर्तते । यथोक्तं नीतिशतके भर्तृहरिणा -
 
        सर्पाः पिबन्ति पवनं न च दुर्बलास्ते
                शुष्कैस्तृष्णैर्वनगजा बलिनो भवन्ति ।
       कन्दैः फलैर्मुनिवरा गमयन्ति कालं
                सन्तोष एव पुरुषस्य परं निधानम् ॥

कोई टिप्पणी नहीं:

शुकनासोपदेश प्रश्नोत्तरी

नोटः- यह सभी प्रश्न किसी न किसी प्रतियोगी परीक्षाओं में पूछे गये हैं । प्रश्न 1 - बाणभट्टस्य गद्ये रीतिरस्ति - पञ्चाली प्रश्न 2- शुकनासोपदेश...