महाभारतयुद्धे यदा कौरव-पाण्डवानां सेने सम्मुखीने आस्ताम्, तदोभयोः सेनयोर्मध्ये स्वसम्बन्धिनो वीक्ष्य अर्जुनो दयाप्लुतः सन् युद्धनिश्चयं शिथिलीकृत्य रथोपस्थे स्थितवान् । तथाविधं विषीदन्त-मर्जुनं कर्ममार्गं प्रति प्रेरयन् भगवान् श्रीकृष्णो ब्रवीति स्म -
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥
जनकादयो ब्रह्मज्ञानिनोऽपि कर्ममार्गं न त्यक्तवन्तः, अपि तु ते कर्ममार्गाश्रयेणैव सिद्धि प्राप्तवन्तः । लोकसंग्रहदृष्ट्यापि कर्मपरिहारो न श्रेयस्कर: । लोकयात्रापि कर्म विना न सिद्धयति । यथा -
कर्मण व हि संसिद्धिमास्थिता जनकादयः ।
लोकसंग्रह मेवापि सम्पश्यन् कर्तुमर्हसि ॥
कीदृशं कर्म कर्तुं योग्यं भवति कीदृशं च परिवर्जनीयमिति विचार्यैव कर्मक रणीयम् । कर्मण: स्वरूपमनभिज्ञाय कर्मकरणेन महान् दोषो भवितुमर्हति । संसारे कर्म॑णां मध्ये वहून्येतादृशानि कर्माणि सन्ति येषां सम्पादनं न श्रेस्यकरम्। अत: 'कार्यं कर्म समाचार' इति वचनानुसार करणी यस्य कर्मणः सम्पादनं करणीयम् । अथ किं कर्म करणीयम् भवतीति जिज्ञासायां गीतायाः निम्नलिखितः श्लोको ध्यातव्य:-
तस्माच्छास्त्रं प्रमाणं च कार्याकार्यव्यवस्थितौ ।
ज्ञात्वा शास्त्रविधानेन कर्म कर्तुमिहार्हसि ॥
शास्त्रेषु यत्कर्म प्रशस्तमभिहितं तदेव करणीयम् । किं करणीयं किम् अकरणीयम् इति विषये विद्वांसोऽपि मोहमापन्नाः सन्ति । अत एव पूर्वैः पूर्वतरैः कृतानि कर्माणि शास्त्र पुरस्कृत्य कर्तव्यानि । यथोक्तम्-
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।
कुरु कमँव तस्मात्त्वं पूर्वैः पूर्वतरैः कृतम् ॥
परन्तु यत् कर्म सहजं वर्तते तस्य सदोषस्यापि कर्मणः परिवर्जनं नोचितम् । यतो हि यथाग्नी धूमवत्वं भवत्येव तथैव कर्मस्वपि दोष राहित्यं नास्ति । अतः कुलपरम्परानुप्राप्ते कर्मणि दोषो नास्ति -
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥
निष्कामदृष्ट्या कर्मकरणं श्रेष्ठतमम् । आसक्ति विहाय, कर्मणां फलं परमात्मने समर्प्य, कर्मकरणेन जनः तथैव कर्मफलेन लिप्तो न भवति यथा जलजं जले स्थितमपि जलेन न लिप्यते । यथा--
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥
परमात्मना यथा सर्वं जगदिदं सृष्टं तथा कर्माण्यापि तेनैव सृष्टानि । 'कर्म ब्रह्मोद्भवं विद्धि' इति गीतावचनमत्र प्रमाणम् । अतो यस्य यत् कर्म वर्तते तेन तत् कर्म करणीयम् । स्वस्मिन् स्वस्मिन् कर्मणि निरतो मनुष्य: सफलतां लभते । यथोच्यते-
स्वे स्वे कर्मण्यभिरतः संसिद्धि लभते नरः ।
कर्मफलत्यागपूर्वकं ये जनाः कर्माणि सम्पादयन्ति, ते परमात्मनोऽर्चनं कुर्वन्ति । इदं कर्मार्चनं नाम । कर्मार्चनेन मानवः सिद्धि प्राप्नोति -
स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः ।
वेदाज्ञानुसार केनापि जनेन कर्माणि कुर्वता एव शतवर्षपर्यन्तं स जीवितुम् अभिलाष: करणीयः । यश्च जनः कर्मानुष्ठानं न चिकोर्षति स लोकेऽस्मिन् जीवितुम् मा इच्छेत् । यथा-
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।
कर्मलग्नः सर्वत्र समाद्रियते । कर्मशीलः स्वस्य, स्वपरिवारस्य, स्वसमाजस्य, राष्ट्रस्य, विश्वस्य च समुन्नयनं कर्तुं पारयति । कर्मशील कर्मशालितया महान्ति पदान्यधितिष्ठति उच्चोच्चै: पुरस्कारैश्च पुरस्क्रियते ।
जापानादयो लघवोऽपि देशाः कर्मशीलत्वाद् महत्त्वपूर्णाः सन्ति जगति । कर्मशीलतयैव अमेरिका सोवियतसंघौ विश्वे शीर्षस्थौ स्तः, शत्रुतया मित्रतया वा सर्वान् देशान् प्रभावयतः । ततः सर्वासामुन्नतीनां मूले कर्मैव विद्यते ।
सांसारिककर्मापि अनासक्तभावनया ईश्वरार्पणभावनया च यदि सम्पाद्यते तदा मानवस्यैहलौकिकं पारलौकिकं च कल्याणं भवति । अयमेव 'कर्मण्येवाधिकारस्ते मा फलेषु कदाचन' इति गीतावचनस्याभिप्रायः ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें