'परेषाम् उपकार:' परोपकारः । संसारे परोपकारस्य महान् महिमा। ब्रह्मा संसारस्य विनिर्माणे नग-नदी वृक्षादीन् रचयित्वा तेषां माध्यमेन नन्दिवं परोपकारकरणं स्मारयति । नगेषु ये खनिजादिपदार्थाः सन्ति तेः परेषाम् उपकारो भवति । नदी रात्रिन्दिवं प्रवहन्ती स्वजलेन परोपकारं विदधाति । वृक्षाः स्वकीयैः फलैः काष्ठः छायादिभिः महान्तम् उपकार कुर्वन्ति सृष्टे: । जलदा अपि वर्षणेन बहूपकुर्वन्ति जीवलोकस्य। अत उक्ततं -
पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति शस्यं खलु वारिवाहा:
परोपकाराय सतां विभूतयः ॥
परोपकारस्य मानवजीवने परमं महत्त्वमस्ति। महाराजः शिवि! कपोतस्य रक्षायै परोपकारभावनया श्येनरूपधराय देवराजाय स्वकोयस्य शरीरस्य मांसं दत्तवान् । महर्षि दधीचिरपि देवद्रोहिणो वृत्रासुरस्य वधाय देवराजेन याचितः सन् अस्थिप्रदानाय स्वशरीरं तत्थाज | याचितः एवमेव नागानन्दनाटकस्य नायको जीमूतवाहनः गरुडाद् भीतान् नागान् त्रातुं परोपकारभावनया प्रेरितः गरुडाय निजं शरीरं प्रायच्छत् । अथ च गरुडोऽपि जीमूतवाहनस्य तथाविधेन परोपकारेण प्रभावितः नागानां वधं त्यक्तवान् । मानवजीवनस्य परोपकारः खलु अलंकारः । परोपकारं विना मानवजीवनं न शोभते । तद्यथा--
श्रोत्रं श्रुतेनैव न कुण्डलेन
दानेन पाणिर्न च कङ्कणेन ।
विभाति काय: करुणापराणां
परोपकारैर्न तु चन्दनेन ॥
कविकुलगुरुः कालिदासोऽपि स्वकीये नाटकेऽभिज्ञानशाकुन्तले परोपकारं महापुरुषाणां स्वभावं समर्थंयन्नुक्तवान् -
भवन्ति नम्रास्तरवः फलोद्गमै-
र्नवाम्बुभिर्भूरिविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः
स्वाभव एवैष परोपकारिणाम् ॥
व्यासविरचितेषु अष्टादशपुराणेषु सर्वासां कथानामयमेव सारो यत् परोपकारसम्पादनेन पुण्यं भवति । अथ च परेषां पीडनेन पापं संजायते -
अष्टादशपुराणेषु व्यासस्य वचनद्वयम् ।
परोपकारः पुण्याय पापाय परपीडनम् ॥
परोपकारमाश्रित्य जनानां तिस्रः श्रेणय: प्रतिपादिताः । ते परोपकारिणः प्रथमश्रेण्यां वर्तन्ते, ये स्वार्थं परित्यज्यापि परोपकारं साधयन्ति अथ च ये स्वार्थम् अलोपयन्तः परोपकारं कुर्वन्ति, ते परोपकारिणः द्वितीय श्रेण्यां वर्तन्ते । ये च स्वार्थसाधनाय परार्थं निघ्नन्ति ते जना: राक्षससन्निभाः सन्ति । ये च निरर्थकं पराथं विलोपयन्ति ते खलु राक्षसेभ्योऽप्यधमाः वर्तन्ते यथाह आचार्यः भतृहरिः-
एते सत्पुरुषाः परार्थघटका: स्वार्थं परित्यज्य ये
सामन्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।
तेऽमी मानवराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये
ये निघ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥
अन्याः अपि प्रचुराः सूक्तयः सन्तिः, यासु परोपकारमहिमा प्रति 'पादितः । सहस्राधिकानि च कथानकानि सन्ति येषु परोपकारः एव प्रतिपाद्यविषयः । वस्तुतः जगदिदं परोपकार-भावनयैव स्वर्गोपमं भवितुं शक्नोति । अतः परोपकारः सततं साधनीयः एव ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें