यद् यादृशं वर्तते तस्य तादृक् कथनं स्वीकरणं वा सत्यं कथ्यते । धर्मे सत्यस्य सर्वोत्कृष्टं स्थानम् अस्ति । महाभारते महर्षिणा व्यासेन धर्मस्याङ्गानां मध्ये सत्स्य सर्वश्रेष्ठता प्रतिपादिता-
न हि सत्यसमो धर्मो न सत्याद् विद्यते परम् ।
न हि तीव्रतरं किञ्चिदनृतादिह विद्यते ॥
जगतीतले सर्वेषु सत्यस्य महत्त्वं सर्वोपरि स्वीकृतम् । सर्वदा सत्य भाषणेन वाण्याम् अप्रतिहता शक्तिः समुत्पद्यते इति महर्षिणा पतञ्ज लिना योगसूत्रे स्वीकृतम् । यथा -
“सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ।”
मनुस्मृति मनुना दशके धर्म लक्षणे सत्यं परिगणितम् -
धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥
महर्षिः पतञ्जलिः सत्यं यमानां मध्ये परिगणितवान् -
“अहिंसा सत्यमस्तेय ब्रह्मचर्यापरिग्रहाः यमाः । ”
अस्माकं देशे सत्यभाषणस्य सत्याचरणस्य च बहूनि निदर्शनानि सन्ति । महाराजो हरिश्चन्द्रः दक्षिणां दातुं वाराणस्याम् आत्मानं चाण्डालहस्ते, पत्नीं शव्यां पुत्रं रोहितं च मालाकारहस्ते विक्रीतवान्। न केवलम् एतदेव, अपि तु मृतस्य पुत्रस्य रोहितस्य अर्ध शववस्त्र चाण्डाल-निर्देशानुसारं गृहीत्वेव श्मशानभूमौ शवदाहस्य अनुमति दत्तवान् । तस्य तादृशीं सत्ये व्यवस्थितिं दृष्ट्वा भगवान् दर्शनं ददौ । तस्य पुत्रं जीवयामास । पुनः राज्यासीनं कृतवान् । अन्ते च सत्यपालन प्रभावात् स्वर्गे शाश्वतीम् अवस्थितिं लब्धवान् ।
एवमेव महाराजो दशरथ: सत्यं प्रमाणीकृत्य कैकेय्ये पूर्वप्रतिश्रुतं वरद्वयं ददौ । तदर्थं प्राणेभ्योऽपि प्रियतरं पुत्रं रघूत्तमं रामं वनं प्रेषितवान् प्राणाँश्च जहौ, परन्तु सत्यं न परित्यक्तवान् ।"
महाराजो युधिष्ठिरो द्यूते पराजितः सत्यनियन्त्रितः शक्तः सन्नपि द्वादशवर्ष वनवासावधौ एकवर्षस्य च अज्ञातवासावधौ महान्ति कष्टानि सोढवान्, परन्तु सत्यवचनस्थ परित्यागं न कृतवान् । धर्मस्य रक्षा सत्येनैव भवति । यथोक्तम् -
"सत्येन रक्ष्यते धर्मः" इति ।
शाश्वतस्य सुखस्योपलब्धये दृढतया सत्यस्य परिपालनं कर्तव्यम् । यतो हि सर्वत्र सत्यस्यैव विजयो भवति । अनाम् अन्ततः पराजयते । यथोक्तम् उपनिषदि -
“सत्यमेव जयते नानृतम्” इति ।
सत्यभाषण-नियमेन मानवस्य सर्वे दोषा: विलीयन्ते । स्तेयादिषु
दुष्कर्मसु प्रवृत्तिरेव न भवति । अतः प्राचीनकाले समधीतविद्यानां छात्राणां समावर्तन संस्कारावसरे आचार्याः सर्वप्रथमं सत्यभाषणाय उपदिशन्ति स्म । यथा -
"सत्यं वद । धर्मं चर इत्यादि ।
सत्यभाषणं सर्वोत्तमो धर्मो वर्तते । परम् अप्रियस्य सत्यस्य भाषणम् मनुः निषेधति -
सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात् सत्यमप्रियम् ।
प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥
महाभारते सत्यस्य महिमानं प्रतिपादयन् भगवान् व्यास: ब्रूते यद् अश्वमेधानां सहस्रमपि सत्येन तुल्यं न भवति । सर्वेषां वेदानामध्ययनम्, सर्वेषां तीर्थानामवगाहनम् अपि सत्यभाषणसन्निभं न भवति । यथोक् महाभारते -
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥
सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् ।
सत्यं च वचनं राजन् समं वा स्थान्नवा समम् ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें