वेद्यन्ते ज्ञायन्ते वा धर्मादिपुरुषार्थाः एभिरिति वेदाः । महर्षिणा दयानन्देन स्वकीयायां ऋग्वेदभाष्यभूमिकायाम् - विदन्ति, जानन्ति, विद्यन्ते, भवन्ति, सर्वा विद्या येर्येषु वा स वेदः इति प्रकारान्तरेण प्रमाणितम् । ज्ञानार्थकविद् धातो घञ् (अथवा अच्) प्रत्यययोगात् वेदपदं निष्पन्नं भवति यस्यार्थः 'ज्ञानम्' अस्ति । वेदा हि नानाविधज्ञानाधिष्ठानानि सन्ति । वेदा विश्वसाहित्यस्य आदिमाः ग्रन्थाः । ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदश्चेति चत्वारो वेदाः । चतुर्षु वेदेषु ऋग्वेद: प्राचीनतमः ।
'वेदोऽखिलो धर्ममूलम्' इति मनुस्मृतिप्रणेतुर्मनोर्वचनम्। धर्मस्य सत्यज्ञानस्य वा शाखानां मूलानि वेदेषु विद्यमानानि विद्यन्ते। वेदा अपौरुषेयाः सन्ति । यथा संस्कृतभाषायां विविधानि काव्यानि रूपकाणि वा महाकविभिग्रंथितानि तथा वेदानां रचना नैव जाता । वेदास्तु तपोलग्नैः ऋषिभिः समाधिषु साक्षात्कृताः । अत: 'ऋषयो मन्त्रद्रष्टारः' इति मन्त्राणां साक्षात्कर्तारः ऋषय इति परिभाषितम् । वेदाः प्रलयेऽपि विलयं न गच्छन्ति । वेदा अनादिनिधनाः विष्णुबुद्धिगामिनः सर्गे सर्गे स्वयम्भुवा उपदिष्टा भवन्ति । यथोक्तम् -
अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा ।
नित्या वेदाः समस्ताश्च शाश्वता विष्णुबुद्धिगाः ॥
सर्गे सर्गेऽमुनैवैत उद्गीयन्ते तथैव च ।
वेदाः सत्यविद्यानाम् आकराः । अतो यत्र प्रत्यक्षम् अनुमानं वा प्रमाणं नोपलभ्यते तत्र वेदानां साक्ष्यं स्वीकृतम्। तदुक्तम् आचार्येण सायणेन कृष्णयजुर्वेदीय-भाष्यभूमिकायाम् -
प्रत्यक्षेणानुमित्या वा यस्तूपायो न विद्यते ।
एतं विदन्ति वेदेन तस्माद् वेदस्य वेदता ॥
महर्षिः पतञ्जलिर्महाभाष्ये व्याकरणस्य वेदाङ्गत्वं निरूपयन् वेदाध्ययनविषयकं स्वमतमाविष्करोति -
"ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च।"
शिक्षा, कल्पः, व्याकरणम्, निरुक्तम्, छन्द शास्त्रम्, ज्योतिषञ्चेति वेदानां षडङ्गमुच्यते । तद्यथा -
शिक्षा व्याकरणं कल्पो निरुक्तं छन्दसां चितिः ।
ज्यौतिषं चेति विज्ञेयं षडङ्गं बुधसत्तमैः ॥
आयुर्वेदः, धनुर्वेदः, गान्धर्ववेदः, अर्थशास्त्रं चेत्युपवेदा निगदिताः । पुराणानि, न्यायशास्त्र, मीमांसाशास्त्र, धर्मशास्त्रं चेत्युपाङ्गानि प्रख्यातानि । वेदानामर्थोपगमाय वेदाङ्गानां पुराणादीनाश्च ज्ञानमावश्यकं वर्तते । तद्यथा -
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
विभेत्यल्पच्छ्रताद् वेदो मामयं प्रहरिष्यति ॥
वेदे सर्वशक्तिमतः परमात्मनोऽजरामरस्वरूपस्य प्रतिपादनं प्रमुखविषयत्वेन वर्तते ।
"एकं सद्विप्रा बहुधा वदन्यग्नि यमं मातरिश्वानमाहुः ।"
इति ऋगनुसारम् इन्द्र वरुण यम- सूर्योषः पवमानपर्जन्य-प्रजापति - प्रभृतीनां देवतानां भगवतः प्रमुखाणां शक्तीनां, स्वरूपाणि स्तुतानि । सृष्टिक्रम:, सृष्टेर्यज्ञरूपता, यम-यमी संवादादिषु संवादयोजना, उष: सूक्तादिषु प्राकृतिकसुषमानिरूपणादयो विषयाः उपमा-रूपकाद्यलङ्कारैः समं विराजन्ते ये काव्यानां नाटकादीनामादिस्रोतोरूपेण संतिष्ठन्ते । राष्ट्रसमृद्धयर्थमपि बहवो मन्त्रा वेदेषूपलभ्यन्ते ।
मानवानां कल्याणाय "सत्यं वद । धर्मं चर । स्वाध्यायान्माप्रमदः । मातृदेवो भव । पितृदेवो भव आचार्यदेवो भव । अतिथिदेवो भव ।" इत्यादयः उपदेशा अपि वेदेषु विलसन्ति । अक्षसूक्ते द्यूतक्रीडा व्यसननिमग्नानां कृते हितोपदेशो द्रष्टव्यः- “अक्षैर्मा दीव्यः कृषिमित् कृषस्व" अर्थात् जूतेन धनप्राप्तिकामनां विहाय समृद्धये कृषिः करणीया । द्युतशीलिनो द्य ताद् वारणाय द्यूतप्रभवां दुर्दशां निरूपयति -
जाया तप्यते कितवस्य होना माता पुत्रस्य चरतः क्व स्वित् ।
ॠणा वा बिभ्यद्धनमिच्छमानोऽन्येषामस्तमुपनक्तमेति ॥
समाजे सामञ्जस्य निरूपणाय ऋचेयं दर्शनीया—
संगच्छध्वं संवदध्वं सं वो मनांसि जानताम् ।
देवा भागं यथा पूर्वे संजानाना उपासते ॥
गुरुशिष्ययोः सम्बन्धस्य दृढतायै ऋगियं कियती महत्त्वपूर्णा-
सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥
वेदेषु कर्तव्यनिर्देशनपराः काश्चित् सूक्तयोऽवलोकनीया: -
नानाश्रान्ताय श्रीरस्ति ।
न ऋते श्रान्तस्य सख्याय देवाः ।
न स सखा यो न ददाति सख्ये ।
माता भूमिः पुत्रोऽहं पृथिव्याः ।
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।
ब्रह्मचर्येण तपसा देवा मृत्युमुपाघ्नत ।
न वित्तेन तर्पणीयो मनुष्यः ।
कृण्वन्तो विश्वमार्यम् ।
इत्थं हि संक्षेपेण वेदानां धर्ममूलत्वं निरूपितम् । विस्तरेण वेदानां परिचयाय लघुकलेवरेऽस्मिन् निबन्धे क्वावकाश: ? सत्यविद्यामूलत्वाद् वेदाः सर्वैरध्येयाः ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें