रविवार, 30 मई 2021

सङ्घे शक्तिः कलौ युगे (एकता )

    कृतयुगे त्रेतायां द्वापरे च तादृशानां तपस्विनां बलधाम्नां च नामानि श्रूयन्ते ये तपसा बलेन च जगति अभीष्टानि प्राप्तुं सर्वान् विघ्नान् दूरयितुं च समर्था आसन् । अनर्थकारिणं शापेन निग्रहीतु सदाचारिणं विनयिनं चानुग्रहीतुं प्रभवोऽभूवन् । परमस्मिन् कलौ युगे तादृशानां सर्वशक्तिसम्पन्नानां महात्मनाम् अभाव एव । वर्तमानयुगे सङ्घशक्ते: फलं सुव्यक्तम् । यद्यपि सङ्घशक्तिः पूर्वयुगेष्वप्यासीत्, परन्तु सम्प्रति सङ्घशक्तेः आश्रयो विशेषेण फलदायकः ।

श्रूयते कश्चिद् वृद्धो विद्वान् स्वपुत्रान् परस्परं कलहायमानान् दृष्ट्वा भृशम् उद्विग्न आसीत् । अथ स मृत्युवेलाम् उपस्थितां दृष्ट्वा पुत्राणां पारस्परिककलहेन संतप्तस्तान् आकारयामास । आगतान् पुत्रान् स अङ्गुष्ठतुल्यपीनानि हस्तपरिमाणलम्बानि काष्ठान्यानेतुम् आदिष्टवान् । यदा ते तादृशानि काष्ठान्या नीतवन्तस्तदा वृद्धस्तानि काष्ठानि रज्ज्वा बधुमकथयत् । निबद्धानि तानि भङ्क्तमादिदेश । सर्वे पुत्राः त्रोटयितुम्
परमं प्रयत्नमकुर्वन् परं कोऽपि त्रोटयितुं न शशाक । अथ स वृद्धस्तानि काष्ठानि बन्धनविरहितानि कृत्वा एकैकं काष्ठं पुत्राणां हस्ते धृत्वा त्रोटयितुम् अकथयत् । तथा कृते सर्वे तनया: एकैकं काष्ठं त्रोटयित समर्था अभवन् । तदा पितोवाच - अपि युष्माभिरस्याशयोऽवगतः ? यथा यूयम् एकैकं काष्ठं भङ्क्तुं समर्था अभवत, किंतु तदेव काष्ठम् अपरैः काष्ठैः सह-निबद्धं भक्तुं न प्राभवत । एवमेव एकाकी जनः शत्रुभिः पराभवितुं शक्यते । सङ्घबद्धः स एव जनः शत्रुभिः अभिभवितुं न पार्यंते । अतो युष्माभिरेकतासूत्रे निबद्धैर्भूत्वा संसारकर्मसु प्रवर्तितव्यम् ।
      अल्पशक्तयोऽपि जना सङ्घशक्त्या प्रबला भवन्ति । सङ्घशक्तेः प्रबलतायै सङ्गतेः संवादस्य मनसां सामञ्जस्य च आवश्यकता अनिवार्या । यथोक्तं वेदे-

       संगच्छध्वं संवदध्वं सं वो मनांसि जानताम् ।
       देवा भागं यथा पूर्वे संजानाना उपासते ॥

     सङ्घशक्ते: शिक्षा प्रकृत्याः अपि ग्रहीतुं शक्यते । निर्बलैस्तृणैः विरचितया रज्ज्वा मत्ता गजराजा निबध्यन्ते यथोक्तम् -

       बहूनामप्यसाराणां समवायो हि दुर्जयः ।
       तृणेरावेष्ट्यते रज्जुयॅन नागोऽपि बध्यते ॥

श्लोकोऽयम् अन्यप्रकारेणापि पठितः । यथा-

      अल्पानामपि वस्तूनां संहतिः कार्यसाधिका ।
       तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः ॥

    एकैकया इष्टिकया भवनानि निर्मीयन्ते, सेतवो विरच्यन्ते, महान्तो बन्धाः निबध्यन्ते । एकैकेन विन्दुना घटाः पूर्यन्ते । एकैकेनान्नकणेन अन्नराशयः सञ्चीयन्ते ।

  भगवान् रामः सङ्घटनशक्तेर्महान् प्रयोक्ता आसीत् । सीतापहरणानन्तरं रावणस्य प्रतीकाराय स वनेचराणां वानराणां भल्लूकानाञ्चा महतीं सेनां सङ्घटितां कृत्वा प्रथमं दक्षिणपयोधौ अभूतपूर्वम् अद्भुत सेतुं कारयामास । ततो रावणस्य विशालां वाहिनीं विशालतरेण निजेन वानरभल्लूकमयेन सैन्येन मर्दयाम्बभूव। सङ्घशक्तेरिदम् अत्युत्कृष्टतमम् उदाहरणम् ।
       यदास्माकं देशे पारस्परिकेर्ष्याद्वेषभावै: “सङ्घे शक्ति: कलौ युगे" इति सिद्धान्तेऽनास्था जाता तदैवास्माकं देशव सिनः शत्रुभिः पराजिता तदाप्रभृत्येव भारतीयानां परतन्त्रतायाः प्रारम्भः प्रारब्धः ।

आंग्लानां शासनकाले भारतीयानां मानसेषु पुनः सङ्घशक्ति प्रति विश्वासः समुद्भूतः इयं सङ्घशक्तिः लोकमान्यतिलक गान्धि-जवाहर लाल-सरदारपटेल-लालालाजपतराय-प्रभृतिभिः नेतृभिः सुभाषचन्द्रबोस भगतसिंह चन्द्रशेखर 'आजाद' प्रभृतिभिः क्रान्तिकारिभिश्च वृद्धि नीता भारतं परतन्त्रतापाशाद् उद्धृतवती । इदानीमस्मदीयं दायित्वं यद् वयं सङ्घशक्तिद्वारा समुपलब्धं स्वातन्त्र्यं सावधानतया रक्षेम ।

स एवं परिवार, स एव ग्राम:, स एव देश: सर्वविधं सौख्यमवा प्नोति यः सङ्घशक्त महिमानं हृदये कृत्वा तदनुसारं जीवनचर्या स्थाप यति । सङ्घशक्तेर्लाभाः सर्वविदिताः । परन्तु अत्रेतद् ध्यातव्यं यदस्माभिः सत्कार्याणां कृते एव सङ्घशक्तेः प्रयोगः कर्तव्यः । यदि जनाः असत्कार्याय सङ्घशक्तेः प्रयोगं करिष्यन्ति तदा तस्या दुरुपयोगो भविष्यति । अतो विवेकपूर्वकमेव सङ्घशक्तिः प्रयोक्तव्या ।

कोई टिप्पणी नहीं:

शुकनासोपदेश प्रश्नोत्तरी

नोटः- यह सभी प्रश्न किसी न किसी प्रतियोगी परीक्षाओं में पूछे गये हैं । प्रश्न 1 - बाणभट्टस्य गद्ये रीतिरस्ति - पञ्चाली प्रश्न 2- शुकनासोपदेश...